भागवत पुराण · अध्याय 01.18
भ्प्_01.18.001।0 सूत उवाच
यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः ।
अनुग्रहाद्भगवतः कृष्णस्याद्भुतकर्मणः
ब्रह्मकोपोत्थिताद्यस्तु तक्षकात् प्राणविप्लवात् ।
न सम्मुमोहोरुभयाद्भगवत्यर्पिताशयः
उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः ।
वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम्
नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् ।
स्यात् सम्भ्रमो ऽन्तकाले ऽपि स्मरतां तत्पदाम्बुजम्
तावत् कलिर्न प्रभवेत् प्रविष्टो ऽपीह सर्वतः ।
यावदीशो महान् उर्व्याम् आभिमन्यव एकराट्
यस्मिन्न् अहनि यर्ह्येव भगवान् उत्ससर्ज गाम् ।
तदैवेहानुवृत्तो ऽसावधर्मप्रभवः कलिः
नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् ।
कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत्
किं नु बालेषु शूरेण कलिना धीरभीरुणा ।
अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते
उपवर्णितम् एतद्वः पुण्यं पारीक्षितं मया ।
वासुदेवकथोपेतम् आख्यानं यदपृच्छत
या याः कथा भगवतः कथनीयोरुकर्मणः ।
गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः
भ्प्_01.18.011।0 ऋषय ऊचुः
सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः ।
यस्त्वं शंससि कृष्णस्य मर्त्यानाम् अमृतं हि नः
कर्मण्यस्मिन्न् अनाश्वासे धूमधूम्रात्मनां भवान् ।
आपाययति गोविन्द पादपद्मासवं मधु
तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किम् उताशिषः
को नाम तृप्येद्रसवित् कथायां महत्तमैकान्तपरायणस्य ।
नान्तं गुणानाम् अगुणस्य जग्मुर् योगेश्वरा ये भवपाद्ममुख्याः
तन् नो भवान् वै भगवत्प्रधानो महत्तमैकान्तपरायणस्य ।
हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन्
स वै महाभागवतः परीक्षिद् येनापवर्गाख्यम् अदभ्रबुद्धिः ।
ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम्
तन् नः परं पुण्यम् असंवृतार्थम् आख्यानम् अत्यद्भुतयोगनिष्ठम् ।
आख्याह्यनन्ताचरितोपपन्नं पारीक्षितं भागवताभिरामम्
भ्प्_01.18.018।0 सूत उवाच
अहो वयं जन्मभृतो ऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाताः ।
दौष्कुल्यम् आधिं विधुनोति शीघ्रं महत्तमानाम् अभिधानयोगः
कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य ।
यो ऽनन्तशक्तिर्भगवान् अनन्तो महद्गुणत्वाद्यम् अनन्तम् आहुः
एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य ।
हित्वेतरान् प्रार्थयतो विभूतिर् यस्याङ्घ्रिरेणुं जुषते ऽनभीप्सोः
अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः ।
सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः
यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गम् ऊढम् ।
व्रजन्ति तत् पारमहंस्यम् अन्त्यं यस्मिन्न् अहिंसोपशमः स्वधर्मः
अहं हि पृष्टो ऽर्यमणो भवद्भिर् आचक्ष आत्मावगमो ऽत्र यावान् ।
नभः पतन्त्यात्मसमं पतत्त्रिणस् तथा समं विष्णुगतिं विपश्चितः
एकदा धनुरुद्यम्य विचरन् मृगयां वने ।
मृगान् अनुगतः श्रान्तः क्षुधितस्तृषितो भृशम्
जलाशयम् अचक्षाणः प्रविवेश तम् आश्रमम् ।
ददर्श मुनिम् आसीनं शान्तं मीलितलोचनम्
प्रतिरुद्धेन्द्रियप्राण मनोबुद्धिम् उपारतम् ।
स्थानत्रयात् परं प्राप्तं ब्रह्मभूतम् अविक्रियम्
विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च ।
विशुष्यत्तालुरुदकं तथाभूतम् अयाचत
अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृतः ।
अवज्ञातम् इवात्मानं मन्यमानश्चुकोप ह
अभूतपूर्वः सहसा क्षुत्तृड्भ्याम् अर्दितात्मनः ।
ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च
स तु ब्रह्मऋषेरंसे गतासुम् उरगं रुषा ।
विनिर्गच्छन् धनुष्कोट्या निधाय पुरम् आगतः
एष किं निभृताशेष करणो मीलितेक्षणः ।
मृषासमाधिराहोस्वित् किं नु स्यात् क्षत्रबन्धुभिः
तस्य पुत्रो ऽतितेजस्वी विहरन् बालको ऽर्भकैः ।
राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदम् अब्रवीत्
अहो अधर्मः पालानां पीव्नां बलिभुजाम् इव ।
स्वामिन्यघं यद्दासानां द्वारपानां शुनाम् इव
ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः ।
स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तुम् अर्हति
कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् ।
तद्भिन्नसेतून् अद्याहं शास्मि पश्यत मे बलम्
इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः ।
कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह
इति लङ्घितमर्यादं तक्षकः सप्तमे ऽहनि ।
दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम्
ततो ऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् ।
पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह
स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् ।
उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम्
विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि ।
केन वा ते ऽपकृतम् इत्युक्तः स न्यवेदयत्
निशम्य शप्तम् अतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजम् अभ्यनन्दत् ।
अहो बतांहो महदद्य ते कृतम् अल्पीयसि द्रोह उरुर्दमो धृतः
न वै नृभिर्नरदेवं पराख्यं सम्मातुम् अर्हस्यविपक्वबुद्धे ।
यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभयाः प्रजाः
अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयम् अङ्ग लोकः ।
तदा हि चौरप्रचुरो विनङ्क्ष्यत्यरक्ष्यमाणो ऽविवरूथवत् क्षणात्
तदद्य नः पापम् उपैत्यनन्वयं यन् नष्टनाथस्य वसोर्विलुम्पकात् ।
परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियो ऽर्थान् पुरुदस्यवो जनाः
तदार्यधर्मः प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः ।
ततो ऽर्थकामाभिनिवेशितात्मनां शुनां कपीनाम् इव वर्णसङ्करः
धर्मपालो नरपतिः स तु सम्राड्बृहच्छ्रवाः ।
साक्षान् महाभागवतो राजर्षिर्हयमेधयाट् ।
क्षुत्तृट्श्रमयुतो दीनो नैवास्मच् छापम् अर्हति
अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना ।
पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुम् अर्हति
तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि ।
नास्य तत् प्रतिकुर्वन्ति तद्भक्ताः प्रभवो ऽपि हि
इति पुत्रकृताघेन सो ऽनुतप्तो महामुनिः ।
स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत्
प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः ।
न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0