भगवदाशयानुसरणभास्य · अध्याय 8
)
साधिभूतेति ॥ 30 ॥
(इति श्रीमद्)भगवद्भास्करकृते गीताभाष्ये
सप्तमो ऽध्यायः ॥
प्. 180
अथाष्टमो ऽध्यायः ।
ते ब्रह्म तद् विदुः --- इति ये भगवतोपक्षिप्ताः पदार्थास् तांस्
तत्त्वतो ज्ञातुम् अर्जुनः पृच्छति ।
अर्जुनः (उवाच) ---
(किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते
अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयो ऽसि नियतात्मभिः
)
किं तद् इति । क इति स्वरूपप्रश्नतात्पर्यम् ।
कथम् इति प्रकारप्रश्नः । केन प्रकारेणासौ देहे ऽस्मिन् भवतीति ।
प्रयाणकाले मरणकाले केन प्रकारेण ज्ञेयो ऽसि नियतचित्तैः ॥
1-2 ॥
भगवान् (उवाच) ---
(अक्षरं ब्रह्म परमं स्वभावो ऽध्यात्मम् उच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः
)
अक्षरम् इति । न क्षरतीत्य् अक्षरं परमं ब्रह्म ।
एतद् वै तद् अक्षरं
गर्गि ब्राह्मणा अभिवदन्ति -- इति श्रुतेः ।
स्वभावो ऽध्यात्मम् उच्यते । अक्षरशब्दवाच्यस्य परमात्मन आत्मीयो
भावो ऽंशो जीवो ऽध्यात्मम् आत्मानं देहम् अधिकृत्य भोक्तृत्वेन
वर्तत
इति । भूतानां जीवानां भावो भावना कर्म । तस्य प्रलयकाले
स्तिमितस्यावस्थितस्योद्भवो व्यक्तिः फलदानयोग्यतापादनम् ।
प्. 181
तं करोतीति भूतभावोद्भवकरो विसर्गो विसृष्टिर्
हिरण्यगर्भादेः ।
तथा च मन्त्रः --- हिरण्यगर्भं जनयामास पूर्वं मनो बुद्ध्या
शुभया संयुनक्तु --- इति । सो ऽयम् ईश्वरस्यान्तर्यामिणो
व्यापारः कर्मसञ्ज्ञितः ।
अपरेषां व्याख्या --- यजमानस्य व्यापारश् चरुपुरोडाशादीनां
देवतोद्देशेन त्यागो विसर्गः । स एव बुद्धिद्वारेण भूतान्य् एव
भावास् तेषाम् उद्भवं करोतीति भूतभावोद्भवकरः
कर्मसञ्ज्ञित
इति ॥ 3 ॥
(अधिभूतं क्षरो भावः पुरुषश् चाधिदैवतम् ।
अधियज्ञो ऽहम् एवात्र देहे देहभृतांवर
)
अधीति । अधिभूतं क्षरो भावः । क्षरति विनश्यतीति शरीरे
विषयलक्षणः । चेतनो1 भोग्यवर्गो जायमानो ऽनिरुद्ध्यमानः
पुरुषश् चाधिदैवतम् । यो ऽसाव् आदित्यमण्डले हिरण्यगर्भः
सर्वदेवतामयः । कृत्स्नं वैराजं शरीरम् आपूर्यावस्थितः
पुरुषो ऽधियज्ञो ऽहम् एव । अत्र यज्ञानाम् अधिदेवताहम् एव ।
यज्ञो वै विष्णुः --- इति शतपथश्रुतेः ।
देहो ऽधिकरणत्वेन व्यपदिश्यते --- न मम इदं देवताया इति
मानसस् त्यागो याग उच्यते । ये च द्रव्ययज्ञा ज्ञानयज्ञाः
स्वाध्याययज्ञस् तेषाम् अहम् एवाधिदेवतेत्य् अभिप्रायः ।
अन्येषां व्याख्या ---
देहस्मिन् वैश्वानरविध्यङ्गभूताहुतिसाधनभूत2 इति ।
विशिष्टाहुतिसाधनोपलक्षणार्थे देहशब्दो यज्ञशब्दश् च
विशिष्टयज्ञलक्षणपर इति । तद् अयुक्तम् ।
यतो यज्ञविशेषव्याख्यानाद् यज्ञसामान्यव्याख्यानं युक्ततरम् ।
विसर्गशब्देन सर्गव्याख्यानं युक्तम् ॥ 4 ॥
नोतेस्:
1. ^लक्षणो चेतनो^
2. ^विध्यङ्गाभूताहुति
प्. 182
(अन्तकाले च माम् एव स्मरन् त्यक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्य् अत्र संशयः
)
अन्तेति । वयसो ऽन्ते त्यक्त्वा कलेवरं शरीरं यः प्रयाति स
मद्भावं याति । न विद्यते ऽस्मिन्न् अर्थे संशयः ॥ 5 ॥
न केवलं माम् एव स्मरन् मां प्रतिपद्यते । किं तर्हि ---
(यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम् ।
तं तम् एवैति कौन्तेय सदा तद्भावभावितः
)
यम् इति । यं यं भावं देवताविशेषम् अन्यद् वा वस्तु स्मरन्न् अन्ते
देहं त्यजति1 तं तम् एवैति कौन्तेय सदा तद्भावनया भावितो
वासितान्तःकरणः ॥ 6 ॥
यत एवम् ---
(तस्मात् सर्वेषु कालेषु माम् अनुस्मर युद्ध्य च ।
मय्य् अर्पितमनोबुद्धिर् माम् एवैष्यस्य् असंशयम्
)
तस्माद् इति । तस्मात् सर्वेषु कालेषु मदनुस्मरणं कुरु ।
युद्धं च स्वधर्मं कुर्व् इत्य् अर्थः । मयि समर्पितं मनो
बुद्धिश् च यस्य ते स त्वं मय्य् अर्पितमनोबुद्धिः । मनोवृत्तिविशेषो
वृत्तिमती बुद्धिः ।
एकम् एवान्तःकरणं परमार्थतः । व्यवहारसिद्ध्यर्थस् तु
भेदव्यपदेशः । माम् एवैष्यस्य् असंशयम् । नास्मिन्न् अर्थे संशयो ऽस्ति
।
न चैतद् आशङ्कितव्यम् ---
अन्तकाले ऽन्यथापि स्मृतिर् भवतीति । ईश्वरो हि सर्वज्ञः
कर्मानुसारी
चित्तवृत्तेर् नियन्ता ॥ 7 ॥
नोतेस्:
1. त्यजन्ति
प्. 183
अनन्तरोक्तम् अर्थं विशिष्य1 दर्शयितुम् आह ---
(अभ्यासयोगयुक्तेन चेतसानन्यवृत्तिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्
)
अभ्यासेति । अभ्यासः समानप्रत्ययप्रबन्धो
विजातीयप्रत्ययावृत्तिकीलः सो ऽयम् अभ्यासयोगः । तद्युक्तेन
चेतसानन्यवृत्तिना परमं पुरुषं दिव्यं याति प्रतिपद्यते
चेतसा तम् एवानुचिन्तयन् ॥ 8 ॥
तम् एव परमं पुरुषं पुनर् अपि विशिनष्टि ---
(कविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् अनुस्मरेद् यः ।
सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात्
)
कविम् इति । कविं सर्वज्ञम् अनुशासितारं नियन्तारम् । तथा हि
श्रुतिः
--- एतस्य वाक्षरस्य प्रशासने गर्गि सूर्याचन्द्रमसौ विधृतौ2
तिष्ठतः --- इति । अणोर् अणीयांसं सूक्ष्माद् अपि सूक्ष्मतरम् ।
सूक्ष्मत्वम् इहावयवोपचयाभावो विवक्षितः । नभसो ऽपि सकाशाद्
अतिसूक्ष्मः । परमकारणत्वात् सर्वकर्मफलस्य धातारं
विधातारम् अचिन्त्यरूपम् । नहीदं तद् इति चिन्तनीयम् ।
अस्य रूपं (न) विद्यते । अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् अलोहितम् ---
इति रूपप्रतिषेधात् । तथाप्य् उपासकानाम् अनुग्रहार्थं रूपं
निर्दिश्यते । आदित्यवर्णं ज्योतिर्मयम् आनन्दैकस्वभावं तमसो
ज्ञानान्धकारात् परस्ताद् अवस्थितम् अज्ञानतिमिरापनुदं
स्वयंप्रकाशम् अनुस्मरेद् यः स इत्य् उत्तरगीतायां
वाक्यार्थं समाप्यते ॥ 9 ॥
नोतेस्:
1. विशेष्य
2. विवतौ
प्. 184
कस्मिन् पुनः काले ऽनुस्मरेत् ---
(प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति दिव्यम्
)
प्रयाणेति । अन्तकाले निश्चलेन मनसा भक्त्या
तदनुस्मरणाह्लादितहृदयेन योगबलेन च
योगजनितसंस्कारपातिस्थैर्
येण1 भ्रुवोर् मध्ये प्राणम् आवेश्य सुषुम्णया2 नाड्या
निष्क्रम्येत्य् अर्थः3 ॥ 10 ॥
प्राप्तव्यं पदम् अनूद्य तत्प्राप्त्युपायं कथयिष्यन्न् आह ---
(यद् अक्षरं वेदविदो वदन्ति विशन्ति यद् यतयो वीतरागाः ।
यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं सङ्ग्रहेणाभिधास्ये
)
यद् इति । एदद् वै तदक्षरं गर्गि --- अथ परा यया तदक्षऋअम्
अधिगम्यते --- इति । विशन्ति प्रतिपद्यन्ते । यतयो यत्नवन्तो यद् इच्छन्तो
ब्रह्मचर्यं मैथुननिवृत्तिम् (चरन्ति) । गृहस्थस्यापि सर्वत्र वा
प्रतिषिद्धवर्जम् इत्य् अनुज्ञातगमनानिवृत्तस्यावश्यकऋतुकालगामिनो
ब्रह्मचर्यम् अस्त्य् एव । तत् ते पदं तत् पदप्राप्त्युपायं सङ्ग्रहेण
सङ्क्षेपेण कथयिष्यामि ॥ 11 ॥
(सर्वद्वाराणि संयम्य मनो हृदि निरुद्ध्य च ।
मूर्ध्न्याधायात्मनः प्राणम् आस्थितो योगधारणाम्
)
सर्वेति । सर्वाणीन्द्रियद्वाराणि संयम्य मनो हृदयकमलनिलये
परमेश्वरे सन्निरुद्ध्य तालुमूलविनिर्गतया ब्रह्मनाड्या
नोतेस्:
1. ^स्थेर्येण
2. सुवन्यया
3. निष्क्रमेत्यर्थः
प्. 185
सुषुम्णाख्ययोर्द्द्वम् उद्गमय्यात्मनः प्राणं मूर्ध्न्याधायास्थितो
योगधारणाम् । योगधारणां गृहीत्वेत्य् अर्थः ॥ 12 ॥
(ओम् इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् ।
यः प्रयाति त्यजन् देहं स याति परमां गतिम्
)
ओम् इति । शब्दब्रह्मैकाक्षरम् इति विशेषणं
संहितादिब्रह्मनिवृत्त्यर्थम् । व्याहरन्न् उच्चारयन्1 । मां
परमात्मानम्
आकाशवत् सर्वव्यापिनं सर्वज्ञम् आनन्दम् अमृतम् । त्यजं देहं यः
प्रयाति स याति परमां गतिम् । अन्तकाले च माम् एवैति --- (इति यत्)
सामान्येनोक्तं तद् इदानीं विशेषितम् ।
केचिद् अत्र क्रममुक्त्यभिप्रायम् इदं न सद्योमुक्तिप्रदर्शनार्थम् इति
वदन्ति । एतद् वै सत्यकाम परं चापरं च ब्रह्म यद् ओङ्कारः ---
इति श्रुतेः । ओङ्कारालम्बनोपासनफलम् इदं कथ्यत इति ।
तदपव्याख्यानम् । परविद्याधिकारात् । यद् अक्षरं वेदविदो वदन्ति
इति प्रतिज्ञानात् कथं कालान्तरमुक्तिरूपं2 वर्ण्यते ॥ 13 ॥
न चाहं दुर्लभः सतताभियुक्तस्य ---
(अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः
)
अनन्येति । यस्यान्यत्र3 चेतो नास्त्य् असाव् अनन्यचेताः । सततं
सर्वदा नैरन्तर्येण । नित्यश इति यावज्जीवम् । तेनैतद् दर्शितं
वाक्यार्थज्ञानमात्रेण कृतार्थता ।
सततोपासनया ज्ञानं परिपक्वं मुक्तिक्षमं सम्भवतीति ।
तस्याहं सुलभः सुखेन लभ्यो नित्ययुक्तस्येति निगमनम् ॥ 14 ॥
नोतेस्:
1. उश्चारयन्
2. कालान्तरं मुक्तिरूपं
3. कस्यान्यत्र
प्. 186
तत्पदप्राप्ताव् उपाय उक्तः । तत्प्राप्तौ सत्यां कः
पुरुषार्थविशेष
इति ---
(माम् उपेत्य पुनर् जन्म दुःखलयम् अशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः
)
माम् इति । मां प्राप्य पुनर् जन्म दुःखस्यालयं स्थानं न
प्राप्नुवन्ति । स्थानान्तरप्राप्तौ पुनरावृत्तिः । मत्प्राप्तिर्
एवानावृत्तिहेतुर् इति दर्शयति ॥ 15 ॥
(आ ब्रह्मभुवनाल् लोकाः पुनरावर्तिनो ऽर्जुन ।
माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते
)
आब्रब्मेति । आ ब्रह्मभुवनाद् । ब्रह्मणो हिरण्यगर्भस्य भुवनं
निवासो ब्रह्मलोकस् तेन सह । अभिविधाव् आकारो ब्रह्मलोकसहिताः1
प्राणिन उच्यन्ते । ननु च --- यो ह वै2 तत् परमं ब्रह्म वेद
ब्रह्मैव भवति । तस्य तावद् एव चिरं यावन् न विमोक्ष्ये ऽथ
सम्पत्स्ये3 --- इत्याधिश्रुतिप्रामाण्याद् विदुषः प्रारब्धकर्मक्षये
शरीरपातानन्तरं मोक्षावधारणात् कथं ब्रह्मविदां
निवृत्तकल्मषाणां पुनर् आवर्तनम् । तथा यावद् अधिकारम्
अवस्थितिर्
अधिकारिणाम्4 --- इति शारीरकसूत्राद् अधिकारे
लोकानुग्रहार्थे व्यापारे
ये ऽवस्थितास् तेषां प्राजापत्यादाव् अधिकारे5 ईश्वरानुशासनाद्
यावद् अधिकारम् अवस्थितिर् भवति । तत्र च ज्ञानशेषम् अभ्यस्यतां
प्रारब्धफलकर्मक्षये मुक्तिः । यो यो देवानां प्रत्यबुद्ध्यत
स स
नोतेस्:
1. ^शब्देन तात्स्थात्स्थानिनस्तन्निवासिनः
2. यो हेव
3. विमोक्ष्येत सम्पत्स इति
4. ^स्थितिराधिकारिकारिकाणाम्
5. प्रजापत्यादावधिकारेश्वरानुशासनाद्
प्. 187
तद् अभवत्1 --- इति ब्रह्मस्वरूपापत्तेः । न ह वै देवान् पापं
गच्छति --- इति पुनर्जन्मप्रतिषेधाच् च । एतद् अनुपपन्नम् ।
अत्रोच्यते । प्रारब्धकर्मफलभोगक्षये सर्वेषां मुक्तिर् उक्ता ।
तच् चारब्धफलं कर्म केषाञ्चिद् एकशरीरभोग्यम् । अन्येषाम्
अनेकशरीरभोग्यम् । एकजन्मकृतस्यापि कर्मणो ऽनेकशरीरभोग्यतापि
स्मर्यते । यथावान्तरतमनाम्नः पुराणर्षेः कलिद्वापरयोः
सन्धौ विष्णुशासनाद् व्यासपदप्राप्तिः । एवं मुक्तिफलानियमस्
तत्तदवस्थाप्राप्तेर् इति2 शारीरके ऽपि कर्मफलतारतम्यवशेन
मुक्तेर् अनियमदर्शनाद् अविरोधो ऽत्र । माम् उपेत्य हे कौन्तेय पुनर् जन्म
शरीरग्रहणं न विद्यते ॥ 16 ॥
कस्य हेतोर् इतरेषां लोकानाम् आवृत्तिः । कालपरिच्छिन्नत्वात् ।
परस्य कारणप्राप्तस्य प्रच्युतिर् नास्ति कार्यलोकेषु हि वर्तमानस्य ।
तेषां विनाशित्वाद् आवृत्तिर् अवश्यं भाविनी3 तद् एतद् आह ---
(सहस्रयुगपर्यन्तम् अहर् यद् ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्तां ते ऽहोरात्रविदो जनाः
)
सहस्रेति । तथा चोक्तम् ---
दैविकानां युगानान् तु सहस्रं परिसङ्ख्यया ।
ब्राह्मम् एकम् अहर् ज्ञेयं तावती रात्रिर् एव4 च ॥ इति ।
सहस्रयुगपर्यन्तम् अहर् ब्रह्मणो जागरितावस्था । चतुर्दशम्
अन्वन्तरावच्छिन्नः कालः । तावती रात्रिर् अवान्तरप्रलयो
ब्रह्मणः स्वप्नावस्था । तद् एवम् अहोरात्रौ संवत्सरकल्पनया
वर्षशसम् आयुर्
नोतेस्:
1. स स तदाभवत्
2. ^तदवस्थावपृतेरिति
3. अवश्यभाविनी
4. महारात्रिम् इति मनुस्मृतौ पाठः
प्. 188
ब्रह्मणः । ततो ब्रह्मा मुच्यते । महाप्रलयो भवति ।
पृथिव्यादीन्य् अपि भूतानि तदा प्रलीयन्ते ॥ 17 ॥
तत्राहनि रात्रौ च यो व्यापारो भूतानां स कथ्यते ---
(अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके
)
अव्यक्तेति । अव्यक्तम् अव्याकृतम् उच्यते पञ्चानां भूतानां
सूक्ष्मावस्था । कर्माविद्यासहिताश् च जीवाः । अन्तर्यामीश्वरो
ऽधिष्ठाता । तद् एतद् व्याकृतम् उच्यते । तथा च श्रुतिः ---
तद् धेदं तर्ह्य् अव्याकृतम् आसीत् --- इति । व्यक्तं यच् च2
चराचराणि भूतानि महाभूतानि च प्रभवत्य् अहरागमे ।
रात्र्यागमे तु प्रलीयन्ते ।
तत्र वा व्याकृते ऽवान्तरप्रलये चराचराणां भूतानां प्रलयो
महाप्रलये तु महाभूतानाम् अपीति विशेषः ॥ 18 ॥
कृतकर्मविनाशो ऽकृतकर्मफलस्य चागम3 इति दोषद्वयं
परिहरन्न् आह---
(भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमे ऽवशः पार्थ प्रभवत्य् अहरागमे
)
भूतेति । संसारस्यानादित्वात् पूर्वकल्पकृतानां कर्मणां
स्तिमितं नामावस्थानं4 न विनाशः । तन्निबन्धनो ऽयं
पुनः सुरनरतिर्यक्प्रभेदेन विचित्रः सर्ग इति ।
स एवायम् इति । समाननामाकृतित्वा(द् अ)भेदो व्यपदिश्यते ।
तन्नामनस् तदाकृतयश् च जायन्ते । व्यक्तीनाम् अन्यत्वे ऽपि
यथा त एव शालयो भुज्यन्ते (तद्वत्) । शेषं गतार्थम् ॥ 19 ॥
नोतेस्:
1. तत्र व्याकृतमासीत्
2. व्यक्तयश् च
3. कृतकर्मविनाशोकृतस्य च कर्मफलस्यागम इति
4. स्तिमितानामवस्थान
प्. 189
यद् एतद् व्यक्तं वर्णितं1 (तस्मात्) ---
(परस् तस्मात् तु भावो ऽन्यो व्यक्तो ऽव्यक्तात् सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति
)
पर इति । परस् तत्काष्ठा2 । सर्वज्ञो ऽव्यक्तः करणागोचरत्वात् ।
तस्माद् अव्यक्तात् पूर्वोक्ताद् अचेतनाद् अयं चेतनः परमात्मा
सनातनो नित्यः (परः) । कथम् । यः स सर्वेषु नश्यत्सु न विनश्यति
।
सो ऽयम् ईश्वरः प्रतिपत्तव्यः ॥ 20 ॥
(अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिं ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम
)
अव्यक्तेति । यो ऽयम् अव्यक्तः परमात्माक्षर इत्य् उक्तो वेदे ---
ततो ऽक्षरात् सम्भवतीह विश्वम् --- इति तम् आहुः श्रुतयः ।
परमां गतिं कथं प्राप्य न निवर्तन्ते । तद्धाम स्थानं
परमं
मम ॥ 21 ॥
स पुनः केनोपायेन लभ्यत इत्य् आह ---
(पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वम् इदं ततम्
)
पुरुष इति । भक्त्या अनन्यया तत्परया
स्तुतिनमस्कारध्यानधारणादिभिस् तम् एव भजते । न देवतान्तरम् ।
तस्य लक्षणम् उचयते प्रतिपत्तिसौकर्यार्थम् । यस्यान्तःस्थानि हि
भूतानि ।
कारणे हि कार्यम् अन्तर्भवति मृदीव शरा(वम्) । ... योगेन चेदं
सर्वं ततं व्याप्तम् ॥ 22 ॥
ईश्वरसतत्त्वं निर्धारितम्3 । तत्प्राप्त्युपायश् च --- प्रयाणकाले
मनसा --- इत्य् आरभ्योक्तः । (पुरुषं) प्राप्तानां चानावृत्तिर्
उक्ता ।
नोतेस्:
1. वलितं
2. तत्कृष्ठा
3. निवारितम्
प्. 190
अथेदानीं येन मार्गेण गतानाम् अनागमो ऽनावृतिर् येन चावृत्तिर्
इति विभागेन दर्शयन्न् आह ---
(यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ
)
यत्रेति । कालग्रहणं मार्गोपलक्षणार्थम् । कर्मयोगिनो
ज्ञानयोगिनश्
च देवयानपितृयानमार्गम् अर्चिरादिलक्षितं प्रथमं दर्शयति
प्राधान्यात् ॥ 23 ॥
(अग्निर् ज्योतिर् अहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः
)
अग्निर् इति । अग्निर् ज्योतिर् इत्य् अर्चिर्देवता लक्ष्यते ।
तथा शुक्लपक्षदेवतोत्तरायणदेवतेत्य् आतिवाहिन्यो1 देवता इति
स्थितं शारीरके । तेन तु प्रयाता गच्छन्ति ब्रह्म परमात्मानम् ।
ब्रह्मशब्दस्य तत्र मुख्यतत्त्वं न कार्यलोको गृह्यते
परब्रह्मप्रकरणाच् च ।
तत्र यत् कैश्चिद् उक्तम् --- अर्चिरादिमार्गगामिणां2
हिरण्यगर्भलोकप्राप्तिर् इति तद् असत् । इहानावृत्तिर् उच्यते
ब्रह्मप्राप्तेः स्वतन्त्रवृत्तिः । तथा चोक्तम् --- आ ब्रह्मभुवनाल्
लोकाः --- इति ॥ 24 ॥
इदानीं केवलकर्मिणां पितृयानः न पुनः पुनरावृत्तिलक्षणो
मार्गो निर्दिश्यते प्रसङ्गात् कथं3 चानभिज्ञा नाम पराभवेयुर्
इति दर्शनार्थम् ---
नोतेस्:
1. आतिवाहिन्यो
2. ^गामिनां
3. कथं नाम ज्ञानं परा^
प्. 191
(धूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते
)
धूम इति । धूमो रात्रिस् तथा कृष्ण इत्य् अत्रापि देवता एव
लक्ष्यन्ते । नात्रोत्तरायणं दक्षिणायनं रात्रिरहर् वेति
विवक्षितम् । यत्र क्वचन मृतानां समुच्चयकारिणाम् अर्चिरादिर्
एव । इतरेषाम् अपि धूमादिर् एव । भीष्मस्योत्तरायणप्रतीक्षा
तत्र मरणं प्रशस्तम् इति प्रोत्साहनार्था न नियमार्था ।
शेषं गतार्थम् ॥ 25 ॥
(शुक्रकृष्णे गती ह्य् एते जगतः शाश्वते मते ।
एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः
)
शुक्लेति । एते च गती शुक्लकृष्णे जगतः । शाश्वते1 मते
वेदोक्तत्वात् --- एकया यात्य् अनावृत्तिम् अन्ययावर्तते2 पुनर् इति ।
अर्थस्य पुनर् वचनं निगमनम् ॥ 26 ॥
मार्गद्वयाभिज्ञः केवलं कर्म नारभते समुच्चयार्थम् एव यतते
निःश्रेयसार्थत्वाद् इति दर्शयितुम् आह ---
(नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।
तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन
)
नैत इति ॥ 27 ॥
तद् एतद् अध्यायोक्तं ज्ञानम् अन्यनिन्दया स्तूयते ।
श्रद्धालवः कथम् अत्राभियुक्ता भवेयुर् इति ।
नोतेस्:
1. शाश्वती
2. अन्यथावर्तते
प्. 192
(वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति चाद्यम्
मूल पाठ: Bhagavadāśayānusaraṇabhāsya · Edition: D. Subhadropadhyaya, Varanasi, 1965 (Sarasvati Bhavana Granthamala, 94) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0