भगवद्गीता · अध्याय 122
श्रीधरः :
वैराग्येण विना ज्ञानं न च भक्तिर् अतः स्फुटम् ।
वैराग्योपस्कृतं ज्ञानम् ईशः पञ्चदशे ऽदिशत् ॥
पूर्वाध्यान्ते मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते [गीता 14.26] इत्य् आदिना परमेश्वरम् एकान्त-भक्त्या भजतस् तत्-प्रसाद-लब्ध-ज्ञानेन ब्रह्म-भावो भवतीत्य् उक्तम् । न चैकान्त-भक्तिः ज्ञानं चाविरक्तस्य सम्भवतीति वैराग्य-पूर्वकं ज्ञानम् उपदेष्टु-कामः प्रथमं तावत् सार्ध-श्लोकाभ्यां संसार-स्वरूपं वृक्ष-रूपकालङ्कारेण वर्णयन् भगवान् उवाच ऊर्ध्व-मूलम् इति । ऊर्ध्वम् उत्तमः क्षराक्षराभ्याम् उत्कृष्टः पुरुषोत्तमो मूलं यस्य तम् । अध इति ततो ऽर्वाचीनां कार्योपाधयो हिरण्यगर्भादयो गृह्यन्ते । ते तु शाखा इव शाखा यस्य तम् । विनश्वरत्वेन श्वः प्रभात-पर्यन्तम्
अपि न स्थास्यतीति विश्वासानर्हत्वाद् अश्वत्थं प्राहुः । प्रवाह-रूपेणाविच्छेदाद् अव्ययं च प्राहुः । ऊर्ध्व-मूलो ऽवाक्-शाख एषो ऽश्वत्थः सनातन [कठु 2.3.1] इत्य् आद्याः श्रुतयः । छन्दांसि वेदा यस्य पर्णानि धर्माधर्म-प्रतिपादन-द्वारेण च्छाया-स्थानीयैः कर्म-फलैः संसार-वृक्षस्य सर्व-जीवाश्रयणीयत्व-प्रतिपादनात् पर्ण-स्थानीया वेदाः । यस् तम् एवम्भूतम् अश्वत्थं वेद स एव वेदार्थ-वित् । संसार-प्रपञ्च-वृक्षस्य मूलम् ईश्वरः । ब्रह्मादयस् तद्-अंशाः शाखा-स्थानीयाः । स च संसार-वृक्सो विनश्वरः । प्रवाह-रूपेण नित्यश् च । वेदोक्तैः
कर्मभिः सेव्यताम् आपादितश् च इत्य् एतावान् एव हि वेदार्थः । अत एवं विद्वान् वेदविद् इति स्तूयते
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0