भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीताभाष्य · अध्याय 5

5.1

संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि ।
यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥

5.2

संन्यासः कर्मयोगश् च निश्श्रेयसकराव् उभौ ।
तयोस् तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ॥

5.3

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते ॥

5.4

सांख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः ।
एकम् अप्य् आस्थितस् सम्यग् उभयोर् विन्दन्ते फलम् ॥

5.5

यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते ।
एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥

5.6

संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः ।
योगयुक्तो मुनिर् ब्रह्म न चिरेणाधिगच्छति ॥

5.7

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्न् अपि न लिप्यते ॥

5.8

नैष किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥

5.9

प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन्न् अपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥

5.10

ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रम् इवाम्भसा ॥

5.11

कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥

5.12

युक्तः कर्मफलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥

5.13

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन् न कारयन् ॥

5.14

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस् तु प्रवर्तते ॥

5.15

नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥

5.16

ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः ।
तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत् परम् ॥

5.17

तद्बुद्धयस् तदात्मनस् तन्निष्ठास् तत्परायणाः ।
गच्छन्त्य् अपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥

5.18

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥

5.19

इहैव तैर् जितस् स्वर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥

5.20

न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ।
स्थिरबुद्धिर् असंमूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥

5.21

बाह्यस्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यः सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखम् अक्षयम् अश्नुते ॥

5.22

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥

5.23

शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥

5.24

यो ऽन्तस्सुखो ऽन्तरारामस् तथान्तर्ज्योतिर् एव यः ।
स योगी ब्रह्म निर्वाणं ब्रह्मभूतो ऽधिगच्छति ॥

5.25

लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानस् सर्वभूतहिते रताः ॥

5.26

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विजितात्मनाम् ॥

5.27

स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥

5.28

यतेन्द्रियमनोबुद्धिर् मुनिर् मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥

5.29

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा माम् शान्तिम् ऋच्छति ॥

मूल पाठ: Bhagavadgītābhāṣya · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc