भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 01.17

01.17.001

भ्प्_01.17.001।0 सूत उवाच
तत्र गोमिथुनं राजा हन्यमानम् अनाथवत् ।
दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम्

01.17.002

वृषं मृणालधवलं मेहन्तम् इव बिभ्यतम् ।
वेपमानं पदैकेन सीदन्तं शूद्रताडितम्

01.17.003

गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम् ।
विवत्साम् आश्रुवदनां क्षामां यवसम् इच्छतीम्

01.17.004

पप्रच्छ रथम् आरूढः कार्तस्वरपरिच्छदम् ।
मेघगम्भीरया वाचा समारोपितकार्मुकः

01.17.005

कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली ।
नरदेवो ऽसि वेषेण नटवत् कर्मणाद्विजः

01.17.006

यस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना ।
शोच्यो ऽस्यशोच्यान् रहसि प्रहरन् वधम् अर्हसि

01.17.007

त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन् ।
वृषरूपेण किं कश्चिद्देवो नः परिखेदयन्

01.17.008

न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते ।
भूतले ऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुचः

01.17.009

मा सौरभेयात्र शुचो व्येतु ते वृषलाद्भयम् ।
मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि

01.17.010

यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः ।
तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः

01.17.011

एष राज्ञां परो धर्मो ह्यार्तानाम् आर्तिनिग्रहः ।
अत एनं वधिष्यामि भूतद्रुहम् असत्तमम्

01.17.012

को ऽवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पद ।
मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम्

01.17.013

आख्याहि वृष भद्रं वः साधूनाम् अकृतागसाम् ।
आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम्

01.17.014

जने ऽनागस्यघं युञ्जन् सर्वतो ऽस्य च मद्भयम् ।
साधूनां भद्रम् एव स्यादसाधुदमने कृते

01.17.015

अनागःस्विह भूतेषु य आगस्कृन् निरङ्कुशः ।
आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम्

01.17.016

राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम् ।
शासतो ऽन्यान् यथाशास्त्रम् अनापद्युत्पथान् इह

01.17.017

भ्प्_01.17.017।0 धर्म उवाच
एतद्वः पाण्डवेयानां युक्तम् आर्ताभयं वचः ।
येषां गुणगणैः कृष्णो दौत्यादौ भगवान् कृतः

01.17.018

न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ ।
पुरुषं तं विजानीमो वाक्यभेदविमोहिताः

01.17.019

केचिद्विकल्पवसना आहुरात्मानम् आत्मनः ।
दैवम् अन्ये ऽपरे कर्म स्वभावम् अपरे प्रभुम्

01.17.020

अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः ।
अत्रानुरूपं राजर्षे विमृश स्वमनीषया

01.17.021

भ्प्_01.17.021।0 सूत उवाच
एवं धर्मे प्रवदति स सम्राड्द्विजसत्तमाः ।
समाहितेन मनसा विखेदः पर्यचष्ट तम्

01.17.022

भ्प्_01.17.022।0 राजोवाच
धर्मं ब्रवीषि धर्मज्ञ धर्मो ऽसि वृषरूपधृक् ।
यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत्

01.17.023

अथवा देवमायाया नूनं गतिरगोचरा ।
चेतसो वचसश्चापि भूतानाम् इति निश्चयः

01.17.024

तपः शौचं दया सत्यम् इति पादाः कृते कृताः ।
अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव

01.17.025

इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः ।
तं जिघृक्षत्यधर्मो ऽयम् अनृतेनैधितः कलिः

01.17.026

इयं च भूमिर्भगवता न्यासितोरुभरा सती ।
श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका

01.17.027

शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिता सती ।
अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति माम् इति

01.17.028

इति धर्मं महीं चैव सान्त्वयित्वा महारथः ।
निशातम् आददे खड्गं कलये ऽधर्महेतवे

01.17.029

तं जिघांसुम् अभिप्रेत्य विहाय नृपलाञ्छनम् ।
तत्पादमूलं शिरसा समगाद्भयविह्वलः

01.17.030

पतितं पादयोर्वीरः कृपया दीनवत्सलः ।
शरण्यो नावधीच् छ्लोक्य आह चेदं हसन्न् इव

01.17.031

भ्प्_01.17.031।0 राजोवाच
न ते गुडाकेशयशोधराणां बद्धाञ्जलेर्वै भयम् अस्ति किञ्चित् ।
न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वम् अधर्मबन्धुः

01.17.032

त्वां वर्तमानं नरदेवदेहेष्वनुप्रवृत्तो ऽयम् अधर्मपूगः ।
लोभो ऽनृतं चौर्यम् अनार्यम् अंहो ज्येष्ठा च माया कलहश्च दम्भः

01.17.033

न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये ।
ब्रह्मावर्ते यत्र यजन्ति यज्ञैर्यज्ञेश्वरं यज्ञवितानविज्ञाः

01.17.034

यस्मिन् हरिर्भगवान् इज्यमान इज्यात्ममूर्तिर्यजतां शं तनोति ।
कामान् अमोघान् स्थिरजङ्गमानाम् अन्तर्बहिर्वायुरिवैष आत्मा

01.17.035

भ्प्_01.17.035।0 सूत उवाच
परीक्षितैवम् आदिष्टः स कलिर्जातवेपथुः ।
तम् उद्यतासिम् आहेदं दण्डपाणिम् इवोद्यतम्

01.17.036

भ्प्_01.17.036।0 कलिरुवाच
यत्र क्व वाथ वत्स्यामि सार्वभौम तवाज्ञया ।
लक्षये तत्र तत्रापि त्वाम् आत्तेषुशरासनम्

01.17.037

तन् मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुम् अर्हसि ।
यत्रैव नियतो वत्स्य आतिष्ठंस्ते ऽनुशासनम्

01.17.038

भ्प्_01.17.038।0 सूत उवाच
अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ ।
द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः

01.17.039

पुनश्च याचमानाय जातरूपम् अदात् प्रभुः ।
ततो ऽनृतं मदं कामं रजो वैरं च पञ्चमम्

01.17.040

अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः ।
औत्तरेयेण दत्तानि न्यवसत् तन्निदेशकृत्

01.17.041

अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित् ।
विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः

01.17.042

वृषस्य नष्टांस्त्रीन् पादान् तपः शौचं दयाम् इति ।
प्रतिसन्दध आश्वास्य महीं च समवर्धयत्

01.17.043

स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् ।
पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता

01.17.044

आस्ते ऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन् ।
गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः

01.17.045

इत्थम्भूतानुभावो ऽयम् अभिमन्युसुतो नृपः ।
यस्य पालयतः क्षौणीं यूयं सत्राय दीक्षिताः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc