भगवद्गीता · अध्याय 57
श्रीधरः -
विज्ञेयम् आत्मनस् तत्त्वं संयोगं समुदीरितम् ।
भजनीयम् अथेदानीम् ऐश्वरं रूपम् ईर्यते ॥
पूर्वाध्यायान्ते मद्-गतेनान्तरात्मना यो मां भजते स मे युक्ततमो मतः इत्य् उक्तम् । अत्र कीदृशस् त्वं यस्य भक्तिः कर्तव्येत्य् अपेक्षायां स्व-स्वरूपं निरुपयिष्यन् श्री-भगवान् उवाच मयीति । मयि परमेश्वर आसक्तम् अभिनिविष्टं मनो यस्य सः । मद्-आश्रयो ऽहम् एवाश्रयो यस्य । अनन्य-शरणः सन् । योगं युञ्जन्न् अभ्यसन् असंशयं यथा भवत्य् एवम् । मां समग्रं विभूति-बलैश्वर्यादि-सहितं यथा ज्ञास्यसि तद् इदं मया वक्ष्यमाणं शृणु
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0