भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीताभाष्य · अध्याय 12

12.1

एवं सततयुक्ता ये भक्तास् त्वां पर्युपासते ।
ये चाप्य् अक्षरम् अव्यक्तं तेषां के योगवित्तमाः ॥

12.2

मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास् ते मे युक्ततमाः मताः ॥

12.3

ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते ।
सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥

12.4

सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति माम् एव सर्वभूतहिते रताः ॥

12.5

क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥

12.6

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥

12.7

तेषाम् अहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि न चिरात् पार्थ मय्य् आवेशितचेतसाम् ॥

12.8

मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः ॥

12.9

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो माम् इच्छाप्तुं धनञ्जय ॥

12.10

अभ्यासे ऽप्य् असमर्थो ऽसि मत्कर्मपरमो भव ।
मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥

12.11

अथैतद् अप्य् अशक्तो ऽसि कर्तुं मद्योगम् आश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥

12.12

श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते ।
ध्यानात् कर्मफलत्यागः त्यागाच् छान्तिर् अनन्तरम् ॥

12.13

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥

12.14

सन्तुष्टस् सततं योगी यतात्मा दृढनिश्चयः ।
मय्य् अर्पितमनोबुद्धिर् यो मद्भक्तः स मे प्रियः ॥

12.15

यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर् मुक्तो यः स च मे प्रियः ॥

12.16

अनपेक्षः शुचिर् दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥

12.17

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥

12.18

समश् शत्रौ च मित्रे च तथा मानावमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥

12.19

तुल्यनिन्दास्तुतिर् मौनी संतुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर् भक्तिमान् मे प्रियो नरः ॥

12.20

ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास् ते ऽतीव मे प्रियाः ॥

मूल पाठ: Bhagavadgītābhāṣya · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc