भगवद्गीता · अध्याय 39
श्रीधरः :
निवार्य संशयं जिष्णोः कर्म-संन्यास-योगयोः ।
जितेन्द्रियस्य च यतेः पञ्चमे मुक्तिम् अब्रवीत् ॥
अज्ञान-सम्भूतं संशयं ज्ञानासिना छित्त्वा कर्म-योगम् आतिष्ठ इत्य् उक्तम् । तत्र पूर्वापर-विरोधं मन्वानो ऽर्जुन उवाच संन्यासम् इति । यस् त्व् आत्म-रतिर् एव स्याद् इत्य् आदिना सर्वं कर्माखिलं पार्थ इत्य् आदिना च कर्म-संन्यासं कथयसि । ज्ञानासिना संशयं छित्त्वा योगम् आतिष्ठ इति पुनर् योगं च कथयसि । न च कर्म-संन्यासः कर्म-योगश् च एकस्यैव एकदैव सम्भवतः विरुद्ध-स्वरूपत्वात् । तस्माद् एतयोर् मध्य एकस्मिन्न् अनुष्ठातव्ये सति मम यच् छ्रेयः सुनिश्चितम् तद् एकं ब्रूहि
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0