भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 01.10

01.10.001

भ्प्_01.10.001।0 शौनक उवाच
हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः ।
सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किम् अकारषीत् ततः

01.10.002

भ्प्_01.10.002।0 सूत उवाच
वंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवभावनो हरिः ।
निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह

01.10.003

निशम्य भीष्मोक्तम् अथाच्युतोक्तं प्रवृत्तविज्ञानविधूतविभ्रमः ।
शशास गाम् इन्द्र इवाजिताश्रयः परिध्युपान्ताम् अनुजानुवर्तितः

01.10.004

कामं ववर्ष पर्जन्यः सर्वकामदुघा मही ।
सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा

01.10.005

नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः ।
फलन्त्योषधयः सर्वाः कामम् अन्वृतु तस्य वै

01.10.006

नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः ।
अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित्

01.10.007

उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः ।
सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया

01.10.008

आमन्त्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् ।
आरुरोह रथं कैश्चित् परिष्वक्तो ऽभिवादितः

01.10.009

सुभद्रा द्रौपदी कुन्ती विराटतनया तथा ।
गान्धारी धृतराष्ट्रश्च युयुत्सुर्गौतमो यमौ

01.10.010

वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः ।
न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः

01.10.011

सत्सङ्गान् मुक्तदुःसङ्गो हातुं नोत्सहते बुधः ।
कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम्

01.10.012

तस्मिन् न्यस्तधियः पार्थाः सहेरन् विरहं कथम् ।
दर्शनस्पर्शसंलाप शयनासनभोजनैः

01.10.013

सर्वे ते ऽनिमिषैरक्षैस्तम् अनु द्रुतचेतसः ।
वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह

01.10.014

न्यरुन्धन्न् उद्गलद्बाष्पम् औत्कण्ठ्याद्देवकीसुते ।
निर्यात्यगारान् नो ऽभद्रम् इति स्याद्बान्धवस्त्रियः

01.10.015

मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखाः ।
धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा

01.10.016

प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया ।
ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः

01.10.017

सितातपत्रं जग्राह मुक्तादामविभूषितम् ।
रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह

01.10.018

उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते ।
विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि

01.10.019

अश्रूयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः ।
नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः

01.10.020

अन्योन्यम् आसीत् सञ्जल्प उत्तमश्लोकचेतसाम् ।
कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः

01.10.021

स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि ।
अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मन् निशि सुप्तशक्तिषु

01.10.022

स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।
अनामरूपात्मनि रूपनामनी विधित्समानो ऽनुससार शास्त्रकृत्

01.10.023

स वा अयं यत् पदम् अत्र सूरयो जितेन्द्रिया निर्जितमातरिश्वनः ।
पश्यन्ति भक्त्युत्कलितामलात्मना नन्वेष सत्त्वं परिमार्ष्टुम् अर्हति

01.10.024

स वा अयं सख्यनुगीतसत्कथो वेदेषु गुह्येषु च गुह्यवादिभिः ।
य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सज्जते

01.10.025

यदा ह्यधर्मेण तमोधियो नृपा जीवन्ति तत्रैष हि सत्त्वतः किल ।
धत्ते भगं सत्यम् ऋतं दयां यशो भवाय रूपाणि दधद्युगे युगे

01.10.026

अहो अलं श्लाघ्यतमं यदोः कुलम् अहो अलं पुण्यतमं मधोर्वनम् ।
यदेष पुंसाम् ऋषभः श्रियः पतिः स्वजन्मना चङ्क्रमणेन चाञ्चति

01.10.027

अहो बत स्वर्यशसस्तिरस्करी कुशस्थली पुण्ययशस्करी भुवः ।
पश्यन्ति नित्यं यदनुग्रहेषितं स्मितावलोकं स्वपतिं स्म यत्प्रजाः

01.10.028

नूनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः ।
पिबन्ति याः सख्यधरामृतं मुहुर् व्रजस्त्रियः सम्मुमुहुर्यदाशयाः

01.10.029

या वीर्यशुल्केन हृताः स्वयंवरे प्रमथ्य चैद्यप्रमुखान् हि शुष्मिणः ।
प्रद्युम्नसाम्बाम्बसुतादयो ऽपरा याश्चाहृता भौमवधे सहस्रशः

01.10.030

एताः परं स्त्रीत्वम् अपास्तपेशलं निरस्तशौचं बत साधु कुर्वते ।
यासां गृहात् पुष्करलोचनः पतिर् न जात्वपैत्याहृतिभिर्हृदि स्पृशन्

01.10.031

एवंविधा गदन्तीनां स गिरः पुरयोषिताम् ।
निरीक्षणेनाभिनन्दन् सस्मितेन ययौ हरिः

01.10.032

अजातशत्रुः पृतनां गोपीथाय मधुद्विषः ।
परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्गिणीम्

01.10.033

अथ दूरागतान् शौरिः कौरवान् विरहातुरान् ।
सन्निवर्त्य दृढं स्निग्धान् प्रायात् स्वनगरीं प्रियैः

01.10.034

कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् ।
ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतान् अथ

01.10.035

मरुधन्वम् अतिक्रम्य सौवीराभीरयोः परान् ।
आनर्तान् भार्गवोपागाच् छ्रान्तवाहो मनाग् विभुः

01.10.036

तत्र तत्र ह तत्रत्यैर्हरिः प्रत्युद्यतार्हणः ।
सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc