भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 124

124.1

विश्वनाथः :
संसार-च्छेदको ऽसङ्ग आत्मेशांशः क्षराक्षरात् ।
उत्तमः पुरुषः कृष्णः इति पञ्चदशे कथा ॥
पूर्वाध्याये --
मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥ [गीता 14.26] इत्य् उक्तम् ।
तत्र तव मनुष्यस्य भक्ति-योगेन कथं ब्रह्म-भाव इति चेत्, सत्यम् अहं मनुष्य एव किन्तु ब्रह्मणो ऽपि तस्य प्रतिष्ठा परमाश्रय इत्य् अस्य सूत्र-रूपस्य वृत्ति-स्थानीयो ऽयं पञ्चदशाध्याय आरभ्यते । तत्र स गुणान् समतीत्य इत्य् उक्तम् इति गुणम्यो ऽयं संसारः कः, कुतो वायं प्रवृत्तस् तद्-भक्त्या संसारम् अतिक्राम्यन् जीवो वा कः । ब्रह्म-भूयाय कल्पते इत्य् उक्तं ब्रह्म वा किं । ब्रह्मणः प्रतिष्ठा त्वं वा क इत्य्-आद्य्-अपेक्षायां प्रथमम् अतिशयोक्त्य्-अलङ्कारेण संसारो ऽयम् अद्भुतो ऽश्वत्थ-वृक्ष इति वर्णयति । ऊर्ध्वे सर्व-लोकोपरि-तले सत्य-लोके प्रकृति-बीजोत्थ-प्रथम-प्ररोह-रूप-महत्-तत्त्वात्मकश्
चतुर्मुख एक एव मूलं यस्य तम् । अधः स्वर्-भुवोर्-भूलोकेषु अनन्ता देव-गन्धर्व-किन्नरासुर-राक्षस-प्रेत-भूत-मनुष्य-गवाश्वादि-पशु-पक्षि-कृमि-कीट-पतङ्ग-स्थावरास् ताः शाखा यस्य तम् अश्वत्थं धर्मादि-चतुर्वर्ग-साधकत्वाद् अश्वत्थम् उत्तमं वृक्षम् । श्लेषेण भक्तिमतां न श्वः स्थास्यतीत्य् अश्वत्थं नष्ट-प्रायम् इत्य् अर्थः । अभक्तानां त्व् अव्ययम् अनश्वरम् । छन्दांसि वायव्यं श्वेतम् आलभेत भूमिकाम् ऐन्द्रम् एकादशक-पालं निर्वपेत् प्रजाकामः इत्य् आद्याः कर्म-प्रतिपादका वेदाः संसार-वर्धकत्वात् पर्णानि । वृक्षो
हि पर्णैः शोभते । यस् तं जानाति स वेदज्ञः । तथा च ऊर्ध्व-मूलो ऽवाक्-शाख एषो ऽश्वत्थः सनातनः [कठु 2.3.1] इति कठ-वल्ली-श्रुतिः

124.2

बलदेवः :
संसार-च्छेदि वैराग्यं जीवो मे ऽंशः सनातनः ।
अहं सर्वोत्तमः श्रीमान् इति पञ्चदशे स्मृतम् ॥
पूर्वत्र विज्ञानानन्दस्यौत्पत्तिक-गुणाष्टकस्यापि जीवस्य कर्म-रूपानादि-वासनानुगुणेन भगवत्-सङ्कल्पेन प्रकृति-गुण-सङ्गः । स च बहुविधस् तद्-अत्ययश् च भगवद्-भक्ति-शिरस्केन विवेक-ज्ञानेन भवेत् तस्मिंश् च सति सम्प्राप्त-निज-स्वरूपो जीवो भगवन्तम् आश्रित्य प्र्मोदो सर्वदा तस्मिंस् तिष्ठतीत्य् उक्तम् । अथ तद्-विवेक-ज्ञान-स्थैर्य-करं वैराग्यं जीवस्य भजनीय-भगवद्-अंशत्वं भगवतः स्वेतर-सर्वोत्तमत्वं चोक्तेष्व् अर्थेषूपयोगाय पञ्चदशे ऽस्मिन् वर्ण्यते । तत्र तावद् गुण-विरचितस्य संसारस्य वैराग्य-वैच्चेद्यत्वात् संसारं वृक्षत्वेन वैराग्यं च शस्त्रत्वेन रूपयन् वर्णयति भगवान् -- ऊर्ध्वमूलम् इत्य् आदिभिस्
त्रिभिः ।
संसार-रूपम् अश्वत्थम् ऊर्ध्व-मूलम् अधः-शाखं प्राहुः । ऊर्ध्वं सर्वोपरि-सत्य-लोके प्रधान-बीजोत्थ-प्रथम-प्ररोह-रूप-महत्-तत्त्वात्मक-चतुर्मुख-रूपं मूलं यस्य सः । अधः सत्य-लोकाद् अर्वाचीनेषु स्वर्-भुवर्-भूर्-लोकेषु देव-गन्धर्व-किन्नरासुर-यक्ष-राक्षस-मनुष्य-पशु-पक्षि-कीट-पतङ्ग-स्थावरान्ता नानादिक्-प्रसृतत्वाच् छाखा यस्य तम् । चतुर्वर्ग-फलाश्रयत्वाद् अश्वत्थम् उत्तम-वृक्षम् । तादृशेन विवेक-ज्ञानेन विना निवृत्तेर् अभावाद् अव्ययं प्रवाह-रूपेण नित्यं च । तम् आहुः श्रुतयश् चात्र --
ऊर्ध्व-मूलो ऽवाक्-शाख
एषो ऽश्वत्थः सनातनः ।
ऊर्ध्व-मूलम् अर्वाक्-शाखं
वृक्षं यो वेद सम्प्रति ॥ [कठु 2.3.1] इत्य् आदिकाः ।
यस्य संसाराश्वत्थस्य छन्दांसि कर्माकर्म-प्रतिपादकानि श्रुति-वाक्यानि वासनाआ-रूप-तन्-निदान-वर्धकत्वात् पर्णानि प्राहुस् तानि च्छन्दांसि वायव्यं श्वेतम् आलभेत भूति-काम ऐन्द्रम् एकादशक-पालं निर्वपेत् प्रजा-कामः इत्य् आदीनि बोध्यानि । पत्रैस् तरुर् वर्धते शोभते च तम् अश्वत्थं यो वेद यथोक्तं जानाति स एव वेद-वित् । वेदः खलु संसारस्य वृक्षत्वं छेद्यत्वाभिप्रायेणाह तद्-छेदनोपायज्ञो वेदार्थविद् इति भावः ।
भ्ग् 15.2
अधश् चोर्ध्वं प्रसृतास् तस्य शाखा
गुण-प्रवृद्धा विषय-प्रवालाः ।
अधश् च मूलान्य् अनुसंततानि
कर्मानुबन्धीनि मनुष्य-लोके

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc