भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 51

51.1

बलदेवः :
षष्ठे योग-विधिः कर्म-शुद्धस्य विजितात्मनः ।
स्थैर्योपायश् च मनसो ऽस्थिरस्यापीति कीर्त्यते ॥
प्रोक्तं कर्म-योगम् अष्टाङ्ग-योग-शिरस्कम् उपदेक्ष्यन्न् आदौ तौ तद्-उपायत्वात् तं कर्म-योगम् स्तौति भगवान् अनाश्रित इति द्वाभ्याम् । कर्म-फलम् पश्व्-अन्न-पुत्र-स्वर्गादि-कामनाश्रितो ऽनिच्छन् कार्यम् अवश्य-कर्तव्यतया विहितं कर्म यः करोति, स संन्यासी ज्ञान-योग-निष्ठः, योगी चाष्टाङ्ग-योग-निष्ठः स एव । कर्म-योगेनैव तयोः सिद्धिर् इति भावः । न निरग्निर् अग्निहोत्रादि-कर्म-त्यागी यति-वेशः सन्न्यासी न चाक्रियः शरीर-कर्म-त्यागी अर्ध-मुद्रित-नेत्रो योगी । अत्र योगम् अष्टाङ्गं चिकीर्षूणां सहसा कर्म न त्याज्यम् इति मतम्

51.2

भ्ग् 6.2
यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव ।
न ह्य् असंन्यस्त-संकल्पो योगी भवति कश्चन

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc