भगवद्गीता · अध्याय 41
विश्वनाथः :
प्रोक्तं ज्ञानाद् अपि श्रेष्ठं कर्म तद्-दाऋढ्य-सिद्धये ।
तत्-पदार्थस्य च ज्ञानं साम्याद् या अपि पञ्चमे ॥
पूर्वाध्यायान्ते श्रुतेन वाक्य-द्वारेण विरोधम् आशङ्कमानः पृच्छति सन्न्यासम् इति ।
योग-संन्यस्त-कर्माणं ज्ञान-संछिन्न-संशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥ [गीता 4.41]
इति वाक्येन त्वं कर्म-योगेनोत्पन्न-ज्ञानस्य कर्म-संन्यासं ब्रूषे ।
तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥ [गीता 4.42]
इत्य् अनेन पुनस् तस्यैव कर्म-योगं च ब्रूषे । न च कर्म-संन्यासः कर्म-योगश् च एकस्यैव एकदैव सम्भवतः, स्थिति-गतिवत् विरुद्ध-स्वरूपत्वात् । तस्माज् ज्ञानी कर्म-संन्यासं कुर्यात्, कर्म-योगं वा कुर्याद् इति त्वद्-अभिप्रायम् अनवगतो ।हं पृच्छामि एतयोर् मध्ये यद् एकं श्रेयस् त्वया सुनिश्चितम् तन् मे ब्रूहि
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0