भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 123

123.1

मधुसूदनः : पूर्वाध्याये भगव्ता संसार-बन्ध-हेतून् गुणान् व्याख्याय तेषाम् अत्ययेन ब्रह्म-भावो मोक्षो मद्-भजनेन लभ्यत इत्य् उक्तम् --
मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥ [गीता 14.26] इति ।
तत्र मनुष्यस्य तव भक्ति-योगेन कथं ब्रह्म-भाव इत्य् आशङ्कायां स्वस्य ब्रह्म-रूपता-ज्ञापनाय सूत्र-भूतो ऽयं श्लोको भगवतोक्तः -
ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥[गीता 14.27] इति ।
अस्य सूत्रस्य वृत्ति-स्थानीयो ऽयं पञ्चदशो ऽध्याय आरभ्यते । भगवतः श्री-कृष्णस्य हि तत्त्वं ज्ञात्वा तत्-प्रेम-भजनेन गुणातीतः सन् ब्रह्म-भावं कथम् आप्नुयाल् लोक इति । तत्र ब्रह्मणो हि प्रतिष्ठाहम् इत्य् आदि भगवद्-वचनम् आकर्ण्य मम तुल्यो मनुष्यो ऽयं कथम् एवं वदतीति विस्मयाविष्टम् अप्रतिभया लज्जया च किंचिद् अपि प्रष्टुम् अशक्नुवन् तम् अर्जुनम् आलक्ष्य कृपया स्व-स्वरूपं विवक्षुः श्री-भगवान् उवाच ऊर्ध्वेति ।
तत्र विरक्तस्यैव संसाराद् भगवत्-तत्त्व-ज्ञाने ऽधिकारो नान्यथेति पूर्वाध्यायोक्तं परमेश्वराधीन-प्रकृति-पुरुष-संयोग-कार्यं संसारं वृक्ष-रूप-कल्पनया वर्णयति वैराग्याय प्रस्तुत-गुणातीतत्वोपायत्वात् तस्य । ऊर्ध्वम् उत्कृष्टं मूलं कारणं स्व-प्रकाश-परमानन्द-रूपत्वेन नित्यत्वेन च ब्रह्म । अतह्वोर्ध्वं सर्व-संसार-बाधे ऽप्य् अबाधितं सर्व-संसार-भ्रमाधिष्ठानं ब्रह्म तद् एव मायया मूलम् अस्येत्य् ऊर्ध्व-मूलम् । अध इत्य् अर्वाचीनाः कार्योपाधयो हिरण्यग्रभाद्या गृह्यन्ते । ते नाना-दिक्-प्रसृतत्वाच् छाखा इव शाखा अस्येत्य् अधः-शाखम् । आशु-विनाशित्वेन न श्वो ऽपि स्थातेति विश्वासानर्हम्
अश्वत्थम् माया-मयं संसार-वृक्षम् अव्ययम् अनाद्य्-अनन्त-देहादि-सन्तानाश्रयम् आत्म-ज्ञानम् अन्तरेणानुच्छेद्यम् अनन्तम् अव्ययम् आहुः श्रुतयः स्मृतयश् च । श्रुतयस् तावत् -- ऊर्ध्व-मूलो ऽवाक्-शाख एषो ऽश्वत्थः सनातनः [कठु 2.3.1] इत्य् आद्यः कठ-वल्लीषु पठिताः । अर्वाञ्चो निकृष्टाः कार्योपाधयो महद्-अहङ्कार-तन्मात्रादयो वा शाखा अस्येत्य् अर्वाक्-शाख इत्य् अधः-शाख-पद-समानार्थः । सनातन तिय् अव्यय-पद-समानार्थम् ।
स्मृतयश् च-
अव्यक्त-मूल-प्रभवस् तस्यैवानुग्रहोत्थितः ।
बुद्धि-स्कन्ध-मयश् चैव इन्द्रियान्तर-कोटरः ॥
महा-भूत-विशाखश् च विषयैः पत्रवांस् तथा ।
धर्माधर्म-सुपुष्पश् च सुख-दुःख-फलोदयः ॥
आजीव्यः सर्व-भूतानां ब्रह्म-वृक्षः सनातनः ।
एतद् ब्रह्म-वनं चास्य ब्रह्माचरति साक्षिवत् ॥
एतच् छित्त्वा च भित्त्वा च ज्ञानेन परमासिना ।
ततश् चात्म-गतिं प्राप्य तस्मान् नावर्तते पुनः ॥ [म्भ् 14.35.20-22] इत्य् आदयः ।
अव्यक्तम् अव्याकृतं मायोपाधिकं ब्रह्म तद् एव मूलं कारणं तस्मात् प्रभवो यस्य स तथा । तस्यैव मूलस्याव्यक्तस्यानुग्रहाद् अतिदृढत्वाद् उत्थितः संवर्धितः । वृक्षस्य हि शाखाः स्कन्धाद् उद्भवन्ति । संसारस्य च बुद्धेः सकाशान् नाना-विधाः परिणामा भवन्ति । तेन साधर्म्येण बुद्धिर् एव स्कन्धस् तन्-मयस् तत्-प्रचुरो ऽयम् । इन्द्रियाणाम् अन्तराणि च्छिद्राण्य् एव कोटराणि यस्य स तथा । महान्ति भूतान्य् आकाशादीनि पृथिव्य्-अन्तानि विविधाः शाखा यस्य विशाखः स्तम्भो यस्येति वा । आजीव्य उपजीव्यः । ब्रह्मणा परमात्मनाधिष्ठितो वृक्षो ब्रह्म-वृक्षः । आत्म-ज्ञानं विना छेत्तुम् अशक्यतया सनातनः
। एतद् ब्रह्म-वनम् अस्य ब्रह्मणो जीव-रूपस्य भोग्यं वननीयं सम्भजनीयम् इति वनं ब्रह्म साक्षिवद् आचरति न त्व् एतत् कृतेन लिप्यत इत्य् अर्थः । एतद् ब्रह्म-वनं संसार-वृक्षात्मकं छित्त्वा च भित्त्वा चाहं, ब्रह्मास्मीत्य् अतिदृढ-ज्ञान-खड्गेन स-मूलं निकृत्येत्य् अर्थः आत्म-रूपां गतिं प्राप्य तस्माद् आत्म-रूपान् मोक्षान् नावर्तत इत्य् अर्थः । स्पष्टम् इतरत् ।
अत्र च गङ्गा-तरङ्ग-नुद्यमानोत्तुङ्ग-तत्-तीर-तिर्यङ्-निपतितम् अर्धोन्मूलितं मारुतेन महान्तम् अश्वत्थम् उपमानीकृत्य जीवन्तम् इयं रूपक-कल्पनेति द्रष्टव्यम् । तेन नोर्ध्व-मूलत्वाधः-शाखत्वाद्य्-अनुपपत्तिः । यस्य माया-मयस्याश्वत्थस्य च्छन्दांसि च्छादनात् तत्त्व-वस्तु-प्रावरणात् संसार-वृक्ष-रक्षणाद् वा कर्म-काण्डानि ऋग्-यजुः-साम-लक्षणानि पर्णानीव पर्णानि । यथा वृक्षस्य परिरक्षणाथानि पर्णानि भवन्ति तथा संसार-वृक्षस्य परिरक्षणाथानि कर्म-काण्डानि धर्माधर्मअ-तद्-धेतु-फल-प्रकाशनार्थत्वात् तेषाम् । यस् तं यथा-व्याख्यातं स-मूलं संसार-वृक्षं
माया-मयम् अश्वत्थं वेद जानाति स वेद-वित् कर्म-ब्रह्माख्य-वेदार्थ-वित् स एवेत्य् अर्थः । संसार-वृक्षस्य हि मूलं ब्रह्म हिरण्यगर्भादयश् च जीवाः शाखा-स्थानीयाः । स च संसार-वृक्षः स्वरूपेण विनश्वरः प्रवाह-रूपेण चानन्तः । स च वेदोक्तैः कर्मभिः सिच्यते ब्रह्म-ज्ञानेन च च्छिद्यत इत्य् एतावान् एव हि वेदार्थः । यश् च वेदार्थवित् स एव सर्व-विद् इति स-मूल-वृक्ष-ज्ञानं स्तौति स वेदविद् इति

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc