भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 01.13

01.13.001

भ्प्_01.13.001।0 सूत उवाच
विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् ।
ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः

01.13.002

यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः ।
जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह

01.13.003

तं बन्धुम् आगतं दृष्ट्वा धर्मपुत्रः सहानुजः ।
धृतराष्ट्रो युयुत्सुश्च सूतः शारद्वतः पृथा

01.13.004

गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी ।
अन्याश्च जामयः पाण्डोर्ज्ञातयः ससुताः स्त्रियः

01.13.005

प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम् ।
अभिसङ्गम्य विधिवत् परिष्वङ्गाभिवादनैः

01.13.006

मुमुचुः प्रेमबाष्पौघं विरहौत्कण्ठ्यकातराः ।
राजा तम् अर्हयां चक्रे कृतासनपरिग्रहम्

01.13.007

तं भुक्तवन्तं विश्रान्तम् आसीनं सुखम् आसने ।
प्रश्रयावनतो राजा प्राह तेषां च शृण्वताम्

01.13.008

भ्प्_01.13.008।0 युधिष्ठिर उवाच
अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान् ।
विपद्गणाद्विषाग्न्यादेर्मोचिता यत् समातृकाः

01.13.009

कया वृत्त्या वर्तितं वश्चरद्भिः क्षितिमण्डलम् ।
तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले

01.13.010

भवद्विधा भागवतास्तीर्थभूताः स्वयं विभो ।
तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता

01.13.011

अपि नः सुहृदस्तात बान्धवाः कृष्णदेवताः ।
दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखम् आसते

01.13.012

इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत् ।
यथानुभूतं क्रमशो विना यदुकुलक्षयम्

01.13.013

नन्वप्रियं दुर्विषहं नृणां स्वयम् उपस्थितम् ।
नावेदयत् सकरुणो दुःखितान् द्रष्टुम् अक्षमः

01.13.014

कञ्चित् कालम् अथावात्सीत् सत्कृतो देववत् सुखम् ।
भ्रातुर्ज्येष्ठस्य श्रेयस्कृत् सर्वेषां सुखम् आवहन्

01.13.015

अबिभ्रदर्यमा दण्डं यथावदघकारिषु ।
यावद्दधार शूद्रत्वं शापाद्वर्षशतं यमः

01.13.016

युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम् ।
भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया

01.13.017

एवं गृहेषु सक्तानां प्रमत्तानां तदीहया ।
अत्यक्रामदविज्ञातः कालः परमदुस्तरः

01.13.018

विदुरस्तदभिप्रेत्य धृतराष्ट्रम् अभाषत ।
राजन् निर्गम्यतां शीघ्रं पश्येदं भयम् आगतम्

01.13.019

प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो ।
स एष भगवान् कालः सर्वेषां नः समागतः

01.13.020

येन चैवाभिपन्नो ऽयं प्राणैः प्रियतमैरपि ।
जनः सद्यो वियुज्येत किम् उतान्यैर्धनादिभिः

01.13.021

पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयम् ।
आत्मा च जरया ग्रस्तः परगेहम् उपाससे

01.13.022

अन्धः पुरैव वधिरो मन्दप्रज्ञाश्च साम्प्रतम् ।
विशीर्णदन्तो मन्दाग्निः सरागः कफम् उद्वहन्

01.13.023

अहो महीयसी जन्तोर्जीविताशा यथा भवान् ।
भीमापवर्जितं पिण्डम् आदत्ते गृहपालवत्

01.13.024

अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः ।
हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत्

01.13.025

तस्यापि तव देहो ऽयं कृपणस्य जिजीविषोः ।
परैत्यनिच्छतो जीर्णो जरया वाससी इव

01.13.026

गतस्वार्थम् इमं देहं विरक्तो मुक्तबन्धनः ।
अविज्ञातगतिर्जह्यात् स वै धीर उदाहृतः

01.13.027

यः स्वकात् परतो वेह जातनिर्वेद आत्मवान् ।
हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तमः

01.13.028

अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् ।
इतो ऽर्वाक् प्रायशः कालः पुंसां गुणविकर्षणः

01.13.029

एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित आजमीढः ।
छित्त्वा स्वेषु स्नेहपाशान् द्रढिम्नो निश्चक्राम भ्रातृसन्दर्शिताध्वा

01.13.030

पतिं प्रयान्तं सुबलस्य पुत्री पतिव्रता चानुजगाम साध्वी ।
हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनाम् इव सत् सम्प्रहारः

01.13.031

अजातशत्रुः कृतमैत्रो हुताग्निर् विप्रान् नत्वा तिलगोभूमिरुक्मैः ।
गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत् पितरौ सौबलीं च

01.13.032

तत्र सञ्जयम् आसीनं पप्रच्छोद्विग्नमानसः ।
गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः

01.13.033

अम्बा च हतपुत्रार्ता पितृव्यः क्व गतः सुहृत् ।
अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया ।
आशंसमानः शमलं गङ्गायां दुःखितो ऽपतत्

01.13.034

पितर्युपरते पाण्डौ सर्वान् नः सुहृदः शिशून् ।
अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः

01.13.035

भ्प्_01.13.035।0 सूत उवाच
कृपया स्नेहवैक्लव्यात् सूतो विरहकर्शितः ।
आत्मेश्वरम् अचक्षाणो न प्रत्याहातिपीडितः

01.13.036

विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानम् आत्मना ।
अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन्

01.13.037

भ्प्_01.13.037।0 सञ्जय उवाच
नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन ।
गान्धार्या वा महाबाहो मुषितो ऽस्मि महात्मभिः

01.13.038

अथाजगाम भगवान् नारदः सहतुम्बुरुः ।
प्रत्युत्थायाभिवाद्याह सानुजो ऽभ्यर्चयन् मुनिम्

01.13.039

भ्प्_01.13.039।0 युधिष्ठिर उवाच
नाहं वेद गतिं पित्रोर्भगवन् क्व गतावितः ।
अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी

01.13.040

कर्णधार इवापारे भगवान् पारदर्शकः ।
अथाबभाषे भगवान् नारदो मुनिसत्तमः

01.13.041

भ्प्_01.13.041।0 नारद उवाच
मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् ।
लोकाः सपाला यस्येमे वहन्ति बलिम् ईशितुः ।
स संयुनक्ति भूतानि स एव वियुनक्ति च

01.13.042

यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभिः ।
वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिम् ईशितुः

01.13.043

यथा क्रीडोपस्कराणां संयोगविगमाविह ।
इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम्

01.13.044

यन् मन्यसे ध्रुवं लोकम् अध्रुवं वा न चोभयम् ।
सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात्

01.13.045

तस्माज् जह्यङ्ग वैक्लव्यम् अज्ञानकृतम् आत्मनः ।
कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना

01.13.046

कालकर्मगुणाधीनो देहो ऽयं पाञ्चभौतिकः ।
कथम् अन्यांस्तु गोपायेत् सर्पग्रस्तो यथा परम्

01.13.047

अहस्तानि सहस्तानाम् अपदानि चतुष्पदाम् ।
फल्गूनि तत्र महतां जीवो जीवस्य जीवनम्

01.13.048

तदिदं भगवान् राजन्न् एक आत्मात्मनां स्वदृक् ।
अन्तरो ऽनन्तरो भाति पश्य तं माययोरुधा

01.13.049

सो ऽयम् अद्य महाराज भगवान् भूतभावनः ।
कालरूपो ऽवतीर्णो ऽस्याम् अभावाय सुरद्विषाम्

01.13.050

निष्पादितं देवकृत्यम् अवशेषं प्रतीक्षते ।
तावद्यूयम् अवेक्षध्वं भवेद्यावदिहेश्वरः

01.13.051

धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया ।
दक्षिणेन हिमवत ऋषीणाम् आश्रमं गतः

01.13.052

स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् ।
सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते

01.13.053

स्नात्वानुसवनं तस्मिन् हुत्वा चाग्नीन् यथाविधि ।
अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः

01.13.054

जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः ।
हरिभावनया ध्वस्तरजःसत्त्वतमोमलः

01.13.055

विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।
ब्रह्मण्यात्मानम् आधारे घटाम्बरम् इवाम्बरे

01.13.056

ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः ।
निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः ।
तस्यान्तरायो मैवाभूः सन्न्यस्ताखिलकर्मणः

01.13.057

स वा अद्यतनाद्राजन् परतः पञ्चमे ऽहनि ।
कलेवरं हास्यति स्वं तच् च भस्मीभविष्यति

01.13.058

दह्यमाने ऽग्निभिर्देहे पत्युः पत्नी सहोटजे ।
बहिः स्थिता पतिं साध्वी तम् अग्निम् अनु वेक्ष्यति

01.13.059

विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन ।
हर्षशोकयुतस्तस्माद्गन्ता तीर्थनिषेवकः

01.13.060

इत्युक्त्वाथारुहत् स्वर्गं नारदः सहतुम्बुरुः ।
युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच् छुचः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc