ग्रंथ पाठ
भगवद्गीता · अध्याय 54
54.2
विश्वनाथः : कर्म-फल-त्याग एव संन्यास-शब्दार्थः । वस्तुतस् तथा विषयेभ्यश् चित्त-नैश्चल्यम् एव योग-शब्दार्थः । तस्मात् संन्यास-योग-शब्दयोर् ऐक्यार्थम् एवागतम् इत्य् आह यम् इति । असंन्यस्तो न संन्यस्तस् त्यक्तः सङ्कल्पः फलाकाङ्क्षा विषय-भोग-स्पृहा येन सः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0