भगवद्गीता · अध्याय 49
मधुसूदनः :
योग-सूत्रं त्रिभिः श्लोकैः पञ्चमान्ते यद् ईरितम् ।
षष्ठस् त्व् आरभ्यते ऽध्यायस् तद्-व्याख्यानाय विस्तरात् ॥
तत्र सर्व-कर्म-त्यागेन योगं विधास्यंस् त्याज्यत्वेन हीनत्वम् आशङ्क्य कर्म-योगं स्तौति अनाश्रित इति द्वाभ्याम् । कर्मणां फलम् आश्रितो ऽनपेक्षमाणः फलाभिसंधि-रहितः सन् कार्यं कर्तव्यतया शास्त्रेण विहितं नित्यम् अग्निहोत्रादि कर्म करोति यः स कर्म्य् अपि सन् संन्यासी च योगी चेति स्तूयते ।
सन्न्यासो हि थ्यागः । चित्त-गत-विक्षेपाभावश् च योगः । तौ चास्य विद्येते फल-त्यागात् फल-तृष्णा-रूप-चित्त-विक्षेपाभावाच् च । कर्म-फल-तृष्णा-त्याग एवात्र गौण्या वृत्त्या संन्यास-योग-शब्दाभ्याम् अभिधीयते सकामानपेक्ष्य प्राशस्त्य-कथनाय । अवश्यम्भाविनौ हि निष्काम-कर्मानुष्ठातुर् मुख्यौ संन्यास-योगौ । तस्माद् अयं यद्यपि न निरग्निर् अग्नि-साध्य-श्रौत-कर्म-त्यागी न भवति, न चाक्रियो ऽग्नि-निरपेक्ष-स्मार्त-क्रिया-त्यागी च न भवति । तथापि संन्यासी योगी चेति मन्तव्यः ।
अथवा न निरग्निर् न चाक्रियः संन्यासी योगी चेति मन्तव्यः । किन्तु साग्निः सक्रियश् च निष्काम-कर्मानुष्ठायी संन्यासी योगी चेति मन्तव्य इति स्तूयते । अपशवो वा अन्ये गो-अश्वेभ्यः पशवो गो-अश्वान् इत्य् अत्रेव प्रशंसा-लक्षणया नञ्-अन्वयोपपत्तिः । अत्र चाक्रिय इत्य् अनेनैव सर्व-कर्म-संन्यासिनि लब्धे निरग्निर् इति व्यर्थं स्याद् इत्य् अग्नि-शब्देन सर्वाणि कर्माण्य् उपलक्ष्य निरग्निर् इति संन्यासी क्रिया-शब्देन चित्त-वृत्तीर् उपलक्ष्याक्रिय इति निरुद्ध-चित्त-वृत्तिर् योगी च कथ्यते । तेन न निरग्निः संन्यासी मन्तव्यो न चाक्रियो योगी मन्तव्य इति यथा-सङ्ख्यम् उभय-व्यतिरेको दर्शनीयः । एवं सति नञ्-द्वयम् अप्य् उपपन्नम्
इति द्रष्टव्यम्
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0