भगवद्गीता · अध्याय 40
मधुसूदनः :
अध्यायाभ्यां कृतो द्वाभ्यां निर्णयः कर्म-बोधयोः ।
कर्म-तत्-त्यागयोर् द्वाभ्यां निर्णयः क्रियते ऽधुना ॥
तृतीये ऽध्याये ज्यायसी चेत् कर्मणस् ते इत्य् आदिनार्जुनेन पृष्टो भगवान् ज्ञान-कर्मणोर् विकल्प-समुच्चयासम्भवेनाधिकारि-भेद-व्यवस्थया लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ इत्य् आदिना निर्णयं कृतवान् । तथा चाज्ञाधिकारिकं कर्म न ज्ञानेन सह समुच्चीयते तेजस्-तिमिरयोर् इव युगपद् असम्भवात् कर्माधिकार-हेतु-भेद-बुद्ध्य्-अपनोदकत्वेन ज्ञानस्य तद्-विरोधित्वात् । नापि विकल्प्यते एकार्थत्वाभावात् । ज्ञान-कार्यस्याज्ञान-नाशस्य कर्मणा कर्तुम् अशक्यत्वात् तम् एव विदित्वापि मृत्युम् एति नान्यः पन्था विद्यते ऽनायनाय इति श्रुतेः ।
ज्ञाने जाते तु कर्म-कार्यं नापेक्ष्यत एवेत्य् उक्तं यावान् अर्थ उदपाने इत्य् अत्र । तथा च ज्ञानिनः कर्मानधिकारे निश्चिते प्रारब्ध-कर्म-वशाद् वृथा-चेष्टा-रूपेण तद्-अनुष्ठानं वा सर्व-कर्म-संन्यासो वेति निर्विवादं चतुर्थे निर्णीतम् । अज्ञेन त्व् अन्तः-करण-शुद्धि-द्वारा ज्ञानोत्पत्तये कर्माण्य् अनुष्ठेयानि तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुतेः । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते इति भगवद्-वचनाच् च । एवं सर्व-कर्माणि ज्ञानार्थानि । तथा सर्व-कर्म-संन्यासो ऽपि ज्ञानार्थः श्रूयते एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति, शान्तो
दान्त उपरतस् तितिक्षुः समाहितो भूत्वात्मन्य् एवात्मानं पश्येत्, त्यजतैव हि तज् ज्ञेयं त्युक्तुः प्रत्यक् परं पदम्, सत्यानृते सुख-दुःखे वेदान् इमं लोकम् अमुं च परित्यज्यात्मानम् अन्विच्छेत् इत्य् आदौ ।
तत्र कर्म तत्-त्यागयोर् आराद् उपकारक-संनिपत्योपकारकयोः प्रयाजावघातयोर् इव न समुच्चयः सम्भवति विरुद्धत्वेन यौगपद्याभावात् । नापि कर्म-तत्-त्यागयोर् आत्म-ज्ञान-मात्र-फलत्वेनैकार्थत्वाद् अतिरात्रयोः षोडशि-ग्रहणाग्रहणयोर् इव विकल्पः स्यात् । द्वार-भेदेनैकार्थत्वाभावात् । कर्मणो हि पाप-क्षय-रूपम् अदृष्टम् एव द्वारं, संन्यासस्य तु सर्व-विक्षेपाभावेन विचारावसर-दान-रूपं दृष्टम् एव द्वारम् । नियमापूर्वं तु दृष्ट-समवायित्वाद् अवघातादाव् इव न प्रयोजकम् । तथा चादृष्टार्थ-दृष्टार्थयोर् आराद् उपकारक-संनिपात्योपकारकयोर् एक-प्रधानार्थत्वे ऽपि विकल्पो नास्त्य् एव । प्रयाजावघातादीनाम्
अपि तत्-प्रसङ्गात् । तस्मात् क्रमेणोभयम् अप्य् अन्ष्ठेयम् । तत्रापि संन्यासानन्तरं कर्मानुष्ठानं चेत् तदा परित्यक्त-पूर्वाश्रम-स्वीकारेणारूढ-पतितत्वात् कर्मानधिकारित्वं प्राक्तन-संन्यास-वैयर्थ्यं च तस्यादृष्टार्थत्वाभावात् । प्रथम-कृत-संन्यासेनैव ज्ञानाधिकार-लाभे तद्-उत्तर-काले कर्मानुष्ठान-वैयर्थ्यं च । तस्माद् आदौ भगवद्-अर्पण-बुद्ध्या निष्काम-कर्मानुष्ठानाद् अन्तः-करण-शुद्धौ तीव्रेण वैराग्येण विविदिषायां दृढायां सर्व-कर्म-संन्यासः श्रवण-मननादि-रूप-वेदान्त-वाक्य-विचाराय कर्तव्य इति भगवतो मतम् । तथा चोक्तम् - न कर्मणाम् अनारम्भान्
नैष्कर्म्यं पुरुषो ऽश्नुते इति । वक्ष्यते च -
आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते ।
योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥ [गीता 6.3] इति ।
योगो ऽत्र तीव्र-वैराग्य-पूर्विका विविदिषा । तद् उक्तं वार्तिक-कारैः -
प्रत्यग् विविदिषासिद्ध्यै वेदानुवचनादयः ।
ब्रह्मावाप्त्यै तु तत्-त्याग ईप्सन्तीति श्रुतेर् बलात् ॥ इति ।
स्मृतिश् च -
कषाय-पङ्क्तिः कर्माणि ज्ञानं तु परमा गतिः ।
कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ॥ इति ।
मोक्ष-धर्मे -
कषायं पाचयित्वा च श्रेणी-स्थानेषु च त्रिषु ।
प्रव्रजेच् च परं स्थानं पारिव्राज्यम् अनुत्तमम् ॥
भाविनः करणैश् चायं बहु-संसार-योनिषु ।
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ॥
तम् आसाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ।
त्रिष्व् आश्रमेषु को न्व् अर्थो भवेत् परमाभीप्सितः ॥ इति ।
मोक्षं वैराग्यम् । एतेन क्रमाक्रम-संन्यासो द्वाव् अपि दर्शिनौ । तथा च श्रुतिः - ब्रह्मचर्यं समाप्य गृही भवेद् गृहाद् वनी भूत्वा प्रव्रजेद् यदि वेतरथा ब्रह्मचर्याद् एव प्रव्रजेद् गृहाद् वा वनाद् वा यद् अहर् एव विरजेत् तद् अहर् एव प्रव्रजेत् इति ।
तस्माद् अज्ञस्याविरक्तता-दशायां कर्मानुष्ठानम् एव । तस्यैव विरक्तता-दशायां संन्यासः श्रवणाद्य्-अवसर-दानेन ज्ञानार्थं इति दशा-भेदेनाज्ञम् अधिकृत्यैव कर्म-तत्-त्यागौ व्याख्यातुं पञ्चम-षष्ठाव् अध्यायाव् आरभ्येते । विद्वत्-संन्यासस् तु ज्ञान-बलाद् अर्थ-सिद्ध एवेति सन्देहाभावान् न विचार्यते ।
तत्रैकम् एव जिज्ञासुम् अज्ञं प्रति ज्ञानार्थत्वेन कर्म-तत्-त्यागयोर् विग्धानात् तयोश् च विरुद्धयोर् युगपद् अनुष्ठानासम्भवान् मया जिज्ञासुना किम् इदानीम् अनुष्ठेयम् इति सन्दिहानो ऽर्जुन उवाच संन्यासम् इति ।
हे कृष्ण ! सदानन्द-रूप भक्त-दुःख-कर्षणेति वा । कर्मणां यावज्-जीवादि-श्रुति-विहितानां नित्यानां नैमित्तिकानां च संन्यासं त्यागं जिज्ञासुम् अज्ञं प्रति कथयसि वेद-मुखेन पुनस् तद्-विरुद्धं योगं च कर्मानुष्ठान-रूपं शंससि । एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति, तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन इत्य् आदि-वाक्य-द्वयेन -
निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः ।
शारीरं केवलं कर्म कुर्वन्न् आप्नोति किल्बिषम् ॥ [गीता 4.21]
छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत इति गीता-वाक्य-द्वयेन वा । तत्रैकम् अज्ञं प्रति कर्म-तत्-त्यागयोर् विधानाद् युगपद् उभयानुष्ठानसम्भवाद् एतयोः कर्म-तत्-त्यागयोर् मध्ये यद् एकं श्रेयः प्रशस्यतरं मन्यसे कर्म वा तत्-त्यागं वा तन् मे ब्रूहि सुनिश्चितं तव मतम् अनुष्ठानाय
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0