भगवद्गीता · अध्याय 50
विश्वनाथः :
षष्ठेषु योगिनो योग-प्रकार-विजितात्मनः ।
मनसश् चञ्चलस्यापि नैश्चल्योपाय उच्यते ॥
अष्टाङ्ग-योगाभ्यासे प्रवृत्तेनापि चित्त-शोधकं निष्काम-कर्म न त्याज्यम् इत्य् आह कर्म-फलम् आश्रितो ऽनपेक्षमाणः कार्यम् अवश्य-कर्तव्यत्वेन शास्त्र-विहितं कर्म यः करोति, स एव कर्म-फल-संन्यासात् संन्यासी, स एव विषय-भोगेषु चित्ताभावाद् योगी चोच्यते । न च निरग्निर् अग्निहोत्रादि-कर्म-मात्र-त्यागवान् एव सन्न्यास्य् उच्यते । न चाक्रियो न दैहिक-चेष्टा-शून्यो ऽर्ध-निमीलित-नेत्र एव योगी चोच्यते
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0