भागवत पुराण · अध्याय 02.03
भ्प्_02.03.001।0 श्रीशुक उवाच
एवम् एतन् निगदितं पृष्टवान् यद्भवान् मम ।
नृणां यन् म्रियमाणानां मनुष्येषु मनीषिणाम्
ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणः पतिम् ।
इन्द्रम् इन्द्रियकामस्तु प्रजाकामः प्रजापतीन्
देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम् ।
वसुकामो वसून् रुद्रान् वीर्यकामो ऽथ वीर्यवान्
अन्नाद्यकामस्त्वदितिं स्वर्गकामो ऽदितेः सुतान् ।
विश्वान् देवान् राज्यकामः साध्यान् संसाधको विशाम्
आयुष्कामो ऽश्विनौ देवौ पुष्टिकाम इलां यजेत् ।
प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ
रूपाभिकामो गन्धर्वान् स्त्रीकामो ऽप्सर उर्वशीम् ।
आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम्
यज्ञं यजेद्यशस्कामः कोशकामः प्रचेतसम् ।
विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम्
धर्मार्थ उत्तमश्लोकं तन्तुः तन्वन् पित्न् यजेत् ।
रक्षाकामः पुण्यजनान् ओजस्कामो मरुद्गणान्
राज्यकामो मनून् देवान् निरृतिं त्वभिचरन् यजेत् ।
कामकामो यजेत् सोमम् अकामः पुरुषं परम्
अकामः सर्वकामो वा मोक्षकाम उदारधीः ।
तीव्रेण भक्तियोगेन यजेत पुरुषं परम्
एतावान् एव यजताम् इह निःश्रेयसोदयः ।
भगवत्यचलो भावो यद्भागवतसङ्गतः
ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम् $ आत्मप्रसाद उत यत्र गुणेष्वसङ्गः &अम्प्;
कैवल्यसम्मतपथस्त्वथ भक्तियोगः % को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ भ्प्_02.03.012*
0 शौनक उवाच
इत्यभिव्याहृतं राजा निशम्य भरतर्षभः ।
किम् अन्यत् पृष्टवान् भूयो वैयासकिम् ऋषिं कविम्
एतच् छुश्रूषतां विद्वन् सूत नो ऽर्हसि भाषितुम् ।
कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम्
स वै भागवतो राजा पाण्डवेयो महारथः ।
बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे
वैयासकिश्च भगवान् वासुदेवपरायणः ।
उरुगायगुणोदाराः सतां स्युर्हि समागमे
आयुर्हरति वै पुंसाम् उद्यन्न् अस्तं च यन्न् असौ ।
तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया
तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत ।
न खादन्ति न मेहन्ति किं ग्रामे पशवो ऽपरे
श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः ।
न यत्कर्णपथोपेतो जातु नाम गदाग्रजः
बिले बतोरुक्रमविक्रमान् ये न शृण्वतः कर्णपुटे नरस्य ।
जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः
भारः परं पट्टकिरीटजुष्टम् अप्युत्तमाङ्गं न नमेन् मुकुन्दम् ।
शावौ करौ नो कुरुते सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा
बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये ।
पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ
जीवञ् छवो भागवताङ्घ्रिरेणुं न जातु मर्त्यो ऽभिलभेत यस्तु ।
श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसञ् छवो यस्तु न वेद गन्धम्
तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः ।
न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः
अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवतप्रधानः ।
यदाह वैयासकिरात्मविद्या विशारदो नृपतिं साधु पृष्टः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0