भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीताभाष्य · अध्याय 6

6.1

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स संन्यसी च योगी च न निरग्निर् न चाक्रियः ॥

6.2

यं संन्यास इति प्राहुर् योगं तं विद्धि पाण्डव ।
न ह्य् असंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥

6.3

आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते ।
योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥

6.4

यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते ।
सर्वसङ्कल्पसंन्यासी योगारूढस् तदोच्यते ॥

6.5

उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् ।
आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः ॥

6.6

बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः ।
अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥

6.7

जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु तथा मानावमानयोः ॥

6.8

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्य् उच्यते योगी समलोष्टाश्मकाञ्चनः ॥

6.9

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्व् अपि च पापेषु समबुद्धिर् विशिष्यते ॥

6.10

योगी युञ्जीत सततम् आत्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीर् अपरिग्रहः ॥

6.11

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः ।
नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् ॥

6.12

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्याद् योगम् आत्मविशुद्धये ॥

6.13

समं कायशिरोग्रीवं धारयन् अचलं स्थिरम् ।
संप्रेक्ष्य नासिकाग्रं स्वं देशश् चानवलोकयन् ॥

6.14

प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥

6.15

युञ्जन्न् एवं सदात्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थाम् अधिगच्छति ॥

6.16

नात्यश्नतस् तु योगो ऽस्ति न चैकान्तम् अनश्नतः ।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥

6.17

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥

6.18

यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते ।
निस्स्पृहः सर्वकामेभ्यो युक्त इत्य् उच्यते तदा ॥

6.19

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगम् आत्मनः ॥

6.21

सुखम् आत्यन्तिकं यत् तद् बुद्धिग्राह्यम् अतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः ॥

6.22

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥

6.23

तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् ।
स निश्चयेन योक्तव्यो योगो ऽनिर्विण्णचेतसा ॥

6.24

सङ्कल्पप्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥

6.25

शनैश् शनैर् उपरमेद् बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ॥

6.26

यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् ।
ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥

6.27

प्रशान्तमनसं ह्य् एनं योगिनं सुखम् उत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम् ॥

6.28

एवं युञ्जन् सदात्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥

6.29

सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥

6.30

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥

6.31

सर्वभूतस्थितं यो माम् भजत्य् एकत्वम् आस्थितः ।
सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते ॥

6.32

आत्माउपम्येन सर्वत्र समं पश्यति यो ऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥

6.33

यो ऽयं योगस् त्वया प्रोक्तः साम्येन ंअधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥

6.34

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।
तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥

6.35

असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥

6.36

असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्यो ऽवाप्तुम् उपायतः ॥

6.37

अयतिः श्रद्धयोपेतो योगाच् चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥

6.38

कच्चिन् नोभयविभ्रष्टश् छिन्नाभ्रम् इव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥

6.39

एतं मे संशयं कृष्ण च्छेतुम् अर्हस्य् अशेषतः ।
त्वदन्यः संशयस्यास्य च्छेत्ता न ह्य् उपपद्यते ॥

6.40

पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते ।
न हि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छति ॥

6.41

प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टो ऽभिजायते ॥

6.42

अथ वा योगिनाम् एव कुले भवति धीमताम् ।
एतद् धि दुर्लभतरं लोके जन्म यदीदृशम् ॥

6.43

तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥

6.44ab

पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो ऽपि सः ।

6.44cd

जिज्ञासुर् अपि योगस्य शब्दब्रह्मातिवर्तते ॥

6.45

प्रयत्नाद् यतमानस् तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस् ततो याति परां गतिम् ॥

6.46

तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः ।
कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥

6.47

योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥

मूल पाठ: Bhagavadgītābhāṣya · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc