भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 58

58.1

मधुसूदनः -
यद्-भक्तिं न विना मुक्तिर् यः सेव्यः सर्व-योगिनाम् ।
तं वन्दे परमानन्द-घनं श्री-नन्द-नन्दनम् ॥
एवं कर्म-संन्यासात्मक-साधन-प्रधानेन प्रथम-षट्केन ज्ञेयं त्वं-पद-लक्ष्यं स-योगं व्याख्यायाधुना ध्येय-ब्रह्म-प्रतिपादन-प्रधानेन मध्यमेन षट्केन तत्-पदार्थो व्याख्यातव्यः । तत्रापि --
योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता 6.47]
इति प्राग्-उक्तस्य भगवद्-भजनस्य व्याख्यानाय सप्तमो ऽध्याय आरभ्यते । तत्र कीदृशं भगवतो रूपं भजनीयं कथं वा तद्-गतो ऽन्तरात्मा स्याद् इत्य् एतद्-द्वयं प्रष्टव्यम् अर्जुनेनापृष्टम् अपि परम-कारुणिकतया स्वयम् एव विवक्षुः श्री-भगवान् उवाच मयीति ।
मयि परमेश्वरे सकल-जगद्-आयतनत्वादिविविध-विभूति-भागिनि आसक्तं विषयान्तर-परिहारेण सर्वदा निविष्टं मनो यस्य तव स त्वम् । अतएव मद्-आश्रयो मद्-एक-शरणः । राजाश्रयो भार्याद्य्-आसक्त-मनाश् च राज-भृत्यः प्रसिद्धो मुमुक्षुस् तु मद्-आश्रयो मद्-आसक्त-मनाश् च । त्वं त्वद्-विधो वा योगं युञ्जन् मनः-समाधानं षष्ठोक्त-प्रकारेण कुर्वन् । असंशयं यथा भवत्य् एवं समग्रं सर्व-विभूति-बल-शक्त्यैश्वर्यादि-सम्पन्नं मां यथा येन प्रकारेण ज्ञास्यसि तच् छृणूच्यमानं मया

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc