भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 01.14

01.14.001

भ्प्_01.14.001।0 सूत उवाच
सम्प्रस्थिते द्वारकायांजिष्णौ बन्धुदिदृक्षया ।
ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्

01.14.002

व्यतीताः कतिचिन् मासास्तदा नायात् ततो ऽर्जुनः ।
ददर्श घोररूपाणि निमित्तानि कुरूद्वहः

01.14.003

कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः ।
पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम्

01.14.004

जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् ।
पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम्

01.14.005

निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम् ।
लोभाद्यधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः

01.14.006

भ्प्_01.14.006।0 युधिष्ठिर उवाच
सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षयाज् ।
ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्

01.14.007

गताः सप्ताधुना मासा भीमसेन तवानुजः ।
नायाति कस्य वा हेतोर्नाहं वेदेदम् अञ्जसा

01.14.008

अपि देवर्षिणादिष्टः स कालो ऽयम् उपस्थितः ।
यदात्मनो ऽङ्गम् आक्रीडं भगवान् उत्सिसृक्षति

01.14.009

यस्मान् नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः ।
आसन् सपत्नविजयो लोकाश्च यदनुग्रहात्

01.14.010

पश्योत्पातान् नरव्याघ्र दिव्यान् भौमान् सदैहिकान् ।
दारुणान् शंसतो ऽदूराद्भयं नो बुद्धिमोहनम्

01.14.011

ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः ।
वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम्

01.14.012

शिवैषोद्यन्तम् आदित्यम् अभिरौत्यनलानना ।
माम् अङ्ग सारमेयो ऽयम् अभिरेभत्यभीरुवत्

01.14.013

शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवो ऽपरे ।
वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम

01.14.014

मृत्युदूतः कपोतो ऽयम् उलूकः कम्पयन् मनः ।
प्रत्युलूकश्च कुह्वानैर्विश्वं वै शून्यम् इच्छतः

01.14.015

धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः ।
निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः

01.14.016

वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः ।
असृग् वर्षन्ति जलदा बीभत्सम् इव सर्वतः

01.14.017

सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि ।
ससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसी

01.14.018

नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च ।
न ज्वलत्यग्निराज्येन कालो ऽयं किं विधास्यति

01.14.019

न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः ।
रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे

01.14.020

दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च ।
इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः ।
भ्रष्टश्रियो निरानन्दाः किम् अघं दर्शयन्ति नः

01.14.021

मन्य एतैर्महोत्पातैर्नूनं भगवतः पदैः ।
अनन्यपुरुषश्रीभिर्हीना भूर्हतसौभगा

01.14.022

इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा ।
राज्ञः प्रत्यागमद्ब्रह्मन् यदुपुर्याः कपिध्वजः

01.14.023

तं पादयोर्निपतितम् अयथापूर्वम् आतुरम् ।
अधोवदनम् अब्बिन्दून् सृजन्तं नयनाब्जयोः

01.14.024

विलोक्योद्विग्नहृदयो विच्छायम् अनुजं नृपः ।
पृच्छति स्म सुहृन् मध्ये संस्मरन् नारदेरितम्

01.14.025

भ्प्_01.14.025।0 युधिष्ठिर उवाच
कच्चिदानर्तपुर्यां नः स्वजनाः सुखम् आसते ।
मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः

01.14.026

शूरो मातामहः कच्चित् स्वस्त्यास्ते वाथ मारिषः ।
मातुलः सानुजः कच्चित् कुशल्यानकदुन्दुभिः

01.14.027

सप्त स्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाः ।
आसते सस्नुषाः क्षेमंदेवकीप्रमुखाः स्वयम्

01.14.028

कच्चिद्राजाहुको जीवत्यसत्पुत्रो ऽस्य चानुजः ।
हृदीकः ससुतो ऽक्रूरो जयन्तगदसारणाः

01.14.029

आसते कुशलं कच्चिद्ये च शत्रुजिदादयः ।
कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभुः

01.14.030

प्रद्युम्नः सर्ववृष्णीनां सुखम् आस्ते महारथः ।
गम्भीररयो ऽनिरुद्धो वर्धते भगवान् उत

01.14.031

सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः ।
अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः

01.14.032

तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः ।
सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः

01.14.033

अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाः ।
अपि स्मरन्ति कुशलम् अस्माकं बद्धसौहृदाः

01.14.034

भगवान् अपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः ।
कच्चित् पुरे सुधर्मायां सुखम् आस्ते सुहृद्वृतः

01.14.035

मङ्गलाय च लोकानां क्षेमाय च भवाय च ।
आस्ते यदुकुलाम्भोधावाद्यो ऽनन्तसखः पुमान्

01.14.036

यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवो ऽर्चिताः ।
क्रीडन्ति परमानन्दं महापौरुषिका इव

01.14.037

यत्पादशुश्रूषणमुख्यकर्मणा सत्यादयो द्व्यष्टसहस्रयोषितः ।
निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिताः

01.14.038

यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहुः ।
अधिक्रमन्त्यङ्घ्रिभिराहृतां बलात् सभां सुधर्मां सुरसत्तमोचिताम्

01.14.039

कच्चित् ते ऽनामयं तात भ्रष्टतेजा विभासि मे ।
अलब्धमानो ऽवज्ञातः किं वा तात चिरोषितः

01.14.040

कच्चिन् नाभिहतो ऽभावैः शब्दादिभिरमङ्गलैः ।
न दत्तम् उक्तम् अर्थिभ्य आशया यत् प्रतिश्रुतम्

01.14.041

कच्चित् त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् ।
शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः

01.14.042

कच्चित् त्वं नागमो ऽगम्यां गम्यां वासत्कृतां स्त्रियम् ।
पराजितो वाथ भवान् नोत्तमैर्नासमैः पथि

01.14.043

अपि स्वित् पर्यभुङ्क्थास्त्वं सम्भोज्यान् वृद्धबालकान् ।
जुगुप्सितं कर्म किञ्चित् कृतवान् न यदक्षमम्

01.14.044

कच्चित् प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना ।
शून्यो ऽस्मि रहितो नित्यं मन्यसे ते ऽन्यथा न रुक्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc