भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीताभाष्य · अध्याय 14

14.1

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् ।
यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः ॥

14.2

इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः ।
सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥

14.3

मम योनिर् महद्ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् ।
संभवस् सर्वभूतानां ततो भवति भारत ॥

14.4

सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः ।
तासां ब्रह्म महद् योनिर् अहं बीजप्रदः पिता ॥

14.5

सत्त्वं रजस् तम इति गुणाः प्रकृतिसंभवाः ।
निबध्नन्ति महाबाहो देहे देहिनम् अव्ययम् ॥

14.6

तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥

14.7

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
तन् निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥

14.8

तमस् त्व् अज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस् तन् निबध्नाति भारत ॥

14.9

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयत्य् उत ॥

14.10

रजस् तमश् चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश् चैव तमः सत्त्वं रजस् तथा ॥

14.11

सर्वद्वारेषु देहे ऽस्मिन् प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वम् इत्य् उत ॥

14.12

लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा ।
रजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ ॥

14.13

अप्रकाशो ऽप्रवृत्तिश् च प्रमादो मोह एव च ।
तमस्य् एतानि जायन्ते विवृद्धे कुरुनन्दन ॥

14.14

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकान् अमलान् प्रतिपद्यते ॥

14.16

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् ॥

14.17

सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतो ऽज्ञानम् एव च ॥

14.18

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥

14.19

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश् च परं वेत्ति मद्भावं सो ऽधिगच्छति ॥

14.20

गुणान् एतान् अतीत्य त्रीन् देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैर् विमुक्तो ऽमृतम् अश्नुते ॥

14.21

कैर् लिङ्गैस् त्रिगुणान् एतान् अतीतो भवति प्रभो ।
किम् आचारः कथं चैतांस् त्रीन् गुणान् अतिवर्तते ॥

14.22

प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव ।
न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥

14.23

उदासीनवद् आसीनो गुणैर् यो न विचाल्यते ।
गुणा वर्तन्त इत्य् एव यो ऽवतिष्ठति नेङ्गते ॥

14.24

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।
तुल्यप्रियाप्रियो धीरस् तुल्यनिन्दात्मसंस्तुतिः ॥

14.25

मानावमानयोस् तुल्यस् तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥

14.26

मां च यो ऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥

14.27

ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥

मूल पाठ: Bhagavadgītābhāṣya · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc