भगवद्गीता · अध्याय 52
श्रीधरः : कुत इत्य् अपेक्षायां कर्म-योगस्यैव संन्यासत्वं प्रतिपादयन्न् आह यम् इति । संन्यासम् इति प्राहुः प्रकर्षेण श्रेष्ठत्वेनाहुः । न्यास एवात्य् अरेचयत् इत्य् आदि श्रुतेः । केवलात् फल-संन्यसनाद् धेतोर् योगम् एव तं जानीहि । कुत इत्य् अपेक्षायाम् इति शब्दोक्तो हेतुर् योगे ऽप्य् अस्तीत्य् आह न हीति । न संन्यस्तः फल-संकल्पो येन स कर्म-निष्ठो ज्ञान-निष्ठो वा कश्चिद् अपि न हि योगी भवति । अतः फल-सङ्कल्प-त्याग-साम्यात् संन्यासी च फल-सङ्कल्प-त्यागाद् एव चित्त-विक्षेपाभावाद् योगी च भवत्य् एव स इत्य् अर्थः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0