भागवत पुराण · अध्याय 01.16
भ्प्_01.16.001।0 सूत उवाच
ततः परीक्षिद्द्विजवर्यशिक्षया महीं महाभागवतः शशास ह ।
यथा हि सूत्याम् अभिजातकोविदाः समादिशन् विप्र महद्गुणस्तथा
स उत्तरस्य तनयाम् उपयेम इरावतीम् ।
जनमेजयादींश्चतुरस्तस्याम् उत्पादयत् सुतान्
आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् ।
शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः
निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् ।
नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा
भ्प्_01.16.005।0 शौनक उवाच
कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः ।
नृदेवचिह्नधृक् शूद्र को ऽसौ गां यः पदाहनत् ।
तत् कथ्यतां महाभाग यदि कृष्णकथाश्रयम्
अथवास्य पदाम्भोज मकरन्दलिहां सताम् ।
किम् अन्यैरसदालापैरायुषो यदसद्व्ययः
क्षुद्रायुषां नृणाम् अङ्ग मर्त्यानाम् ऋतम् इच्छताम् ।
इहोपहूतो भगवान् मृत्युः शामित्रकर्मणि
न कश्चिन् म्रियते तावद्यावदास्त इहान्तकः ।
एतदर्थं हि भगवान् आहूतः परमर्षिभिः ।
अहो नृलोके पीयेत हरिलीलामृतं वचः
मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै ।
निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः
भ्प्_01.16.010।0 सूत उवाच
यदा परीक्षित् कुरुजाङ्गले ऽवसत् कलिं प्रविष्टं निजचक्रवर्तिते ।
निशम्य वार्ताम् अनतिप्रियां ततः शरासनं संयुगशौण्डिराददे
स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजम् आश्रितः पुरात् ।
वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः
भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् ।
किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम्
नगरांश्च वनांश्चैव नदीश्च विमलोदकाः ।
पुरुषान् देवकल्पांश्च नारीश्च प्रियदर्शनाः
अदृष्टपूर्वान् सुभगान् स ददर्श धनञ्जयः ।
सदनानि च शुभ्राणि नारीश्चाप्सरसां निभाः
तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम् ।
प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम्
आत्मानं च परित्रातम् अश्वत्थाम्नो ऽस्त्रतेजसः ।
स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे
तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः ।
महाधनानि वासांसि ददौ हारान् महामनाः
सारथ्यपारषदसेवनसख्यदौत्य $ वीरासनानुगमनस्तवनप्रणामान् &अम्प्;
स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर् % भक्तिं करोति नृपतिश्चरणारविन्दे ॥ भ्प्_01.16.018* ॥
तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिम् अन्वहम् ।
नातिदूरे किलाश्चर्यं यदासीत् तन् निबोध मे
धर्मः पदैकेन चरन् विच्छायाम् उपलभ्य गाम् ।
पृच्छति स्माश्रुवदनां विवत्साम् इव मातरम्
भ्प्_01.16.021।0 धर्म उवाच
कच्चिद्भद्रे ऽनामयम् आत्मनस्ते विच्छायासि म्लायतेषन् मुखेन ।
आलक्षये भवतीम् अन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब
पादैर्न्यूनं शोचसि मैकपादम् आत्मानं वा वृषलैर्भोक्ष्यमाणम् ।
आहो सुरादीन् हृतयज्ञभागान् प्रजा उत स्विन् मघवत्यवर्षति
अरक्ष्यमाणाः स्त्रिय उर्वि बालान् शोचस्यथो पुरुषादैरिवार्तान् ।
वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान्
किं क्षत्रबन्धून् कलिनोपसृष्टान् राष्ट्राणि वा तैरवरोपितानि ।
इतस्ततो वाशनपानवासः स्नानव्यवायोन्मुखजीवलोकम्
यद्वाम्ब ते भूरिभरावतार कृतावतारस्य हरेर्धरित्रि ।
अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि
इदं ममाचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शितासि ।
कालेन वा ते बलिनां बलीयसा सुरार्चितं किं हृतम् अम्ब सौभगम्
भ्प्_01.16.027।0 धरण्युवाच
भवान् हि वेद तत् सर्वं यन् मां धर्मानुपृच्छसि ।
चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः
सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् ।
शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम्
ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः ।
स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवम् एव च
प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।
गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्तिर्मानो ऽनहङ्कृतिः
एते चान्ये च भगवन् नित्या यत्र महागुणाः ।
प्रार्थ्या महत्त्वम् इच्छद्भिर्न वियन्ति स्म कर्हिचित्
तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् ।
शोचामि रहितं लोकं पाप्मना कलिनेक्षितम्
आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् ।
देवान् पितॄन् ऋषीन् साधून् सर्वान् वर्णांस्तथाश्रमान्
ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष $ कामास्तपः समचरन् भगवत्प्रपन्नाः &अम्प्;
सा श्रीः स्ववासम् अरविन्दवनं विहाय % यत्पादसौभगम् अलं भजते ऽनुरक्ता ॥ भ्प्_01.16.034* ॥
तस्याहम् अब्जकुलिशाङ्कुशकेतुकेतैः $ श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी &
तस्याहम् अब्जकुलिशाङ्कुशकेतुकेतैः $ श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी &
त्रीन् अत्यरोच उपलभ्य ततो विभूतिं % लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥ भ्प्_01.16.035* ॥
यो वै ममातिभरम् आसुरवंशराज्ञाम् $ अक्षौहिणीशतम् अपानुददात्मतन्त्रः &
यो वै ममातिभरम् आसुरवंशराज्ञाम् $ अक्षौहिणीशतम् अपानुददात्मतन्त्रः &
त्वां दुःस्थम् ऊनपदम् आत्मनि पौरुषेण % सम्पादयन् यदुषु रम्यम् अबिभ्रदङ्गम् ॥ भ्प्_01.16.036* ॥
का वा सहेत विरहं पुरुषोत्तमस्य $ प्रेमावलोकरुचिरस्मितवल्गुजल्पैः &
का वा सहेत विरहं पुरुषोत्तमस्य $ प्रेमावलोकरुचिरस्मितवल्गुजल्पैः &
स्थैर्यं समानम् अहरन् मधुमानिनीनां % रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥ भ्प्_01.16.037* ॥
तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा ।
परीक्षिन् नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0