भगवद्गीताभाष्य · अध्याय 10
भूय एव महाबाहो शृणु मे परमं वचः ।
यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥
न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहम् आदिर् हि देवानां महर्षीणां च सर्वशः ॥
यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् ।
असंमूढस् स मर्त्येषु सर्वपापैः प्रमुच्यते ॥
बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवो ऽभावो भयं चाभयम् एव च ॥
अहिंसा समता तुष्ठिस् तपो दानं यशो ऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥
महर्षयस् सप्त पूर्वे चत्वारो मनवस् तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सो ऽविकम्पेन योगेन युज्यते नात्र संशयः ॥
अहं, सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन माम् उपयान्ति ते ॥
तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः ।
नश्याम्य् आत्मभावस्थो ज्ञानदीपेन भास्वता ॥
आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥
सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव ।
न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः ॥
स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥
वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्मविभूतयः ।
याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि ॥
कथं विद्याम् अहं योगी त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्यो ऽसि भगवन् मया ॥
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर् हि शृण्वतो नास्ति मे ऽमृतम् ॥
हन्त ते कथयिष्यामि विभूतीर् आत्मनश् शुभाः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे ॥
अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः ।
अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च ॥
आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् ।
मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी ॥
वेदानां सामवेदो ऽस्मि देवानाम् अस्मि वासवः ।
इन्द्रियाणां मनश् चास्मि भूतानाम् अस्मि चेतना ॥
रुद्राणां शङ्करश् चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश् चास्मि मेरुः शिखरिणाम् अहम् ॥
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ॥
महर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् ।
यज्ञानां जपयज्ञो ऽस्मि स्थावराणां हिमालयः ॥
अश्वत्थस् सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥
उच्चैश्श्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥
आयुधानाम् अहं वज्रं धेनूनाम् अस्मि कामधुक् ।
प्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥
अनन्तश् चास्मि नागानां वरुणो यादसाम् अहम् ।
पित्qणाम् अर्यमा चास्मि यमः संयमताम् अहम् ॥
प्रह्लादश् चास्मि दैत्यानां कालः कलयताम् अहम् ।
मृगाणां च मृगेन्द्रो ऽहं वैनतेयश् च पक्षिणाम् ॥
पवनः पवताम् अस्मि रामः शस्त्रभृताम् अहम् ।
झषाणां मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी ॥
सर्गाणाम् आदिर् अन्तश् च मध्यं चैवाहम् अर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदताम् अहम् ॥
अक्षराणाम् अकारो ऽस्मि द्वन्द्वस् सामासिकस्य च ।
अहम् एव अक्षयः कालः धाताहं विश्वतोमुखः ॥
मृत्युस् सर्वहरश् चाहम् उद्भवश् च भविष्यताम् ।
कीर्तिश् श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा ॥
बृहत्साम तथा साम्नां गायत्री छन्दसाम् अहम् ।
मासानां मार्गशीर्षो ऽहम् ऋतूनां कुसुमाकरः ॥
द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् ।
जयो ऽस्मि व्यवसायो ऽस्मि सत्त्वं सत्त्ववताम् अहम् ॥
वृष्णीनां वासुदेवो ऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः ॥
दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ॥
यच् चापि सर्वभूतानां बीजं तद् अहम् अर्जुन ।
न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् ॥
नान्तो ऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया ॥
यद् यद् विभूतिमत् सत्त्वं श्रीमद् उर्जितम् एव वा ।
तत् तद् एवावगच्छ त्वं मम तेजोऽंशसंभवम् ॥
अथ वा बहुनैतेन किं ज्ञानेन तवार्जुन ।
विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ॥
मूल पाठ: Bhagavadgītābhāṣya · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0