भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 01.04

01.04.001

भ्प्_01.04.001।0 व्यास उवाच
इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् ।
वृद्धः कुलपतिः सूतं बह्वृचः शौनको ऽब्रवीत्

01.04.002

भ्प्_01.04.002।0 शौनक उवाच
सूत सूत महाभाग वद नो वदतां वर ।
कथां भागवतीं पुण्यां यदाह भगवाञ् छुकः

01.04.003

कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना ।
कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः

01.04.004

तस्य पुत्रो महायोगी समदृङ् निर्विकल्पकः ।
एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते

01.04.005

दृष्ट्वानुयान्तम् ऋषिम् आत्मजम् अप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् ।
तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः

01.04.006

कथम् आलक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान् ।
उन्मत्तमूकजडवद्विचरन् गजसाह्वये

01.04.007

कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह ।
संवादः समभूत् तात यत्रैषा सात्वती श्रुतिः

01.04.008

स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् ।
अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम्

01.04.009

अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् ।
तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः

01.04.010

स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः ।
प्रायोपविष्टो गङ्गायाम् अनादृत्याधिराट्श्रियम्

01.04.011

नमन्ति यत्पादनिकेतम् आत्मनः शिवाय हानीय धनानि शत्रवः ।
कथं स वीरः श्रियम् अङ्ग दुस्त्यजां युवैषतोत्स्रष्टुम् अहो सहासुभिः

01.04.012

शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः ।
जीवन्ति नात्मार्थम् असौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम्

01.04.013

तत् सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन ।
मन्ये त्वां विषये वाचां स्नातम् अन्यत्र छान्दसात्

01.04.014

भ्प्_01.04.014।0 सूत उवाच
द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।
जातः पराशराद्योगी वासव्यां कलया हरेः

01.04.015

स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचिः ।
विविक्त एक आसीन उदिते रविमण्डले

01.04.016

परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा ।
युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे

01.04.017

भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् ।
अश्रद्दधानान् निःसत्त्वान् दुर्मेधान् ह्रसितायुषः

01.04.018

दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा ।
सर्ववर्णाश्रमाणां यद्दध्यौ हितम् अमोघदृक्

01.04.019

चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् ।
व्यदधाद्यज्ञसन्तत्यै वेदम् एकं चतुर्विधम्

01.04.020

ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः ।
इतिहासपुराणं च पञ्चमो वेद उच्यते

01.04.021

तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः ।
वैशम्पायन एवैको निष्णातो यजुषाम् उत

01.04.022

अथर्वाङ्गिरसाम् आसीत् सुमन्तुर्दारुणो मुनिः ।
इतिहासपुराणानां पिता मे रोमहर्षणः

01.04.023

त एत ऋषयो वेदं स्वं स्वं व्यस्यन्न् अनेकधा ।
शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनो ऽभवन्

01.04.024

त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा ।
एवं चकार भगवान् व्यासः कृपणवत्सलः

01.04.025

स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।
कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ।
इति भारतम् आख्यानं कृपया मुनिना कृतम्

01.04.026

एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः ।
सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः

01.04.027

नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ ।
वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित्

01.04.028

धृतव्रतेन हि मया छन्दांसि गुरवो ऽग्नयः ।
मानिता निर्व्यलीकेन गृहीतं चानुशासनम्

01.04.029

भारतव्यपदेशेन ह्याम्नायार्थश्च प्रदर्शितः ।
दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत

01.04.030

तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः ।
असम्पन्न इवाभाति ब्रह्मवर्चस्य सत्तमः

01.04.031

किं वा भागवता धर्मा न प्रायेण निरूपिताः ।
प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः

01.04.032

तस्यैवं खिलम् आत्मानं मन्यमानस्य खिद्यतः ।
कृष्णस्य नारदो ऽभ्यागादाश्रमं प्राग् उदाहृतम्

01.04.033

तम् अभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः ।
पूजयाम् आस विधिवन् नारदं सुरपूजितम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc