भागवत पुराण · अध्याय 01.09
भ्प्_01.09.001।0 सूत उवाच
इति भीतः प्रजाद्रोहात् सर्वधर्मविवित्सया ।
ततो विनशनं प्रागाद्यत्र देवव्रतो ऽपतत्
तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः ।
अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा
भगवान् अपि विप्रर्षे रथेन सधनञ्जयः ।
स तैर्व्यरोचत नृपः कुवेर इव गुह्यकैः
दृष्ट्वा निपतितं भूमौ दिवश्च्युतम् इवामरम् ।
प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा
तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम ।
राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम्
पर्वतो नारदो धौम्यो भगवान् बादरायणः ।
बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः
वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदो ऽसितः ।
कक्षीवान् गौतमो ऽत्रिश्च कौशिको ऽथ सुदर्शनः
अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयो ऽमलाः ।
शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः
तान् समेतान् महाभागान् उपलभ्य वसूत्तमः ।
पूजयाम् आस धर्मज्ञो देशकालविभागवित्
कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् ।
हृदिस्थं पूजयाम् आस माययोपात्तविग्रहम्
पाण्डुपुत्रान् उपासीनान् प्रश्रयप्रेमसङ्गतान् ।
अभ्याचष्टानुरागाश्रैरन्धीभूतेन चक्षुषा
अहो कष्टम् अहो ऽन्याय्यं यद्यूयं धर्मनन्दनाः ।
जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः
संस्थिते ऽतिरथे पाण्डौ पृथा बालप्रजा वधूः ।
युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः
सर्वं कालकृतं मन्ये भवतां च यदप्रियम् ।
सपालो यद्वशे लोको वायोरिव घनावलिः
यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः ।
कृष्णो ऽस्त्री गाण्डिवं चापं सुहृत् कृष्णस्ततो विपत्
न ह्यस्य कर्हिचिद्राजन् पुमान् वेद विधित्सितम् ।
यद्विजिज्ञासया युक्ता मुह्यन्ति कवयो ऽपि हि
तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ ।
तस्यानुविहितो ऽनाथा नाथ पाहि प्रजाः प्रभो
एष वै भगवान् साक्षादाद्यो नारायणः पुमान् ।
मोहयन् मायया लोकं गूढश्चरति वृष्णिषु
अस्यानुभावं भगवान् वेद गुह्यतमं शिवः ।
देवर्षिर्नारदः साक्षाद्भगवान् कपिलो नृप
यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् ।
अकरोः सचिवं दूतं सौहृदादथ सारथिम्
सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः ।
तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित्
तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् ।
यन् मे ऽसूंस्त्यजतः साक्षात् कृष्णो दर्शनम् आगतः
भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् ।
त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः
स देवदेवो भगवान् प्रतीक्षतां कलेवरं यावदिदं हिनोम्यहम् ।
प्रसन्नहासारुणलोचनोल्लसन् मुखाम्बुजो ध्यानपथश्चतुर्भुजः
भ्प्_01.09.025।0 सूत उवाच
युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे ।
अपृच्छद्विविधान् धर्मान् ऋषीणां चानुशृण्वताम्
पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् ।
वैराग्यरागोपाधिभ्याम् आम्नातोभयलक्षणान्
दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः ।
स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगतः
धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने ।
नानाख्यानेतिहासेषु वर्णयाम् आस तत्त्ववित्
धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः ।
यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायणः
तदोपसंहृत्य गिरः सहस्रणीर् विमुक्तसङ्गं मन आदिपूरुषे ।
कृष्णे लसत्पीतपटे चतुर्भुजे पुरः स्थिते ऽमीलितदृग् व्यधारयत्
विशुद्धया धारणया हताशुभस् तदीक्षयैवाशु गतायुधश्रमः ।
निवृत्तसर्वेन्द्रियवृत्तिविभ्रमस् तुष्टाव जन्यं विसृजञ् जनार्दनम्
भ्प्_01.09.032।0 श्रीभीष्म उवाच
इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि ।
स्वसुखम् उपगते क्वचिद्विहर्तुं प्रकृतिम् उपेयुषि यद्भवप्रवाहः
त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मे ऽनवद्या
युधि तुरगरजोविधूम्रविष्वक् कचलुलितश्रमवार्यलङ्कृतास्ये ।
मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचे ऽस्तु कृष्ण आत्मा
सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य ।
स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु
व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या ।
कुमतिम् अहरदात्मविद्यया यश् चरणरतिः परमस्य तस्य मे ऽस्तु
स्वनिगमम् अपहाय मत्प्रतिज्ञाम् ऋतम् अधिकर्तुम् अवप्लुतो रथस्थः ।
धृतरथचरणो ऽभ्ययाच् चलद्गुर् हरिरिव हन्तुम् इभं गतोत्तरीयः
शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे ।
प्रसभम् अभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः
विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये ।
भगवति रतिरस्तु मे मुमूर्षोर् यम् इह निरीक्ष्य हता गताः स्वरूपम्
ललितगतिविलासवल्गुहास प्रणयनिरीक्षणकल्पितोरुमानाः ।
कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिम् अगन् किल यस्य गोपवध्वः
मुनिगणनृपवर्यसङ्कुले ऽन्तः सदसि युधिष्ठिरराजसूय एषाम् ।
अर्हणम् उपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा
तम् इमम् अहम् अजं शरीरभाजां हृदि हृदि धिष्ठितम् आत्मकल्पितानाम् ।
प्रतिदृशम् इव नैकधार्कम् एकं समधिगतो ऽस्मि विधूतभेदमोहः
भ्प्_01.09.043।0 सूत उवाच
कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः ।
आत्मन्यात्मानम् आवेश्य सो ऽन्तःश्वास उपारमत्
सम्पद्यमानम् आज्ञाय भीष्मं ब्रह्मणि निष्कले ।
सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये
तत्र दुन्दुभयो नेदुर्देवमानववादिताः ।
शशंसुः साधवो राज्ञां खात् पेतुः पुष्पवृष्टयः
तस्य निर्हरणादीनि सम्परेतस्य भार्गव ।
युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितो ऽभवत्
तुष्टुवुर्मुनयो हृष्टाः कृष्णं तद्गुह्यनामभिः ।
ततस्ते कृष्णहृदयाः स्वाश्रमान् प्रययुः पुनः
ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् ।
पितरं सान्त्वयाम् आस गान्धारीं च तपस्विनीम्
पित्रा चानुमतो राजा वासुदेवानुमोदितः ।
चकार राज्यं धर्मेण पितृपैतामहं विभुः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0