भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 01.19

01.19.001

भ्प्_01.19.001।0 सूत उवाच
महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन्न् आत्मकृतं सुदुर्मनाः ।
अहो मया नीचम् अनार्यवत् कृतं निरागसि ब्रह्मणि गूढतेजसि

01.19.002

ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् ।
तदस्तु कामं ह्यघनिष्कृताय मे यथा न कुर्यां पुनरेवम् अद्धा

01.19.003

अद्यैव राज्यं बलम् ऋद्धकोशं प्रकोपितब्रह्मकुलानलो मे ।
दहत्वभद्रस्य पुनर्न मे ऽभूत् पापीयसी धीर्द्विजदेवगोभ्यः

01.19.004

स चिन्तयन्न् इत्थम् अथाशृणोद्यथा मुनेः सुतोक्तो निरृतिस्तक्षकाख्यः ।
स साधु मेने न चिरेण तक्षका नलं प्रसक्तस्य विरक्तिकारणम्

01.19.005

अथो विहायेमम् अमुं च लोकं विमर्शितौ हेयतया पुरस्तात् ।
कृष्णाङ्घ्रिसेवाम् अधिमन्यमान उपाविशत् प्रायम् अमर्त्यनद्याम्

01.19.006

या वै लसच्छ्रीतुलसीविमिश्र कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री ।
पुनाति लोकान् उभयत्र सेशान् कस्तां न सेवेत मरिष्यमाणः

01.19.007

इति व्यवच्छिद्य स पाण्डवेयः प्रायोपवेशं प्रति विष्णुपद्याम् ।
दधौ मुकुन्दाङ्घ्रिम् अनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः

01.19.008

तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः ।
प्रायेण तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः

01.19.009

अत्रिर्वसिष्ठश्च्यवनः शरद्वान् अरिष्टनेमिर्भृगुरङ्गिराश्च ।
पराशरो गाधिसुतो ऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ

01.19.010

मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतमः पिप्पलादः ।
मैत्रेय और्वः कवषः कुम्भयोनिर् द्वैपायनो भगवान् नारदश्च

01.19.011

अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च ।
नानार्षेयप्रवरान् समेतान् अभ्यर्च्य राजा शिरसा ववन्दे

01.19.012

सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत् ।
विज्ञापयाम् आस विविक्तचेता उपस्थितो ऽग्रे ऽभिगृहीतपाणिः

01.19.013

भ्प्_01.19.013।0 राजोवाच
अहो वयं धन्यतमा नृपाणां महत्तमानुग्रहणीयशीलाः ।
राज्ञां कुलं ब्राह्मणपादशौचाद् दूराद्विसृष्टं बत गर्ह्यकर्म

01.19.014

तस्यैव मे ऽघस्य परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् ।
निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयम् आशु धत्ते

01.19.015

तं मोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृतचित्तम् ईशे ।
द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथाः

01.19.016

पुनश्च भूयाद्भगवत्यनन्ते रतिः प्रसङ्गश्च तदाश्रयेषु ।
महत्सु यां याम् उपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः

01.19.017

इति स्म राजाध्यवसाययुक्तः प्राचीनमूलेषु कुशेषु धीरः ।
उदङ्मुखो दक्षिणकूल आस्ते समुद्रपत्न्याः स्वसुतन्यस्तभारः

01.19.018

एवं च तस्मिन् नरदेवदेवे प्रायोपविष्टे दिवि देवसङ्घाः ।
प्रशस्य भूमौ व्यकिरन् प्रसूनैर् मुदा मुहुर्दुन्दुभयश्च नेदुः

01.19.019

महर्षयो वै समुपागता ये प्रशस्य साध्वित्यनुमोदमानाः ।
ऊचुः प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणाभिरूपम्

01.19.020

न वा इदं राजर्षिवर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु ।
ये ऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामाः

01.19.021

सर्वे वयं तावदिहास्महे ऽथ कलेवरं यावदसौ विहाय ।
लोकं परं विरजस्कं विशोकं यास्यत्ययं भागवतप्रधानः

01.19.022

आश्रुत्य तदृषिगणवचः परीक्षित् समं मधुच्युद्गुरु चाव्यलीकम् ।
आभाषतैनान् अभिनन्द्य युक्तान् शुश्रूषमाणश्चरितानि विष्णोः

01.19.023

समागताः सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे ।
नेहाथ नामुत्र च कश्चनार्थ ऋते परानुग्रहम् आत्मशीलम्

01.19.024

ततश्च वः पृच्छ्यम् इमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम् ।
सर्वात्मना म्रियमाणैश्च कृत्यं शुद्धं च तत्रामृशताभियुक्ताः

01.19.025

तत्राभवद्भगवान् व्यासपुत्रो यदृच्छया गाम् अटमानो ऽनपेक्षः ।
अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेषः

01.19.026

तं द्व्यष्टवर्षं सुकुमारपाद करोरुबाह्वंसकपोलगात्रम् ।
चार्वायताक्षोन्नसतुल्यकर्ण सुभ्र्वाननं कम्बुसुजातकण्ठम्

01.19.027

निगूढजत्रुं पृथुतुङ्गवक्षसम् आवर्तनाभिं वलिवल्गूदरं च ।
दिगम्बरं वक्त्रविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम्

01.19.028

श्यामं सदापीव्यवयोऽङ्गलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन ।
प्रत्युत्थितास्ते मुनयः स्वासनेभ्यस् तल्लक्षणज्ञा अपि गूढवर्चसम्

01.19.029

स विष्णुरातो ऽतिथय आगताय तस्मै सपर्यां शिरसाजहार ।
ततो निवृत्ता ह्यबुधाः स्त्रियो ऽर्भका महासने सोपविवेश पूजितः

01.19.030

स संवृतस्तत्र महान् महीयसां ब्रह्मर्षिराजर्षिदेवर्षिसङ्घैः ।
व्यरोचतालं भगवान् यथेन्दुर् ग्रहर्क्षतारानिकरैः परीतः

01.19.031

प्रशान्तम् आसीनम् अकुण्ठमेधसं मुनिं नृपो भागवतो ऽभ्युपेत्य ।
प्रणम्य मूर्ध्नावहितः कृताञ्जलिर् नत्वा गिरा सूनृतयान्वपृच्छत्

01.19.032

भ्प्_01.19.032।0 परीक्षिदुवाच
अहो अद्य वयं ब्रह्मन् सत्सेव्याः क्षत्रबन्धवः ।
कृपयातिथिरूपेण भवद्भिस्तीर्थकाः कृताः

01.19.033

येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः ।
किं पुनर्दर्शनस्पर्श पादशौचासनादिभिः

01.19.034

सान्निध्यात् ते महायोगिन् पातकानि महान्त्यपि ।
सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः

01.19.035

अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः ।
पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धवः

01.19.036

अन्यथा ते ऽव्यक्तगतेर्दर्शनं नः कथं नृणाम् ।
नितरां म्रियमाणानां संसिद्धस्य वनीयसः

01.19.037

अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् ।
पुरुषस्येह यत् कार्यं म्रियमाणस्य सर्वथा

01.19.038

यच् छ्रोतव्यम् अथो जप्यं यत् कर्तव्यं नृभिः प्रभो ।
स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम्

01.19.039

नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम् ।
न लक्ष्यते ह्यवस्थानम् अपि गोदोहनं क्वचित्

01.19.040

भ्प्_01.19.040।0 सूत उवाच
एवम् आभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा ।
प्रत्यभाषत धर्मज्ञो भगवान् बादरायणिः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc