भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीताभाष्य · अध्याय 11

11.1

मदनुग्रहाय परमं गुह्यम् अध्यात्मसंज्ञितम् ।
यत् त्वयोक्तं वचस् तेन मोहो ऽयं विगतो मम ॥

11.2

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यम् अपि चाव्ययम् ॥

11.3

एवम् एतद् यथात्थ त्वम् आत्मानं परमेश्वर ।
द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ॥

11.4

मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानम् अव्ययम् ॥

11.5

पश्य मे पार्थ रूपाणि शतशो ऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥

11.6

पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा ।
बहून्य् अदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥

11.7

इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसि ॥

11.8

न तु मां शक्ष्यसे द्रष्टुम् अनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥

11.9

एवम् उक्त्वा ततो राजन् महायोगेश्वरो हरिः ।
दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम् ॥

11.10

अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥

11.11

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ॥

11.12

दिवि सूर्यसहस्रस्य भवेद् युगपद् उत्थिता ।
यदि भाः, सदृशी सा स्याद् भासस् तस्य महात्मनः ॥

11.13

तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा ।
अपश्यद् देवदेवस्य शरीरे पाण्डवस् तदा ॥

11.14

ततस् स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिर् अभाषत ॥

11.15

पश्यामि देवांस् तव देव देहे सर्वांस् तथा भूतविशेषसङ्गान् ।
ब्रह्माणम् ईशं कमलासनस्थम् ऋषींश् च सर्वान् उरगांश् च दीप्तान् ॥

11.16

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतो ऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस् तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥

11.17

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिम् अन्तम् ।
पश्यामि त्वा दुर्निरीक्षं समन्ताद् दीप्तानलार्कद्युतिम् अप्रमेयम् ॥

11.18

त्वम् अक्षरं परमं वेदितव्यं त्वम् अस्य विश्वस्य परं निधानम् ।
त्वम् अव्ययः शाश्वतधर्मगोप्ता सनातनस् त्वं पुरुषो मतो मे ॥

11.19

अनादिमध्यान्तम् अनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वा दीप्तहुताशवक्त्रं स्वतेजसा विश्वम् इदं तपन्तम् ॥

11.20

द्यावापृथिव्योर् इदम् अन्तरं हि व्याप्तं त्वयैकेन दिशश् च सर्वाः ।
दृष्ट्वाद्भुतं रूपम् उग्रं तद् एवं लोकत्रयं प्रव्यथितं महात्मन् ॥

11.21

अमी हि त्वा सुरसङ्घा विशन्ति केचिद् भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्य् उक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥

11.22

रुद्रादित्या वसवो ये च साध्या विश्वे ऽश्विनौ मरुतश् चोष्मपाश् च ।
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्ष्यन्ते त्वां विस्मिताश् चैव सर्वे ॥

11.23

रूपं महत् ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास् तथाहम् ॥

11.24

नभस्स्पृशं दीप्तम् अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।
दृस्ट्वा हि त्वा प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥

11.25

दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥

11.26

अमी च त्वा धृतराष्ट्रस्य पुत्राः सर्वैः सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस् तथासौ सहास्मदीयैर् अपि योधमुख्यैः ॥

11.27

वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।
केचिद् विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैर् उत्तमाङ्गैः ॥

11.28

यथा नदीनां बहवो ऽम्बुवेगाः समुद्रम् एवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्य् अभिविज्वलन्ति ॥

11.29

यथा प्रदीप्तज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकास् तवापि वक्त्राणि समृद्धवेगाः ॥

11.30

लेलिह्यसे ग्रसमानः समन्ताल् लोकान् समग्रान् वदनैर् ज्वलद्भिः ।
तेजोभिर् आपूर्य जगत् समग्रं भासस् तवोग्राः प्रतपन्ति विष्णो ॥

11.31

आख्याहि मे को भवान् उग्ररूपो नमो ऽस्तु ते देववर प्रसीद ।
विज्ञातुम् इच्छामि भवन्तम् आद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥

11.32

कालो ऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुम् इह प्रवृत्तः ।
ऋते ऽपि त्वा न भविष्यन्ति सर्वे ये ऽवस्थिताः प्रत्यनीकेषु योधाः ॥

11.33

तस्मात् त्वम् उत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वम् एव निमित्तमात्रं भव सव्यसाचिन् ॥

11.34

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यान् अपि योधमुख्यान् ।
मया हतांस् त्वं जहि मा व्यथिष्ठाः युध्यस्व जेतासि रणे सपत्नान् ॥

11.35

एतच् छ्रुत्वा वचनं केशवस्य कृताञ्जलिर् वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥

11.36

स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्य् अनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥

11.37ab

कस्माच् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणो ऽप्य् आदिकर्त्रे ।

11.37cd

अनन्त देवेश जगन्निवास त्वम् अक्षरं सद् असत् तत् परं यत् ॥

11.37ab

त्वम् आदिदेवः पुरुषः पुराणस् त्वम् अस्य विश्वस्य परं निधानम् ।

11.38cd

वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वम् अनन्तरूप ॥

11.39ab

वायुर् यमो ऽग्निर् वरुणश् शशाङ्कः प्रजापतिस् त्वं प्रपितामहश् च ।

11.39cd

नमो नमस् ते ऽस्तु सहस्रकृत्वः पुनश् च भूयो ऽपि नमो नमस् ते ॥

11.40

नमः पुरस्ताद् अथ पृष्ठतस् ते नमो ऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस् त्वं सर्वं समाप्नोषि ततो ऽसि सर्वः ॥

11.41

सखेति मत्वा प्रसभं यद् उक्तं हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेमं मया प्रमादात् प्रणयेन वापि ॥

11.42

यश् चापहासार्थम् असत्कृतो ऽसि विहारशय्यासनभोजनेषु ।
एको ऽथ वाप्य् अच्युत तत्समक्षं तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥

11.43

पितासि लोकस्य चराचरस्य त्वम् अस्य पूज्यश् च गुरु गरीयान् ।
न त्वत्समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यो लोकत्रये ऽप्य् अप्रतिमप्रभाव ॥

11.44

तस्मात् प्रणम्य प्रणिधाय कार्यं प्रसादये त्वाम् अहम् ईशम् ईड्यम् ।
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥

11.45

अदृष्टपूर्वं हृषितो ऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे ।
तद् एव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥

11.46

किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुम् अहं तथैव ।
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥

11.47

मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितम् आत्मयोगात् ।
तेजोमयं विश्वम् अनन्तम् आद्यं यन् मे त्वदन्येन न दृष्टपूर्वम् ॥

11.48

न वेदयज्ञाध्ययनैर् न दानैर् न च क्रियाभिर् न तपोभिर् उग्रैः ।
एवंरूपश् शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥

11.49

मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरम् ईदृङ् ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस् त्वं तद् एव मे रूपम् इदं प्रपश्य ॥

11.50

इत्य् अर्जुनं वासुदेवस् तथोक्त्वा स्वकं रूपं दर्शयाम् आस भूयः ।
आश्वासयाम् आस च भीतम् एनं भूत्वा पुनस् सौम्यवपुर् महात्मा ॥

11.51

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥

11.52

सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम ।
देवा अप्य् अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥

11.53

नाहं वेदैर् न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवान् असि माम् यथा ॥

11.54

भक्त्या त्व् अनन्यया शक्य अहम् एवंविधो ऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥

11.55

मत्कर्मकृन् मत्परमो मद्भक्तस् सङ्गवर्जितः ।
निर्वैरस् सर्वभूतेषु यः स माम् एति पाण्डव ॥

मूल पाठ: Bhagavadgītābhāṣya · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc