भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 02.01

02.01.001

भ्प्_02.01.001।0 श्रीशुक उवाच
वरीयान् एष ते प्रश्नः कृतो लोकहितं नृप ।
आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः

02.01.002

श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः ।
अपश्यताम् आत्मतत्त्वं गृहेषु गृहमेधिनाम्

02.01.003

निद्रया ह्रियते नक्तं व्यवायेन च वा वयः ।
दिवा चार्थेहया राजन् कुटुम्बभरणेन वा

02.01.004

देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि ।
तेषां प्रमत्तो निधनं पश्यन्न् अपि न पश्यति

02.01.005

तस्माद्भारत सर्वात्मा भगवान् ईश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम्

02.01.006

एतावान् साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया ।
जन्मलाभः परः पुंसाम् अन्ते नारायणस्मृतिः

02.01.007

प्रायेण मुनयो राजन् निवृत्ता विधिषेधतः ।
नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः

02.01.008

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम्

02.01.009

परिनिष्ठितो ऽपि नैर्गुण्य उत्तमश्लोकलीलया ।
गृहीतचेता राजर्षे आख्यानं यदधीतवान्

02.01.010

तदहं ते ऽभिधास्यामि महापौरुषिको भवान् ।
यस्य श्रद्दधताम् आशु स्यान् मुकुन्दे मतिः सती

02.01.011

एतन् निर्विद्यमानानाम् इच्छताम् अकुतोभयम् ।
योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम्

02.01.012

किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह ।
वरं मुहूर्तं विदितं घटते श्रेयसे यतः

02.01.013

खट्वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्ताम् इहायुषः ।
मुहूर्तात् सर्वम् उत्सृज्य गतवान् अभयं हरिम्

02.01.014

तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः ।
उपकल्पय तत् सर्वं तावद्यत् साम्परायिकम्

02.01.015

अन्तकाले तु पुरुष आगते गतसाध्वसः ।
छिन्द्यादसङ्गशस्त्रेण स्पृहां देहे ऽनु ये च तम्

02.01.016

गृहात् प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः ।
शुचौ विविक्त आसीनो विधिवत् कल्पितासने

02.01.017

अभ्यसेन् मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् ।
मनो यच्छेज् जितश्वासो ब्रह्मबीजम् अविस्मरन्

02.01.018

नियच्छेद्विषयेभ्यो ऽक्षान् मनसा बुद्धिसारथिः ।
मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया

02.01.019

तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा ।
मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत् ।
पदं तत् परमं विष्णोर्मनो यत्र प्रसीदति

02.01.020

रजस्तमोभ्याम् आक्षिप्तं विमूढं मन आत्मनः ।
यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम्

02.01.021

यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः ।
आशु सम्पद्यते योग आश्रयं भद्रम् ईक्षतः

02.01.022

भ्प्_02.01.022।0 राजोवाच
यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता ।
यादृशी वा हरेदाशु पुरुषस्य मनोमलम्

02.01.023

भ्प्_02.01.023।0 श्रीशुक उवाच
जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः ।
स्थूले भगवतो रूपे मनः सन्धारयेद्धिया

02.01.024

विशेषस्तस्य देहो ऽयं स्थविष्ठश्च स्थवीयसाम् ।
यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच् च सत्

02.01.025

अण्डकोशे शरीरे ऽस्मिन् सप्तावरणसंयुते ।
वैराजः पुरुषो यो ऽसौ भगवान् धारणाश्रयः

02.01.026

पातालम् एतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् ।
महातलं विश्वसृजो ऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे

02.01.027

द्वे जानुनी सुतलं विश्वमूर्तेर् ऊरुद्वयं वितलं चातलं च ।
महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति

02.01.028

उरःस्थलं ज्योतिरनीकम् अस्य ग्रीवा महर्वदनं वै जनो ऽस्य ।
तपो वराटीं विदुरादिपुंसः सत्यं तु शीर्षाणि सहस्रशीर्ष्णः

02.01.029

इन्द्रादयो बाहव आहुरुस्राः कर्णौ दिशः श्रोत्रम् अमुष्य शब्दः ।
नासत्यदस्रौ परमस्य नासे घ्राणो ऽस्य गन्धो मुखम् अग्निरिद्धः

02.01.030

द्यौरक्षिणी चक्षुरभूत् पतङ्गः पक्ष्माणि विष्णोरहनी उभे च ।
तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यम् आपो ऽस्य तालू रस एव जिह्वा

02.01.031

छन्दांस्यनन्तस्य शिरो गृणन्ति दंष्ट्रा यमः स्नेहकला द्विजानि ।
हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः

02.01.032

व्रीडोत्तरौष्ठो ऽधर एव लोभो धर्मः स्तनो ऽधर्मपथो ऽस्य पृष्ठम् ।
कस्तस्य मेढ्रं वृषणौ च मित्रौ कुक्षिः समुद्रा गिरयो ऽस्थिसङ्घाः

02.01.033

नाड्यो ऽस्य नद्यो ऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र ।
अनन्तवीर्यः श्वसितं मातरिश्वा गतिर्वयः कर्म गुणप्रवाहः

02.01.034

ईशस्य केशान् विदुरम्बुवाहान् वासस्तु सन्ध्यां कुरुवर्य भूम्नः ।
अव्यक्तम् आहुर्हृदयं मनश्चस चन्द्रमाः सर्वविकारकोशः

02.01.035

विज्ञानशक्तिं महिम् आमनन्ति सर्वात्मनो ऽन्तःकरणं गिरित्रम् ।
अश्वाश्वतर्युष्ट्रगजा नखानि सर्वे मृगाः पशवः श्रोणिदेशे

02.01.036

वयांसि तद्व्याकरणं विचित्रं मनुर्मनीषा मनुजो निवासः ।
गन्धर्वविद्याधरचारणाप्सरः स्वरस्मृतीरसुरानीकवीर्यः

02.01.037

ब्रह्माननं क्षत्रभुजो महात्मा विडूरुरङ्घ्रिश्रितकृष्णवर्णः ।
नानाभिधाभीज्यगणोपपन्नो द्रव्यात्मकः कर्म वितानयोगः

02.01.038

इयान् असावीश्वरविग्रहस्य यः सन्निवेशः कथितो मया ते ।
सन्धार्यते ऽस्मिन् वपुषि स्थविष्ठे मनः स्वबुद्ध्या न यतो ऽस्ति किञ्चित्

02.01.039

स सर्वधीवृत्त्यनुभूतसर्व आत्मा यथा स्वप्नजनेक्षितैकः ।
तं सत्यम् आनन्दनिधिं भजेत नान्यत्र सज्जेद्यत आत्मपातः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc