भागवत पुराण · अध्याय 01.03
भ्प्_01.03.001।0 सूत उवाच
जगृहे पौरुषं रूपं भगवान् महदादिभिः ।
सम्भूतं षोडशकलम् आदौ लोकसिसृक्षया
यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः ।
नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः
यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ।
तद्वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम्
पश्यन्त्यदो रूपम् अदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम् ।
सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत्
एतन् नानावताराणां निधानं बीजम् अव्ययम् ।
यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः
स एव प्रथमं देवः कौमारं सर्गम् आश्रितः ।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितम्
द्वितीयं तु भवायास्य रसातलगतां महीम् ।
उद्धरिष्यन्न् उपादत्त यज्ञेशः सौकरं वपुः
तृतीयम् ऋषिसर्गं वै देवर्षित्वम् उपेत्य सः ।
तन्त्रं सात्वतम् आचष्ट नैष्कर्म्यं कर्मणां यतः
तुर्ये धर्मकलासर्गे नरनारायणावृषी ।
भूत्वात्मोपशमोपेतम् अकरोद्दुश्चरं तपः
पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।
प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम्
षष्ठम् अत्रेरपत्यत्वं वृतः प्राप्तो ऽनसूयया ।
आन्वीक्षिकीम् अलर्काय प्रह्लादादिभ्य ऊचिवान्
ततः सप्तम आकूत्यां रुचेर्यज्ञो ऽभ्यजायत ।
स यामाद्यैः सुरगणैरपात् स्वायम्भुवान्तरम्
अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः ।
दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम्
ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।
दुग्धेमाम् ओषधीर्विप्रास्तेनायं स उशत्तमः
रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे ।
नाव्यारोप्य महीमय्याम् अपाद्वैवस्वतं मनुम्
सुरासुराणाम् उदधिं मथ्नतां मन्दराचलम् ।
दध्रे कमठरूपेण पृष्ठ एकादशे विभुः
धान्वन्तरं द्वादशमं त्रयोदशमम् एव च ।
अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया
चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रम् ऊर्जितम् ।
ददार करजैरूरावेरकां कटकृद्यथा
पञ्चदशं वामनकं कृत्वागादध्वरं बलेः ।
पदत्रयं याचमानः प्रत्यादित्सुस्त्रिपिष्टपम्
अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् ।
त्रिःसप्तकृत्वः कुपितो निःक्षत्राम् अकरोन् महीम्
ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।
चक्रे वेदतरोः शाखा दृष्ट्वा पुंसो ऽल्पमेधसः
नरदेवत्वम् आपन्नः सुरकार्यचिकीर्षया ।
समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम्
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
रामकृष्णाविति भुवो भगवान् अहरद्भरम्
ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् ।
बुद्धो नाम्नाञ्जनसुतः कीकटेषु भविष्यति
अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु ।
जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः
अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः ।
यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः
ऋषयो मनवो देवा मनुपुत्रा महौजसः ।
कलाः सर्वे हरेरेव सप्रजापतयः स्मृताः
एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ।
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे
जन्म गुह्यं भगवतो य एतत् प्रयतो नरः ।
सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते
एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः ।
मायागुणैर्विरचितं महदादिभिरात्मनि
यथा नभसि मेघौघो रेणुर्वा पार्थिवो ऽनिले ।
एवं द्रष्टरि दृश्यत्वम् आरोपितम् अबुद्धिभिः
अतः परं यदव्यक्तम् अव्यूढगुणबृंहितम् ।
अदृष्टाश्रुतवस्तुत्वात् स जीवो यत् पुनर्भवः
यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा ।
अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम्
यद्येषोपरता देवी माया वैशारदी मतिः ।
सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते
एवं च जन्मानि कर्माणि ह्यकर्तुरजनस्य च ।
वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः
स वा इदं विश्वम् अमोघलीलः सृजत्यवत्यत्ति न सज्जते ऽस्मिन् ।
भूतेषु चान्तर्हित आत्मतन्त्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः
न चास्य कश्चिन् निपुणेन धातुर् अवैति जन्तुः कुमनीष ऊतीः ।
नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्याम् इवाज्ञः
स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः ।
यो ऽमायया सन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम्
अथेह धन्या भगवन्त इत्थं यद्वासुदेवे ऽखिललोकनाथे ।
कुर्वन्ति सर्वात्मकम् आत्मभावं न यत्र भूयः परिवर्त उग्रः
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
उत्तमश्लोकचरितं चकार भगवान् ऋषिः
निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् ।
तदिदं ग्राहयाम् आससुतम् आत्मवतां वरम्
सर्ववेदेतिहासानां सारं सारं समुद्धृतम् ।
स तु संश्रावयाम् आसमहाराजं परीक्षितम्
प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः ।
कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह
कलौ नष्टदृशाम् एष पुराणार्को ऽधुनोदितः ।
तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः
अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात् ।
सो ऽहं वः श्रावयिष्यामि यथाधीतं यथामति
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0