भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 01.08

01.08.001

भ्प्_01.08.001।0 सूत उवाच
अथ ते सम्परेतानां स्वानाम् उदकम् इच्छताम् ।
दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः

01.08.002

ते निनीयोदकं सर्वे विलप्य च भृशं पुनः ।
आप्लुता हरिपादाब्जरजःपूतसरिज्जले

01.08.003

तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् ।
गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः

01.08.004

सान्त्वयाम् आस मुनिभिर्हतबन्धूञ् शुचार्पितान् ।
भूतेषु कालस्य गतिं दर्शयन् न प्रतिक्रियाम्

01.08.005

साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम् ।
घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः

01.08.006

याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः ।
तद्यशः पावनं दिक्षु शतमन्योरिवातनोत्

01.08.007

आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः ।
द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः

01.08.008

गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथम् आस्थितः ।
उपलेभे ऽभिधावन्तीम् उत्तरां भयविह्वलाम्

01.08.009

भ्प्_01.08.009।0 उत्तरोवाच
पाहि पाहि महायोगिन् देवदेव जगत्पते ।
नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम्

01.08.010

अभिद्रवति माम् ईश शरस्तप्तायसो विभो ।
कामं दहतु मां नाथ मा मे गर्भो निपात्यताम्

01.08.011

भ्प्_01.08.011।0 सूत उवाच
उपधार्य वचस्तस्या भगवान् भक्तवत्सलः ।
अपाण्डवम् इदं कर्तुं द्रौणेरस्त्रम् अबुध्यत

01.08.012

तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् ।
आत्मनो ऽभिमुखान् दीप्तान् आलक्ष्यास्त्राण्युपाददुः

01.08.013

व्यसनं वीक्ष्य तत् तेषाम् अनन्यविषयात्मनाम् ।
सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः

01.08.014

अन्तःस्थः सर्वभूतानाम् आत्मा योगेश्वरो हरिः ।
स्वमाययावृणोद्गर्भं वैराट्याः कुरुतन्तवे

01.08.015

यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् ।
वैष्णवं तेज आसाद्य समशाम्यद्भृगूद्वह

01.08.016

मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमये ञ्च्युते ।
य इदं मायया देव्या सृजत्यवति हन्त्यजः

01.08.017

ब्रह्मतेजोविनिर्मुक्तैरात्मजैः सह कृष्णया ।
प्रयाणाभिमुखं कृष्णम् इदम् आह पृथा सती

01.08.018

भ्प्_01.08.018।0 कुन्त्युवाच
नमस्ये पुरुषं त्वाद्यम् ईश्वरं प्रकृतेः परम् ।
अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम्

01.08.019

मायाजवनिकाच्छन्नम् अज्ञाधोक्षजम् अव्ययम् ।
न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा

01.08.020

तथा परमहंसानां मुनीनाम् अमलात्मनाम् ।
भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः

01.08.021

कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नन्दगोपकुमाराय गोविन्दाय नमो नमः

01.08.022

नमः पङ्कजनाभाय नमः पङ्कजमालिने ।
नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये

01.08.023

यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता ।
विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात्

01.08.024

विषान् महाग्नेः पुरुषाददर्शनाद् असत्सभाया वनवासकृच्छ्रतः ।
मृधे मृधे ऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरे ऽभिरक्षिताः

01.08.025

विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्गुरो ।
भवतो दर्शनं यत् स्यादपुनर्भवदर्शनम्

01.08.026

जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान् ।
नैवार्हत्यभिधातुं वै त्वाम् अकिञ्चनगोचरम्

01.08.027

नमो ऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये ।
आत्मारामाय शान्ताय कैवल्यपतये नमः

01.08.028

मन्ये त्वां कालम् ईशानम् अनादिनिधनं विभुम् ।
समं चरन्तं सर्वत्र भूतानां यन् मिथः कलिः

01.08.029

न वेद कश्चिद्भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम् ।
न यस्य कश्चिद्दयितो ऽस्ति कर्हिचिद् द्वेष्यश्च यस्मिन् विषमा मतिर्नृणाम्

01.08.030

जन्म कर्म च विश्वात्मन्न् अजस्याकर्तुरात्मनः ।
तिर्यङ्नॄषिषु यादःसु तदत्यन्तविडम्बनम्

01.08.031

गोप्याददे त्वयि कृतागसि दाम तावद् या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम् ।
वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्बिभेति

01.08.032

केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये ।
यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम्

01.08.033

अपरे वसुदेवस्य देवक्यां याचितो ऽभ्यगात् ।
अजस्त्वम् अस्य क्षेमाय वधाय च सुरद्विषाम्

01.08.034

भारावतारणायान्ये भुवो नाव इवोदधौ ।
सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः

01.08.035

भवे ऽस्मिन् क्लिश्यमानानाम् अविद्याकामकर्मभिः ।
श्रवणस्मरणार्हाणि करिष्यन्न् इति केचन

01.08.036

शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः ।
त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम्

01.08.037

अप्यद्य नस्त्वं स्वकृतेहित प्रभो जिहाससि स्वित् सुहृदो ऽनुजीविनः ।
येषां न चान्यद्भवतः पदाम्बुजात् परायणं राजसु योजितांहसाम्

01.08.038

के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः ।
भवतो ऽदर्शनं यर्हि हृषीकाणाम् इवेशितुः

01.08.039

नेयं शोभिष्यते तत्र यथेदानीं गदाधर ।
त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः

01.08.040

इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः ।
वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितैः

01.08.041

अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे ।
स्नेहपाशम् इमं छिन्धि दृढं पाण्डुषु वृष्णिषु

01.08.042

त्वयि मे ऽनन्यविषया मतिर्मधुपते ऽसकृत् ।
रतिम् उद्वहतादद्धा गङ्गेवौघम् उदन्वति

01.08.043

श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग् राजन्यवंशदहनानपवर्गवीर्य ।
गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन् नमस्ते

01.08.044

भ्प्_01.08.044।0 सूत उवाच
पृथयेत्थं कलपदैः परिणूताखिलोदयः ।
मन्दं जहास वैकुण्ठो मोहयन्न् इव मायया

01.08.045

तां बाढम् इत्युपामन्त्र्य प्रविश्य गजसाह्वयम् ।
स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः

01.08.046

व्यासाद्यैरीश्वरेहाज्ञैः कृष्णेनाद्भुतकर्मणा ।
प्रबोधितो ऽपीतिहासैर्नाबुध्यत शुचार्पितः

01.08.047

आह राजा धर्मसुतश्चिन्तयन् सुहृदां वधम् ।
प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः

01.08.048

अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः ।
पारक्यस्यैव देहस्य बह्व्यो मे ऽक्षौहिणीर्हताः

01.08.049

बालद्विजसुहृन्मित्र पितृभ्रातृगुरुद्रुहः ।
न मे स्यान् निरयान् मोक्षो ह्यपि वर्षायुतायुतैः

01.08.050

नैनो राज्ञः प्रजाभर्तुर्धर्मयुद्धे वधो द्विषाम् ।
इति मे न तु बोधाय कल्पते शासनं वचः

01.08.051

स्त्रीणां मद्धतबन्धूनां द्रोहो यो ऽसाविहोत्थितः ।
कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम्

01.08.052

यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् ।
भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुम् अर्हति

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc