भगवदाशयानुसरणभास्य · अध्याय 9
)
वेदेष्व् इति । वेदेषु चतुर्ष्व् अपि यत् पुण्यफलं यज्ञेष्व्
अग्निष्टोमादिषु तपःसु चान्द्रायणादिषु गोभूमिहिरण्यदानेषु
तत् सर्वम् इदम् अत्येति ।
कथम् । इदं ज्ञानं विदित्वा योगी परं स्थानम् उपैति चाद्यम् ।
सर्वस्थानानाम् आद्यं पारमेश्वरं पदम् इति ॥ 28 ॥
(इति) भगवद्भास्करकृते गीताभाष्ये अष्टमो ऽध्यायः ॥
प्. 193
अथ नवमो ऽध्यायः ।
देवयानेन गतानाम् अपुनरावृत्तिर् उक्ता --- माम् उपेत्य पुनर्जन्म न
विद्यते --- इति । यत्1 प्राप्यापुनरावृत्तिस् तस्य ब्रह्मणो
विशिष्टशक्तियुक्तस्य सतत्त्वं पुनर् अपि कथयिष्यन्न् आह ।
अत्यन्तातीन्द्रियत्वात् पुनः पुनः कथितम् अपि न चेतसि
स्थितिपदं लभते केषाञ्चिद् एव
पुण्यकृतां चेतसि स्थिरीभवतीति भगवान् यतते ।
भगवान् उवाच ---
(इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे ।
ज्ञानं विज्ञानसहितं यज् ज्ञात्वा मोक्ष्यसे ऽशुभात्
)
इदं त्व् इति । इदं तु ते गुह्यतमम् । तुशब्दो ऽतिशयार्थः ।
अनसूयवे परगुणेषु दोषाविष्करणम् असूया । तद्रहिताय ।
ज्ञानं (प्र)वक्ष्यामि । विज्ञानसहितम् । यज् ज्ञानं ज्ञात्वा
मोक्ष्यसे ऽशुभात् संसारबन्धात् ।
केषाञ्चिद् एव पुण्यकृताम् अर्चिरादिना2 वर्त्मना क्रममुक्तिर् उक्ता ।
इदानीं सद्योमुक्तिर् उच्यत इत्य् आहुः । तद् असत् । अर्चिरादिनैव
संसारमण्डलम् अतिक्रम्य लिङ्गशरीरवियोगान् मुक्तिर् नात्रैव
शरीरे (मुच्य)ते । तस्माद् इहैव मुक्तिर् इत्य् अपसिद्धान्तः3 ॥ 1 ॥
तज् ज्ञानं स्तूयते श्रद्धाजननार्थम् ---
(राजविद्या राजगुह्यं पवित्रम् इदम् उत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम्
)
नोतेस्:
1. यं
2. ^कृतां मन्दिरादिना
3. केषाञ्चिदेव ... अपसिद्धान्तः इति अंशोयं गुह्यतमम्
इत्येतदनन्तरं विद्यते मूलकोषे
प्. 194
राजेति । राज्ञाम् अश्वपतिजनकादीनाम् । तेषां च गोप्यं पवित्रं
पावनं प्रत्यक्षं स्पष्टो ऽवगमो यस्य तद् इदं प्रत्यक्षावगमम् ।
नैतत्परोक्षम् इत्य् अर्थः । यथा महामेरुज्ञानम् ।
धर्माद् अनपेतं धर्म्यम् । कर्तुं सुसुखं सुकरम् इत्य् अर्थः ।
अक्षयफलहेतुत्वाद् अव्ययम् ॥ 2 ॥
ये पुनः ---
(अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निर्वर्तन्ते मृत्युसंसारवर्त्मनि
)
अश्रद्दधेति । अश्रद्दधानाः पुरुषा धर्मस्यास्य वक्ष्यमाणस्य
ज्ञानरूपस्य ते माम् अप्राप्य निवर्तन्ते मृत्युग्रस्ते
संसारवर्त्मनि ॥ 3 ॥
इदानीं तत्ज्ञानं कथयति ---
(मया ततम् इदं सर्वं जगद् अव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्व् अवस्थितः
)
मयेति । मया ततम् इदं सर्वम् अव्यक्तमूर्तिनातीन्द्रियेण1
सूक्ष्मेणात्मना । मयि तिष्ठन्तीति मत्स्थानि । न चाहं तेष्व्
अवस्थितः । स्वमहिम्नि स्थितत्वात् ॥ 4 ॥
(मम योगम् ऐश्वरं पश्य2) ---
(न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ।
भूतभृन् न च भूतस्थो ममात्मा भूतभावनः
)
नोतेस्:
1. ^मूर्तिना अतेन्द्रियेण
2. चतुर्थश्लोकव्याख्यानानन्तरम् 4 ॥ कुण्ड इति तानि अक्षराणि तत्पत्रान्ते योग इति ।
अव्यहितपरपत्रारम्भे प्रथमपङ्क्तौ
सि त्वत् न चेति इति द्वितीयपङ्क्तौ वर्तन्ते
प्. 195
न चेति । भूतानि बिभर्तीति भूतभृत् । न च भूतेषु ।
यथा शरीरी जीवः । शरीराकारपरिणतानि भूतानि बिभर्ति
तेषु चावस्थितो न चैवम् अहम् । भूतानि भावयतीति
भूतभावनः ॥ 5 ॥
(मत्स्थानि न च मत्स्थानि इति विरुद्धं पश्यं दृष्टान्तम् आह ---
(यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्य् उपधारय
)
यथेति । यथाकाशे व्यापकेति सूक्ष्मो वायुः स्थितः सर्वत्रगो
लोकत्रयव्यापी तथा भूतानि मत्स्थानीत्य् उपधारय ।
न संश्लेषसम्बन्धेन । किं तर्हि । व्यापके मयि विषयभूते
ऽल्पपरिमाणानि (भूतानि) परिवर्तन्त इति स्थित्यवस्था दर्शिता ॥ 6
॥
अधुना प्रलयावस्थोच्यते ---
(सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम्
)
सर्वेति । सर्वभूतानि कौन्तेय मदीयां प्रकृतिं यान्ति ।
कदा कल्पक्षये । कल्पादौ च पुनस् तानि विसृजामि ॥ 7 ॥
कथम् ---
(प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात्
प्रकृतिम् इति1 । प्रकृतिं स्वाम् अवष्टभ्यावलम्ब्य भूतग्रामं
(भूत)समूहं विसृजामि । अवशं परतन्त्रं प्रकृतेर् वशात् ।
यथाकर्म प्राणिनां प्रकृतिः परिणमते अतस् तद्वशात् सृजामि ।
नोतेस्:
1. प्रकृतामिति
प्. 196
का पुनर् इयं प्रकृतिः । पञ्चानां भूतानां सूक्ष्मावस्था
वीर्यभूता । अत्रेयं वेदान्तप्रक्रिया --- परं ब्रह्म
निश्चलम् आकाशकल्पं प्रथमम् अवस्थितम् । तत(स् तस्य) रोषाद्
विकृतः सृष्टीच्छाविशिष्टो ऽन्तर्यामीश्वरशब्दवाच्यो भवति ।
ततो भूतसूक्ष्मम् अव्याकृतम् आकाशम् उत्पद्यते । ततः
सूक्ष्मात्मायं
हिरण्यगर्भ इत्य् आचक्षते ।
ततः स्थूलानि वियदादीनि महाभूतानि क्रमेणोत्पद्यन्ते ।
ततो ऽण्डं ततो विराट् प्रजापतिः ।
तस्मिन् वैराजे स्थूलशरीरे सर्वे लोकाः सर्वे देवाः सर्वाणि च
स्थावरजङ्गमानि भूतानीति वस्तुभूते ऽयं प्रकृतिर् न
मायामात्रम् अवस्तुभूतम् ॥ 8 ॥
न चाविद्या नाम काचिद् अनात्मन्य् आत्मबुद्धिः । जीवस्य प्रतिपुरुषं
परब्रह्मस्वरूपं तदग्रहं च मुक्त्वा कदाचिद् आशङ्क्येत1 ---
विषमां सृष्टिं कुर्वतो दोषा(य तत्) स्याद् इत्य् आह2 ---
(न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवद् आसीनम् असक्तं तेषु कर्मसु
)
न चेति । न च मां निबध्नन्ति कर्माणि । कस्मात् ।
उदासीनवद् आसीनत्वात् । तेषु कर्मसु असक्तत्वात् । अन्यो ऽपि यः
फलासक्तस् तम् अपि कर्माणि न निबध्नन्ति न्यायतुल्यत्वात् ॥ 9 ॥
ननु च प्रकृतिर् नित्या स्वतन्त्रा भूतसृष्टौ प्रवर्तत इति
साङ्ख्या वदन्ति । तद् असत् । तद् उच्यते ---
(मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद् विपरिवर्तते
)
नोतेस्:
1. न चाविद्या नाम काचित् प्रतिपुरुषम्नात्मबुद्धिर्यत्तुज्जीवस्य परं
ब्रह्मस्वरूपं तदग्रहं च मुक्त्वा कदाचिदाशङ्क्येत
2. स्यादित्याह
प्. 197
मयेति । मयाध्यक्षेण मत्त उत्पन्ना सती
मयाध्यक्षेणाधिष्ठात्रा
प्रवर्तिता सूयते जनयति । न ह्य् अचेतना प्रकृतिस् त्रिगुणात्मिका
साङ्ख्यपरिकल्पिता सती प्रवर्तितुम् अर्हति प्राणिनां
विचित्रकर्मविपाकापरिज्ञानात् । कथं सुरनरतिर्यक्प्रभेदभिन्नं
भुवनं निर्मीयते रथादीनाम् अचेतनानां स्वतः प्रवृत्त्यदर्शनाच्
च
चेतनाधिष्ठिताः प्रवर्तन्त इति युक्तम् । अतो मत्प्रवर्तिता प्रकृतिः
।
(अनेन) प्रसवहेतुना1 जगद् (वि)परिवर्तते ॥ 10 ॥
प्रकृतेर् अध्यक्षम् अपि सन्तम् ---
(अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् ।
परं भावम् अजानन्तो मम भूतमहेश्वरम्
)
अवेति । अवजानन्ति मां मूढाः प्रादुर्भावेषु मानुषीं
तनुम् आश्रितं वासुदेवो नाम क्षत्रियो मनुष्यो ऽयम् इत्य् अनादरं
कुर्वन्ति
परं भावम् अजानन्तो भूतमहेश्वरं मम ॥ 11 ॥
ते च ---
(मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
आसुरीं राक्षसीं चैव प्रकृतिं मोहिनीं श्रिताः
)
मोघेति । मोघाशा मोघकर्माणो वृथासङ्कल्पाः । कर्माणि च
तेषाम्
अग्निहोत्रादीनि वृतैव ज्ञानं चानात्मविषयत्वात् ।
विचेतसो ऽविवेकिनः राक्षसीं तामसीं प्रकृतिम् आस्थिताः ॥ 12 ॥
ये तु ---
(महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आस्थिताः ।
भजन्ते ऽनन्यमनसो ज्ञात्वा भूतादिम् अव्ययम्
)
नोतेस्:
1. प्रसवे हेतुना
प्. 198
महेति । महात्मानस् तु लोकोत्तरप्रज्ञा दैवीं प्रकृतिं
सत्त्वगुणसम्भूता चित्तवृत्तिम् आश्रिता भजन्ते सेवन्ते भूतानाम्
आदिं1 मां ज्ञात्वा ॥ 13 ॥
केन प्रकारेण भजन्ते ---
(सततं कीर्तयन्तश् च यतन्तश् च दृढव्रताः ।
नमस्यन्तश् च मां भक्त्या नित्ययुक्ता उपासते
)
सतततम् इति । सततं मत्स्वरूपकथने प्रवृत्तचेतसो यतन्तश् च
मत्प्राप्त्युपायेषु यत्नवन्तो दृढव्रताः दृढं2 स्थिरं
व्रतं नियमः कर्मेत्य् अ(न)र्थान्तरं तद् येषां ते दृढव्रताः ।
भक्त्या चादरेण मां नमस्यन्तः पादपतनादिना व्यापारेण
नित्ययुक्ताः सन्त उपासते ॥ 14 ॥
अन्ये तु परिपक्वज्ञानाः ---
(ज्ञानयज्ञेन चाप्य् अन्ये यजन्ते माम् उपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्
)
ज्ञानेति । ज्ञानम् एव यज्ञो ज्ञानयज्ञः । यजन्तः पूजयन्तो
माम् उपासते । सातत्येन परमेश्वरे चित्तधारणम् उपासनम् ।
ते चैकत्वेनात्मानम् इदं सर्वं वासुदेवः सर्वम् इत्य् अनया (बुद्ध्या)
समस्तभेदप्रपञ्चं3 परमकारणपरमात्मनि4 चेतः प्रविलाप्य
तदात्मनावतिष्ठन्ते । ते चैते ब्रह्मविदः श्रेष्ठाः ।
अन्ये पुनर् एवम् असक्ताः पृथक्त्वेनोपासते । बहुधा बहुभिः
प्रकारैर्
आदित्ये चन्द्रमस्य् अग्नौ परमात्मानं चिन्तयन्ति । विश्वतोमुखं सर्वतो
मुखानि
नोतेस्:
1. भूतानामादि
2. स्थिर
3. सर्वमित्य^ इत्येतदनन्तरं समस्त^
इत्येतस्मात्पूर्वं कानिचिनाक्षराण्यस्पष्टानि
4. परमकरण
प्. 199
द्वाराणि (यस्य) तं1 विश्वतोमुखम् । यद् एवालम्बनत्वेनोपादीयते
वक्ष्यमाणं तद् एव तत्प्राप्त्युपायतां प्रतिपद्यते ॥ 15 ॥
तद् इदानीं प्रपञ्चयति ---
(अहं क्रतुर् अहं यज्ञः स्वधाहम् अहम् औषधम् ।
मन्त्रो ऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम्
)
अहं क्रतुर् इति । अहं क्रतुः पशुसोमेष्टिलक्षणो यज्ञः स्मार्तः
पञ्चमहायज्ञादिः2 । स्वधा यत् तु पितॄन् उद्दिश्य क्रियते ।
अहम् औषधं व्रीह्यादीनाम् । इदं किम् । तद् अन्नम् ।
मन्त्रो याज्यापुरोऽनुवाकादिः3 । अहम् एवाज्यं होमसाधनम् । अहम् अग्निर्
आहवनीयो यत्र हूयते । हुतं च हवनक्रियाहम् एव ॥ 16 ॥
(पिताहम् अस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रम् ओङ्कार ऋक् साम यजुर् एव च
)
पितेति । पितोत्पादयिता पालयिता वा । माता धात्री धाता विधाता
।
कर्मफलानाम् । पितामहः पितुः पिता चाहम् एव ।
यद् वेद्यं ज्ञेयं वस्तु तद् अहम् । यच् च पवित्रं पावनं
प्रायश्चित्तादि । ओङ्कारः प्रणवः । वेदत्रयं चाहम् एव ॥ 17 ॥
(गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयस्थानं निधानं बीजम् अव्ययम्
)
गतिर् इति । गम्यत इति गतिर् गन्तव्यो ऽहम् । भर्ता पोष्टा ।
प्रभुः स्वामी । द्रष्टा प्रत्यक्षपरोक्षकृतानां कर्मणाम् ।
निवासः प्राणिनाम् । निवसन्त्य् अस्मिन्न् इति निवासः । शरणम् आर्तानाम्
।
सुहृद् उपकारी प्रत्युपकारानपेक्षया । प्रभवो जगतः प्रलयः
स्थानं
नोतेस्:
1. तं तं
2. यज्ञादि
3. पुरोनुवाक्यादिः
प्. 200
स्थितिहेतुः । निधीयते ऽस्मिञ् छ्रेय इति निधानम् ।
बीजम् उत्पत्तिकारणम् ।
अव्ययं व्ययरहितम् । व्रीह्यादिबीजं व्ययि ॥ 18 ॥
किं च ---
(तपाम्य् अहं अहं वर्ष निगृह्णाम्य् उत्सृजामि च ।
अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन
)
तपामीति । आदित्यात्मना स्थित्वा निदाघसमये तपामि
कैश्चिद् रश्मिभिः । प्रावृट्काले वर्षम् उत्सृजामि । कैश्चित्
किरणैर् निगृह्णाम्य् अन्यर्ताव् अहम् एवामृतं जीवनम् ।
मृत्युश् च विनाशः सद् असच् चाहम् अर्जुन । सद् इति स्थूलं
व्यवहारयोग्यं वस्तु व्यपदिश्यते । असद् इति सूक्ष्मम् अव्यक्तम्
अ(व्यवहार्य)म् । एवं मद्व्यति(रिक्तं किम् अपि नास्ति) ।
सन्तः1 सम्यग्दर्शिन एकत्वेनाकामा (विश्व)तोमुखम्
अवस्थितं2 (मा)म् (उपासते ।
अपरे अकामाः) ... क्रत्वाद्येकैकप्रतिपत्त्या बहुधा
पृथक्त्वेनोपासत
इति सङ्क्षेपार्थः ॥ 19 ॥
ये पुनर् ज्ञानयज्ञेनोपासते पृथक्त्वेनैकत्वेन (वा) केवलकर्मिणः
फललुब्धाः ---
(त्रैविद्या मां सोमपाः पूतपापा यज्ञैर् इष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यम् आसाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान्
)
नोतेस्:
1. कच्यन्तः
2. `अवस्थितंऽ एतदन्तरम् एकम् अक्षरम् अस्पष्टम् । तद् अनन्तरं
मपरं इति वर्तते । ततः परम् एकम् अक्षरम् अस्पष्ठं मूलकोषे
प्. 201
त्रैविद्येति । तिस्रो विद्या येषां ते त्रैविद्याः । स्वार्थे तद्धितः ।
वेदत्रयविहितकर्माण इत्य् अर्थः । सोमपास् तत एव पूतपापाः
संशोधितकल्मषा यज्ञैर् इष्ट्वा माम् एवेन्द्रादिरूपेणावस्थितं
वस्तुतो न पुनस् ते जानन्ति स्वर्गतिं स्वर्गगमनम् । ते पुण्यं
पुण्यकर्मसाध्यं शतक्रतोः स्थानं भुञ्जन्ति दिव्यान् अनुभवन्ति
भोगान् ॥ 20 ॥
ते च ---
(ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्मम् अनुप्रपन्ना गतागतं कामकामा लभन्ते
)
ते तम् इति ।2 भुक्तेषु भोगेषु पुनः क्षीणपुण्याः पुण्यक्षये
मर्त्यलोकं प्रविशन्ति । एवम् इत्य् उक्तपरामर्शः । हिशब्दो हेतौ ।
त्रयीधर्मं3 वेदत्रयविहितं कर्म प्रपन्ना जायन्ते म्रियन्ते ।
कामान् भोगान् कामयमानाः ॥ 21 ॥
ये तु ---
(अनन्यांश् चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्य् अहम्
)
अनन्यांश् चिन्तयन्तो माम् इति । न विद्यते ऽन्य उपास्यो येषां ते
अनन्याः । तेषां नित्याभियुक्तानाम् अहम् एव योगक्षेमं वहामि ।
अप्राप्तप्राप्तिर् योगः । क्षेमः प्राप्तस्य परिरक्षणम् ।
तद् उभयम् ॥ 22 ॥
नोतेस्:
1. गमनम्
2. भुक्तेष्व् इति मुक्तेषु भोगेषु वः क्षीणपुण्याः कर्मसाध्यं
शतक्रतोः पुण्यक्षये । अत्र र्म इत्यारभ्य एतदन्तः पाठः
कण्ढित इति प्रतिभाति
3. त्रैधर्न्य
प्. 202
किं च ---
(ये ऽप्य् अन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
ते ऽप्य् माम् एव कौन्तेय यजन्त्य् अविधिपूर्वकम्
)
ये ऽपीति । ये ऽप्य् अन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
यजन्ते पूजयन्ति च । ते ऽपि माम् एव वस्तुतो यजन्ति । किं त्व्
अविधिपूर्वकम् । मुक्तिमार्गविधिरहितम् इत्य् अर्थः ।
न पुनः कल्पसूत्रोक्तं1 (विधिपूर्वकम्) । विधिं ते न जानन्ति ॥ 23
॥
कुतः पुनर् एवम् ---
(अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च ।
न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते
)
अहं हीति । अहं हि सर्वयज्ञानाम् तेन तेनेन्द्राद्यात्मनावस्थितो2
भोक्ता च प्रभुर् एव (च) । ते पुनर् न तु माम् अभिजानन्ति
(तत्त्वेन त)थावस्थितम्3 । अतश् च्यवन्ति ते ।
पुनरावृत्तिं भजन्त इत्य् अर्थः ॥ 24 ॥
एतद् एव दर्शयति ---
(यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनो ऽपि माम्
)
यान्तीति । यान्ति देवव्रताः । देवानां कर्म व्रतम् (येषां
ते) । यथा क्रतुर् अस्मिंल् लोके पुरुषो भवति तथेतः प्रेत्य भवति
इति श्रुतेः । तं यथा यश् चोपासते --- इति च ब्राह्मणम् ।
निगदव्याख्या । अत ए(व) ।
सर्वे मां याजि(नः) वासुदेवा भवन्ति ॥ 25 ॥
नोतेस्:
1. कल्पसूत्रोक्तं विधिं ते न जानन्ति
2. तेन तेनैन्द्राद्यात्मनावस्थितो
3. तथावास्थितम्
प्. 203
(सा)फल्यम् अनेन ..... पठ ... साध्यत्वात् ... आराधनीयः ।
कथम् ---
(पत्रं पुण्यं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तद् अहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः
)
पत्रं पुष्पम् इति । विल्वादिपत्रम् । पुष्पं करवीरादि ।
बदराम्रादि फलम् । कृतार्थं मे जन्मेति स्नेहार्द्रहृदयो यो मे
प्रयच्छति तद् अहम् उपहृतं गृहीत्वाश्नामि तृप्यामि
श्रद्धाबुद्धेः ॥ 26 ॥
यत एवम् अतः ---
(यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम्
)
यद् इति । यत् करोषि स्नानादि । यद् अश्नासि भोजनकाले ।
प्राणाहुतिः होमो निर्दिश्यते । यज् जुहोषि बाह्ये ऽग्नौ ददासि
हिरण्यादि । यत् तपस्यस्य् उपवासादि (करोषि) । तत् सर्वं
मदर्पणं कुरु ॥ 27 ॥
श्रुणु ततः फलम् ---
(शुभाशुभफलैर् एवं मोक्ष्यसे कर्मबन्धनैः ।
सन्न्यासयोगयुक्तात्मा विमुक्तो माम् उपैष्यसि
)
शुभेति । शुभाशुभानि फलानि येषां कर्मबन्धनानाम् ।
कर्माण्य् एव बन्धनानि । तैर् विमुच्यसे ।
विमुक्तश् च सन्न्यासयोगयुक्तात्मा । सन्न्यासः कृतानां कर्मणां
ब्रह्मणि समर्पणम् । तद् एव
प्. 204
कर्तृकर्मफलं चेत्य् अभेदभावना योगः । ताभ्यां युक्त आत्मा
यस्यासौ सन्न्यासयोग(युक्त्)आत्मा माम् उपेष्यसि ॥ 28 ॥
ननु यस् त्वयि समर्पणं करोति स एव चेत् त्वाम् उपैति
रागादिमांस् तर्हि भवान् यथा लोके राजा भजमानस्योपकरोति
नेतरस्येत्य् आशङ्क्याह ---
(समोहं सर्वभूतेषु न मे द्वेष्यो ऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम्
)
समोहम् इति । समोहं सर्वभूतेषु न मे रागद्वेषौ । यो भक्त्या
मां भजते तस्यानुग्रहं कर्तुं मम स्वभावः यथाग्निः
सम्यग् भजमानस्य शीताद्यपनोदं करोति नेतरस्य । अतो ये
भजन्ति तु भक्त्या सेवन्ते (माम्) आश्रयन्ते तेष्व् अहं वर्ते ।
नात्र रागद्वेषौ कारणम् । अपि तु
प्राणिकर्मानुरूपफलप्रदर्शनेनाग्निवदनुगृह्णामीत्य्
अभिप्रायः ॥ 29 ॥
इदानीं वृत्तादिनिराकरणेनापि भगवदाश्रयणस्तुत्यर्थम्
अर्थवादकथनं क्रियते । वृत्तम् अप्य् अत्र तन्त्रम् इत्य् आह ---
(अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् ।
साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः
)
अपीति । सुष्ठु भृशं1 चेद् दुराचारः सो ऽपि साधुर् एव
मन्तव्यः । कस्मात् । सम्यग् व्यवसितः सुनिश्चितबुद्धिः सन्मार्गम्
आस्थितो यतः । हिशब्दो हेतौ ॥ 30 ॥
नोतेस्:
1. दृशं
प्. 205
अयं (पु)नः ---
(क्षिप्रं भवति धर्मात्मा शश्वच् छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मद्भक्तः प्रणश्यति
)
क्षिप्रम् इति । .... टि .... पापक्षयात् । शश्वद् इति क्रियावि(शेषणम्)
नि(र्ग)च्छतीत्य् अर्थः । तद् एतद् वस्तु प्रतिजानीहि । न मे
(भक्तः प्रणश्य)तीति ॥ 31 ॥
इदानीं ये भजन्ति तु मां भक्त्या --- इति यद् भगवत्सेवनं
प्रक्रान्तं तत्र श्रद्धाभक्तिभ्यां
भगवद्व्यपाश्रयणप्ररोवनार्थम्
अप्य् अर्थवादम् आह ---
(मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम्
)
माम् इति । हे पार्थ मां व्यपाश्रित्य विशेषेण शरणत्वेनाश्रित्य
ये ऽपि पापयोनयो भवन्ति । पापाद् योनिर् जन्म येषां ते पापयोनयः
कुत्सितजन्मानः स्त्र्यादयो ये ऽत्यन्तम् अपवर्गे ऽनधिकृतास् ते ऽपि
स्वकर्मानुष्ठानलक्षणेन मदाज्ञासम्पादनेन पापक्षयात्
परमां
प्रकृष्टाम् उत्तमां स्वर्गलक्षणां गतिं यान्ति प्राप्नुवन्तीति
सम्भाव्यते । मत्सम्पर्को हि शु(द्धिकारणम् अनलसम्पर्क इव लौहस्य ।
स्वकर्मणा (मां) सेवस्वेति1 । स्वकर्मणैवाराधनस्य विधानात्
प्रत्युत्थानात्मकं कर्म शूद्रस्यापि स्वभावजम् इति प्रत्युत्थानेन
परिचर्यात्मकेन स्वकर्मणा तम् एवार्थसिद्धिं विन्दति मानव इति ।
तदनुष्ठानेनैव पुरुषार्थसिद्धेर् विधास्यमानत्वात् ॥ 32 ॥
नोतेस्:
1. स्वकर्मणासेवाश्येति
प्. 206
अर्थवादतात्पर्यम् उपसंहरन्न् आह1 ---
(किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा ।
अनित्यम् असुखं लोकम् इमं प्रप्य भजस्व माम्
मूल पाठ: Bhagavadāśayānusaraṇabhāsya · Edition: D. Subhadropadhyaya, Varanasi, 1965 (Sarasvati Bhavana Granthamala, 94) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0