भगवद्गीताभाष्य · अध्याय 15
ऊर्ध्वमूलम् अधश्शाखम् अश्वत्थं प्राहुर् अव्ययम् ।
छन्दांसि यस्य पर्णानि यस् तं वेद स वेदवित् ॥
अधश् चोर्ध्वं च प्रसृतास् तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।
अधश् च मूलान्य् अनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ॥
न रूपम् अस्येह तथोपलभ्यते नान्तो न चादिर् न च संप्रतिष्ठा ।
अश्वत्थम् एनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन छित्वा ॥
ततः पदं तत् परिमार्गितव्यम् यस्मिन् गता न निवर्तन्ति भूयः ।
तम् एव चाद्यं पुरुषं प्रपद्येद् यतः प्रवृत्तिः प्रसृता पुराणी ॥
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर् विमुक्तास् सुखदुःखसंज्ञैर् गच्छन्त्य् अमूढाः पदम् अव्ययं तत् ॥
न तद् भासयते सूर्यो न शशाङ्को न पावकः ।
यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ॥
ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थितानि कर्षति ॥
शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च ।
अधिष्ठाय मनश् चायं विषयान् उपसेवते ॥
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥
यतन्तो योगिनश् चैनं पश्यन्त्य् आत्मन्य् अवस्थितम् ।
यतन्तो ऽप्य् अकृतात्मानो नैनं पश्यन्त्य् अचेतसः ॥
यद् आदित्यगतं तेजो जगद् भासयते ऽखिलम् ।
यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ॥
गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा ॥
पुष्णामि चौषधीः सर्वास् सोमो भूत्वा रसात्मकः ॥
अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः ।
प्राणापानसमायुक्तः पचाम्य् अन्नं चतुर्विधम् ॥
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिज्ञानम् अपोहनं च ।
वेदैश् च सर्वैर् अहम् एव वेद्यो वेदान्तकृद् वेदविद् एव चाहम् ॥
द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च ।
क्षरस् सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥
उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः ।
यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥
यस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि चोत्तमः ।
अतो ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥
यो माम् एवम् असंमूढो जानाति पुरुषोत्तमम् ।
स सर्वविद् भजति मां सर्वभावेन भारत ॥
इति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ ।
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश् च भारत ॥
मूल पाठ: Bhagavadgītābhāṣya · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0