भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीताभाष्य · अध्याय 13

13.1

इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते ।
एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥

13.2

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ॥

13.3

तत् क्षेत्रं यच् च यादृक् च यद्विकारि यतश् च यत् ।
स च यो यत्प्रभावश् च तत् समासेन मे शृणु ॥

13.4

ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् ।
ब्रह्मसूत्रपदैश् चैव हेतुमद्भिर् विनिश्चितैः ॥

13.5

महाभूतान्य् अहङ्कारो बुद्धिर् अव्यक्तम् एव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥

13.6

इच्छा द्वेषः सुखं दुःखं संघातश् चेतनाधृतिः ।
एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् ॥

13.7

अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् ।
आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः ॥

13.8

इन्द्रियार्थेषु वैराग्यम् अनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥

13.9

असक्तिर् अनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु ॥

13.10

मयि चानन्ययोगेन भक्तिर् अव्यभिचारिणी ।
विविक्तदेशसेवित्वम् अरतिर् जनसंसदि ॥

13.11

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थचिन्तनम् ।
एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा ॥

13.12

ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते ।
अनादि मत्परं ब्रह्म न सत् तन् नासद् उच्यते ॥

13.13

सर्वतःपाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ।
सर्वतश्श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥

13.14

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच् चैव निर्गुणं गुणभोक्तृ च ॥

13.15

बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च ।
सूक्ष्मत्वात् तद् अविज्ञेयं दूरस्थं चान्तिके च तत् ॥

13.16

अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् ।
भूतभर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥

13.17

ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥

13.18

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद् विज्ञाय मद्भावायोपपद्यते ॥

13.19

प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि ।
विकारांश् च गुणांश् चैव विद्धि प्रकृतिसंभवान् ॥

13.20

कार्यकारणकर्तृत्वे हेतुः प्रकृतिर् उच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुर् उच्यते ॥

13.21ab

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।

13.21cd

कारणं गुणसङ्गो ऽस्य सदसद्योनिजन्मसु ॥

13.22

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः ॥

13.23

य एनं वेत्ति पुरुषं प्रकृतिं च गुणैस् सह ।
सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते ॥

13.24

ध्यानेनात्मनि पश्यन्ति केचिद् आत्मानम् आत्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥

13.25

अन्ये त्व् एवम् अजानन्तः श्रुत्वान्येभ्यश् च उपासते ।
ते ऽपि चातितरन्त्य् एव मृत्युं श्रुतिपरायणाः ॥

13.26

यावत् संजायते किञ्चित् सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात् तद् विद्धि भरतर्षभ ॥

13.27

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति ॥

13.28

समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् ।
न हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम् ॥

13.29

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानम् अकर्तारं स पश्यति ॥

13.30

यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥

13.31

अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः ।
शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते ॥

13.32

यथा सर्वगतं सौक्ष्म्याद् आकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥

13.33

यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥

13.34

क्षेत्रक्षेत्रज्ञयोर् एवम् अन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर् यान्ति ते परम् ॥

मूल पाठ: Bhagavadgītābhāṣya · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc