भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 01.05

01.05.001

भ्प्_01.05.001।0 सूत उवाच
अथ तं सुखम् आसीन उपासीनं बृहच्छ्रवाः ।
देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्न् इव

01.05.002

भ्प्_01.05.002।0 नारद उवाच
पाराशर्य महाभाग भवतः कच्चिदात्मना ।
परितुष्यति शारीर आत्मा मानस एव वा

01.05.003

जिज्ञासितं सुसम्पन्नम् अपि ते महदद्भुतम् ।
कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम्

01.05.004

जिज्ञासितम् अधीतं च ब्रह्म यत् तत् सनातनम् ।
तथापि शोचस्यात्मानम् अकृतार्थ इव प्रभो

01.05.005

भ्प्_01.05.005।0 व्यास उवाच
अस्त्येव मे सर्वम् इदं त्वयोक्तं तथापि नात्मा परितुष्यते मे ।
तन्मूलम् अव्यक्तम् अगाधबोधं पृच्छामहे त्वात्मभवात्मभूतम्

01.05.006

स वै भवान् वेद समस्तगुह्यम् उपासितो यत् पुरुषः पुराणः ।
परावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गः

01.05.007

त्वं पर्यटन्न् अर्क इव त्रिलोकीम् अन्तश्चरो वायुरिवात्मसाक्षी ।
परावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनम् अलं विचक्ष्व

01.05.008

भ्प्_01.05.008।0 श्रीनारद उवाच
भवतानुदितप्रायं यशो भगवतो ऽमलम् ।
येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम्

01.05.009

यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः ।
न तथा वासुदेवस्य महिमा ह्यनुवर्णितः

01.05.010

न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् ।
तद्वायसं तीर्थम् उशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः

01.05.011

तद्वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकम् अबद्धवत्यपि ।
नामान्यनन्तस्य यशो ऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः

01.05.012

नैष्कर्म्यम् अप्यच्युतभाववर्जितं न शोभते ज्ञानम् अलं निरञ्जनम् ।
कुतः पुनः शश्वदभद्रम् ईश्वरे न चार्पितं कर्म यदप्यकारणम्

01.05.013

अथो महाभाग भवान् अमोघदृक् शुचिश्रवाः सत्यरतो धृतव्रतः ।
उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम्

01.05.014

ततो ऽन्यथा किञ्चन यद्विवक्षतः पृथग् दृशस्तत्कृतरूपनामभिः ।
न कर्हिचित् क्वापि च दुःस्थिता मतिर् लभेत वाताहतनौरिवास्पदम्

01.05.015

जुगुप्सितं धर्मकृते ऽनुशासतः स्वभावरक्तस्य महान् व्यतिक्रमः ।
यद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जनः

01.05.016

विचक्षणो ऽस्यार्हति वेदितुं विभोर् अनन्तपारस्य निवृत्तितः सुखम् ।
प्रवर्तमानस्य गुणैरनात्मनस् ततो भवान् दर्शय चेष्टितं विभोः

01.05.017

त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर् भजन्न् अपक्वो ऽथ पतेत् ततो यदि ।
यत्र क्व वाभद्रम् अभूदमुष्य किं को वार्थ आप्तो ऽभजतां स्वधर्मतः

01.05.018

तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमताम् उपर्यधः ।
तल् लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा

01.05.019

न वै जनो जातु कथञ्चनाव्रजेन् मुकुन्दसेव्यन्यवदङ्ग संसृतिम् ।
स्मरन् मुकुन्दाङ्घ्र्युपगूहनं पुनर् विहातुम् इच्छेन् न रसग्रहो जनः

01.05.020

इदं हि विश्वं भगवान् इवेतरो यतो जगत्स्थाननिरोधसम्भवाः ।
तद्धि स्वयं वेद भवांस्तथापि ते प्रादेशमात्रं भवतः प्रदर्शितम्

01.05.021

त्वम् आत्मनात्मानम् अवेह्यमोघदृक् परस्य पुंसः परमात्मनः कलाम् ।
अजं प्रजातं जगतः शिवाय तन् महानुभावाभ्युदयो ऽधिगण्यताम्

01.05.022

इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः ।
अविच्युतो ऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम्

01.05.023

अहं पुरातीतभवे ऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम् ।
निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम्

01.05.024

ते मय्यपेताखिलचापले ऽर्भके दान्ते ऽधृतक्रीडनके ऽनुवर्तिनि ।
चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयो ऽल्पभाषिणि

01.05.025

उच्छिष्टलेपान् अनुमोदितो द्विजैः सकृत् स्म भुञ्जे तदपास्तकिल्बिषः ।
एवं प्रवृत्तस्य विशुद्धचेतसस् तद्धर्म एवात्मरुचिः प्रजायते

01.05.026

तत्रान्वहं कृष्णकथाः प्रगायताम् अनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मे ऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः

01.05.027

तस्मिंस्तदा लब्धरुचेर्महामते प्रियश्रवस्यस्खलिता मतिर्मम ।
ययाहम् एतत् सदसत् स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे

01.05.028

इत्थं शरत्प्रावृषिकावृतू हरेर् विशृण्वतो मे ऽनुसवं यशो ऽमलम् ।
सङ्कीर्त्यमानं मुनिभिर्महात्मभिर् भक्तिः प्रवृत्तात्मरजस्तमोपहा

01.05.029

तस्यैवं मे ऽनुरक्तस्य प्रश्रितस्य हतैनसः ।
श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च

01.05.030

ज्ञानं गुह्यतमं यत् तत् साक्षाद्भगवतोदितम् ।
अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः

01.05.031

येनैवाहं भगवतो वासुदेवस्य वेधसः ।
मायानुभावम् अविदं येन गच्छन्ति तत्पदम्

01.05.032

एतत् संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् ।
यदीश्वरे भगवति कर्म ब्रह्मणि भावितम्

01.05.033

आमयो यश्च भूतानां जायते येन सुव्रत ।
तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम्

01.05.034

एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः ।
त एवात्मविनाशाय कल्पन्ते कल्पिताः परे

01.05.035

यदत्र क्रियते कर्म भगवत्परितोषणम् ।
ज्ञानं यत् तदधीनं हि भक्तियोगसमन्वितम्

01.05.036

कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् ।
गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च

01.05.037

ओं नमो भगवते तुभ्यं वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च

01.05.038

इति मूर्त्यभिधानेन मन्त्रमूर्तिम् अमूर्तिकम् ।
यजते यज्ञपुरुषं स सम्यग् दर्शनः पुमान्

01.05.039

इमं स्वनिगमं ब्रह्मन्न् अवेत्य मदनुष्ठितम् ।
अदान् मे ज्ञानम् ऐश्वर्यं स्वस्मिन् भावं च केशवः

01.05.040

त्वम् अप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम् ।
प्राख्याहि दुःखैर्मुहुरर्दितात्मनां सङ्क्लेशनिर्वाणम् उशन्ति नान्यथा

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc