भगवद्गीता · अध्याय 59
विश्वनाथः -
कदा सद्-आनन्द-भुवो महाप्रभोः
कृपामृताब्धेश् चरणौ श्रयामहे ।
यथा तथा प्रोज्झित-मुक्ति-तत्-पथा
भक्त्य्-अध्वना प्रेम-सुधाम् अयामहे ॥
सप्तमे भजनीयस्य श्री-कृष्णैश्वर्यम् उच्यते ।
न भजन्ते भजन्ते ये ते चाप्य् उक्ताश् चतुर्विधाः ॥
प्रथमेनाध्याय-षट्केनान्तः-करण-शुद्ध्य्-अर्थ-कनिष्काम् अकर्म-सापेक्षौ मोक्ष-फल-साधकौ ज्ञान-योगाव् उक्तौ । इदानीम् अनेन द्वितीयाध्याय-षट्केन कर्म-ज्ञानादि-विमिश्र-श्रवणान् निष्कामत्व-सकामत्वाभ्यां च सालोक्यादि-साधकस् तथा सर्व-मुख्यः कर्म-ज्ञानादि-निरपेक्ष एव प्रेमवत् पार्षदत्व-लक्षण-मुक्ति-फल-साधकस् तथा यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् इत्य् आदौ, सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा, स्वर्गापवर्गं मद्-धाम [भ्प् 1.20.32-33] इत्य् आद्य्-उक्तेर् विनापि साधनानन्तरं स्वर्गापवर्गादि-निखिल-साधकश् च परमः स्वतन्त्रः सर्व-सुकरो ऽपि सर्व-दुष्करः
श्रीमद्-भक्ति-योग उच्यते ।
ननु तम् एव विदित्वा अतिमृत्युम् एति [श्वेतु 6.15] इति श्रुतेः । ज्ञानं विना केवलया भक्त्यैव कथं मोक्षः ब्रूषे ? मैवं, त्वम् एव तत् पदार्थं परमात्मानम् एव विदित्वा साक्षाद् अनुभूय, न तु त्वं-पदार्थं आत्मानं नापि प्रकृतिं नापि वस्तु-मात्रं विदित्वा मृत्युम् अत्येति इत्य् अस्याः श्रुतेर् अर्थः । तत्र सित-शर्करा-रस-ग्रहणे यथा रसनैव कारणं न तु चक्षुः-श्रोत्रादिकं तथैव गुणातीतस्य ब्रह्मणे ग्रहणं सम्भवेत्, न तु देहाद्य्-अतिरिक्तात्म-ज्ञानेन सात्त्विकेन । भक्त्याहम् एकया ग्राह्यः [भ्प् 11.14.11] इति भगवद्-उक्तेर् इति । भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः
[गीता 18.55] इत्य् अत्र स-विशेषं प्रतिपादयिष्यामः । ज्ञान-योगयोर् मुक्ति-साधनत्व-प्रसिद्धिस् तु तत्रस्थ-गुणी-भूत-भक्ति-प्रभावाद् एव । तया विना तयोर् अकिञ्चित्करत्वस्य बहुशः श्रवणात् ।
किं च, अस्यां श्रुतौ विदित्वा इत्य् अनन्तरम् एव-कारस्याप्रयोगाद् एव । योग-व्यवच्छेदाभावे ज्ञापिते सति, तस्माद् एव परमात्मनो विदितात् क्वचिद् अविदिताद् अपि मोक्ष इत्य् अर्थो लभ्यते । ततश् च भक्त्य्-उत्थेन निर्गुणेन परमात्म-ज्ञानेन मोक्षः । क्वचित् तु भक्त्य्-उत्थं तज्-ज्ञानं विनापि केवलेन भक्ति-मात्रेण मोक्ष इत्य् अर्थः पर्यवस्यति । यथा मत्स्यण्डिका-पिण्डाद् रसना-दोषेणालब्ध-स्वादाद् अपि भुक्तात् तद्-एक-नाश्यो व्याधिर् नश्यत्य् एवात्र न सन्देहः । मत्स्यण्डिकानि ते खण्ड-विकारा शर्करासिते इत्य् अमरः । श्रीमद्-उद्धवेनोक्तम् -
नन्व् ईश्वरो ऽनुभजतो ऽविदुषो ऽपि साक्षाच्
छ्रेयस् तनोत्य् अगद-राज इवोपयुक्तः [भ्प् 10.47.56] इति ।
एकादशे ऽप्य् उक्तं - यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् इत्य् आदौ सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा [भ्प् 11.20.31-32] इति । अतएव यन्-नाम-सकृच्-छ्रवणात् पुक्कसो ऽपि विमुच्यते संसारात् इत्य् आदौ बहुशो वाक्यैर् भक्त्यैव मोक्षः प्रतिपाद्यत इति ।
अथ प्रकृतम् अनुसरामः ।
योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता 6.47]
इति त्वद्-वाक्येन त्वन्-मनस्कत्वे सति त्वज्-जन-विषयक-श्रद्धावत्त्वम् इति त्वया स्व-भक्त-विशेष-लक्षणम् एव कृतम् इत्य् अवगम्यते । किन्तु स च कीदृशो भक्तस् तदीय-ज्ञान-विज्ञानयोर् अधिकारी भवतीत्य् अपेक्षायाम् आह मय्य् आसक्तेति द्वाभ्याम् । यद्यपि -
भक्तिः परेशानुभवो विरक्तिर्
अन्यत्र चैष त्रिक एक-कालः ।
प्रपद्यमानस्य यथाश्नतः स्युस्
तुष्टिः पुष्टिः क्षुद्-अपायो ऽनु-घासम् ॥ [भ्प् 11.2.42]
इत्य् उक्तेर् भजन्-प्रक्रमत एव मद्-अनुभव-क्रमो ऽपि भवति, तद् अप्य् एक-ग्रास-मात्र-भोजिनस् तथा तुष्टि-पुष्टी न स्पष्टे भवतः, किन्तु बहुतर-ग्रास-भोजिन एव । तथैव मयि श्यामसुन्दरे पीताम्बरे आसक्तम् आसक्ति-भूमिकारूढं मनो यस्य तथाभूत एव त्वं मां ज्ञास्यसि । यथा स्पष्टम् अनुभविष्यसि, तत् शृणु कीदृशं योगं मया सह संयोगं युञ्जन् शनैः शनैः प्राप्नुवन् मद्-आश्रयः । माम् एव, न तु ज्ञान-कर्मादिकम् आश्रयमाणो ऽनन्य-भक्त इत्य् अर्थः ।
अत्रासंशयं समग्रम् इति पदाभ्यां मदीय-निर्विशेष-ब्रह्म-स्वरूप-ज्ञानं
क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥ [गीता 12.5]
इत्य् अग्रिमोक्तेः स-संशयम् एव । तथा ज्ञानिनाम् उपास्यं यद् ब्रह्म परम-महतो मम महिम-स्वरूपम् एव । यद् उक्तं मयैव सत्यव्रतं प्रति मत्स्य-रूपेण -
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [भ्प् 8.24.38] इति ।
अत्रापि ब्रह्मणो हि प्रतिष्ठाहम् [गीता 14.27] इति । अतो मज्-ज्ञानम् असमग्रम् इति द्योतितम्
बलदेवः -
सप्तमे भजनीयस्य स्वस्यैश्वर्यं प्रकीर्त्यते ।
चातुर्विध्यं च भजतां तथैवाभजताम् अपि ॥
आद्येन षट्केनोपासकस्य जीवस्य स्वरूपं तत्-प्राप्ति-साधनं च प्राधान्येनोक्तम् । मध्येन तूपास्यस्य स्वस्य तत् तच् च तथोच्यते । तत्र षष्ठान्त-निर्दिष्टं तव भजनीयं रूपं कीदृशं, कथं वा भजतो ऽन्तरात्मा तद्-गतः स्याद् इत्य् एतत् पार्थेनापृष्टम् अपि कृपालुत्वेन स्वयम् एव विवक्षुर् भगवान् उवाच मयीति । व्याख्यात-लक्षणे स्वोपास्ये मय्य् आसक्तम् अतिमात्र-निरतं मनो यस्य स त्वम् अन्यो वा तादृशो मद्-आश्रयो मद्-दास्य-सख्य्-आद्य्-एकतमेन भावेन मां शरणं गतो योगं मच्-छरणादि-लक्षणं युञ्जन् कर्तुं प्रवृत्तः । असंशयं
यथा स्यात् तथा । कृष्ण एव परं तत्त्वम् अतो ऽन्यद् वेति सन्देह-शून्यो मत्-पारम्य-निश्चयवान् इत्य् अर्थः । समग्रं साधिष्ठानं सविभूतिं सपरिकरं च मां सर्वेश्वरं येन ज्ञानेन ज्ञास्यसि तन् मयोच्यमानम् अवहित-मनाः शृणु । हे पार्थ ! न च समग्रम् इति कार्त्स्न्येन स ज्ञानम् आदिशतीति वाच्यम् अनन्तस्य तस्य तथाज्ञानासम्भवात् । स्मृतिश् च कार्त्स्न्येन नाजो ऽप्य् अभिधातुम् ईशः इति ।
भ्ग् 7.2
ज्ञानं ते ऽहं स-विज्ञानम् इदं वक्ष्याम्य् अशेषतः ।
यज् ज्ञात्वा नेह भूयो ऽन्यज् ज्ञातव्यम् अवशिष्यते
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0