भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 53

53.2

मधुसूदनः : असंन्यासे ऽपि संन्यास-शब्द-प्रयोगे निमित्त-भूतं गुण-योगं दर्शयितुम् आह यं संन्यासम् इति । यं सर्व-कर्म-तत्-फल-परित्यागं संन्यासम् इति प्राहुः श्रुतयः न्यास एवात्य् अरेचयत्, ब्राह्मणाः पुअत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षा-चर्यं चरन्ति इत्य् आद्याः । योगं फल-तृष्णा-कर्तृत्वाभिमानयोः परित्यागेन विहित-कर्मानुष्ठानं तं संन्यासं विद्धि हे पाण्डव । अब्रह्म-दत्तं ब्रह्म-दत्तम् इत्य् आह तं वयं मन्यामहे
ब्रह्म-दत्त-सदृशो ऽयम् इति न्यायात् पर-शब्दः परत्र प्रयुज्यमानः सादृश्यं बोधयति गौण्या वृत्त्या तद्-भावारोपेण वा । प्रकृते तु किं सादृश्यम् ? इति तद् आह नहीति । हि यस्माद् असंन्यस्त-संकल्पो ऽत्यक्त-फल-सङ्कल्पः कश्चन कश्चिद् अपि योगी न भवति । अपि तु सर्वो योगी त्यक्त-फल-सङ्कल्प एव भवतीति फल-त्याग-साम्यात् तृष्णा-रूप-वित्त-वृत्ति-निरोध-साम्याच् च गौण्या वृत्त्या कर्म्य् एव संन्यासी च योगी च भवतीत्य् अर्थः । तथा हि - योगश् चित्त-वृत्ति-निरोधः [योगस् 1.2] प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतय [योगस् 1.6] इति वृत्तयः पञ्च-विधाः । तत्र प्रत्यक्षानुमान-शास्त्रोपमानार्थापत्त्य्-अभावाख्यानि प्रमाणानि षड् इति वैदिकाः । प्रत्यक्षानुमानागमाः
प्रमाणानि [योगस् 1.7] त्रीणीति योगाः । अन्तर्भाव-बहिर्-भावाभ्यां सङ्कोच-विकासौ द्रष्टव्यौ । अतएव तार्किकादीनां मत-भेदाः । विपर्ययो मिथ्या-ज्ञानम् तस्य पञ्च भेदा अविद्यास्मिता-राग-द्वेषाभिनिवेशः [योगस् 2.3] त एव च क्लेशाः । शब्द-ज्ञानानुपाती वस्तु-शून्यो विकल्पः [योगस् 1.9] प्रमा-भ्रम-विलक्षणो ऽसद्-अर्थ-व्यवहारः शश-विषाणम् असत्-पुरुषस्य चतन्यम् इत्य् आदिः । अभाव-प्रत्ययालम्बना वृत्तिर् निद्रा [योगस् 1.10] न तु ज्ञानाद्य्-अभाव-मात्रम् इत्य् अर्थः । अनुभूत-विषयासंप्रमोषः स्मृतिः [योगस् 1.11] पूर्वानुभव-संस्कारजं ज्ञानम् इत्य् अर्थः । सर्व-वृत्ति-जन्यत्वाद्
अन्ते कथनम् । लज्जादि-वृत्तीनाम् अपि आञ्चस्व् एवान्तर्भावो द्रष्टव्यः । एतादृशां सर्वासां चित्त-वृत्तीनां नोरोधो योग इति च समाधिर् इति च कथ्यते । फल-सङ्कल्पस् तु रागाख्यस् तृतीयो विपर्यय-भेदस् तन्-निरोध-मात्रम् अपि गौण्या वृत्त्या योग इति संन्यास इति चोच्यत इति न विरोधः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc