भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीताभाष्य · अध्याय 7

7.1

मय्य् आसक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु ॥

7.2

ज्ञानं ते ऽहं सविज्ञानम् इदं वक्ष्याम्य् अशेषतः ।
यज् ज्ञात्वा नेह भूयो ऽन्यज् ज्ञातव्यम् अवशिष्यते ॥

7.3

मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये ।
यतताम् अपि सिद्धानां कश्चिन् मां वेत्ति तत्त्वतः ॥

7.4

भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥

7.5

अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥

7.6

एतद्योनीनि भूतानि सर्वाणीत्य् उपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ॥

7.7ab

मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय ।

7.7cd

मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ॥

7.8

रसो ऽहम् अप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवस् सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥

7.9

पुण्यो गन्धः पृथिव्यां च तेजश् चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश् चास्मि तपस्विषु ॥

7.10

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् ॥

7.11

बलं बलवन्ताञ् चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामो ऽस्मि भरतर्षभ ॥

7.12

ये चैव सात्त्विका भावा राजसास् तामसाश् च ये ।
मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥

7.13

त्रिभिर् गुणमयैर् भावैर् एभिः सर्वम् इदं जगत् ।
मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ॥

7.14ab

दैवी ह्य् एषा गुणमयी मम माया दुरत्यया ।

7.14cd

माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥

7.15

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावम् आश्रिताः ॥

7.16

चतुर्विधा भजन्ते माम् जनाः सुकृतिनो ऽर्जुन ।
आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ ॥

7.17

तेषां ज्ञानी नित्ययुक्तः एकभक्तिर् विशिष्यते ।
प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ॥

7.18

उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् ।
आस्थितस् स हि युक्तात्मा माम् एवानुत्तमां गतिम् ॥

7.19

बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते ।
वासुदेवस् सर्वम् इति स महात्मा सुदुर्लभः ॥

7.20

कामैस् तैस् तैर् हृतज्ञानाः प्रपद्यन्ते ऽन्यदेवताः ।
तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥

7.21

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति ।
तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥

7.22

स तया श्रद्धया युक्तस् तस्याराधनम् ईहते ।
लभते च ततः कामान् मयैव विहितान् हि तान् ॥

7.23

अन्तवत् तु फलं तेषां तद् भवत्य् अल्पमेधसाम् ।
देवान् देवयज्ञो यान्ति मद्भक्ता यान्ति माम् अपि ॥

7.24

अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः ।
परं भावम् अजानन्तो मम अव्ययम् अनुत्तमम् ॥

7.25

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढो ऽयं नाभिजानाति लोको माम् अजम् अव्ययम् ॥

7.26

वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥

7.27

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥

7.28

येषां त्व् अन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ताः भजन्ते मां दृढव्रताः ॥

7.29

जरामरणमोक्षाय माम् आश्रित्य यतन्ति ये ।
ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् ॥

7.30

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकाले ऽपि च मां ते विदुर् युक्तचेतसः ॥

मूल पाठ: Bhagavadgītābhāṣya · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc