भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 01.12

01.12.001

भ्प्_01.12.001।0 शौनक उवाच
अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा ।
उत्तराया हतो गर्भ ईशेनाजीवितः पुनः

01.12.002

तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः ।
निधनं च यथैवासीत् स प्रेत्य गतवान् यथा

01.12.003

तदिदं श्रोतुम् इच्छामो गदितुं यदि मन्यसे ।
ब्रूहि नः श्रद्दधानानां यस्य ज्ञानम् अदाच् छुकः

01.12.004

भ्प्_01.12.004।0 सूत उवाच
अपीपलद्धर्मराजः पितृवद्रञ्जयन् प्रजाः ।
निःस्पृहः सर्वकामेभ्यः कृष्णपादानुसेवया

01.12.005

सम्पदः क्रतवो लोका महिषी भ्रातरो मही ।
जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम्

01.12.006

किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः ।
अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे

01.12.007

मातुर्गर्भगतो वीरः स तदा भृगुनन्दन ।
ददर्श पुरुषं कञ्चिद्दह्यमानो ऽस्त्रतेजसा

01.12.008

अङ्गुष्ठमात्रम् अमलं स्फुरत्पुरटमौलिनम् ।
अपीव्यदर्शनं श्यामं तडिद्वाससम् अच्युतम्

01.12.009

श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम् ।
क्षतजाक्षं गदापाणिम् आत्मनः सर्वतो दिशम् ।
परिभ्रमन्तम् उल्काभां भ्रामयन्तं गदां मुहुः

01.12.010

अस्त्रतेजः स्वगदया नीहारम् इव गोपतिः ।
विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ

01.12.011

विधूय तदमेयात्मा भगवान् धर्मगुब् विभुः ।
मिषतो दशमासस्य तत्रैवान्तर्दधे हरिः

01.12.012

ततः सर्वगुणोदर्के सानुकूलग्रहोदये ।
जज्ञे वंशधरः पाण्डोर्भूयः पाण्डुरिवौजसा

01.12.013

तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभिः ।
जातकं कारयाम् आस वाचयित्वा च मङ्गलम्

01.12.014

हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् ।
प्रादात् स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित्

01.12.015

तम् ऊचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् ।
एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ

01.12.016

दैवेनाप्रतिघातेन शुक्ले संस्थाम् उपेयुषि ।
रातो वो ऽनुग्रहार्थाय विष्णुना प्रभविष्णुना

01.12.017

तस्मान् नाम्ना विष्णुरात इति लोके भविष्यति ।
न सन्देहो महाभाग महाभागवतो महान्

01.12.018

भ्प्_01.12.018।0 श्रीराजोवाच
अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः ।
अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः

01.12.019

भ्प्_01.12.019।0 ब्राह्मणा ऊचुः
पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः ।
ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा

01.12.020

एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः ।
यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम्

01.12.021

धन्विनाम् अग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः ।
हुताश इव दुर्धर्षः समुद्र इव दुस्तरः

01.12.022

मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवान् इव ।
तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव

01.12.023

पितामहसमः साम्ये प्रसादे गिरिशोपमः ।
आश्रयः सर्वभूतानां यथा देवो रमाश्रयः

01.12.024

सर्वसद्गुणमाहात्म्ये एष कृष्णम् अनुव्रतः ।
रन्तिदेव इवोदारो ययातिरिव धार्मिकः

01.12.025

हृत्या बलिसमः कृष्णे प्रह्राद इव सद्ग्रहः ।
आहर्तैषो ऽश्वमेधानां वृद्धानां पर्युपासकः

01.12.026

राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् ।
निग्रहीता कलेरेष भुवो धर्मस्य कारणात्

01.12.027

तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् ।
प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः

01.12.028

जिज्ञासितात्मयाथार्थ्यो मुनेर्व्याससुतादसौ ।
हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम्

01.12.029

इति राज्ञ उपादिश्य विप्रा जातककोविदाः ।
लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान्

01.12.030

स एष लोके विख्यातः परीक्षिदिति यत् प्रभुः ।
पूर्वं दृष्टम् अनुध्यायन् परीक्षेत नरेष्विह

01.12.031

स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः ।
आपूर्यमाणः पितृभिः काष्ठाभिरिव सो ऽन्वहम्

01.12.032

यक्ष्यमाणो ऽश्वमेधेन ज्ञातिद्रोहजिहासया ।
राजा लब्धधनो दध्यौ नान्यत्र करदण्डयोः

01.12.033

तदभिप्रेतम् आलक्ष्य भ्रातरो ञ्च्युतचोदिताः ।
धनं प्रहीणम् आजह्रुरुदीच्यां दिशि भूरिशः

01.12.034

तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः ।
वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजद्धरिम्

01.12.035

आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् ।
उवास कतिचिन् मासान् सुहृदां प्रियकाम्यया

01.12.036

ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः ।
ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृतः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc