भाषा

ENहिગુ
ग्रंथ पाठ

भगवदाशयानुसरणभास्य · अध्याय 7

7.1

)
योगिनाम् इति । आदित्यं रुद्रम् अन्यां6 वा देवतां ये युञ्जते
तेषां7 योगिनाम् अपि सर्वेषां मद्गतेनानन्तरात्मना8 मां गतेन
मदासक्तचेतसा श्रद्धावान् आस्तिक्यबुद्धिर् भजते9 यो मां स मे
युक्ततमो मत इति ॥ 48 ॥10
(इति श्री)भगवद्भास्करकृते गीताभाष्ये षष्ठो ऽध्यायः ॥ 6 ॥
नोतेस्:
1. माहात्म्यदर्शयत्रध्याय^ ---व
2. कृछाचान्द्रायणोपवासरेभ्यः ---व
3. केवलकर्मिणो कर्म^ ---ल
4. जानेस्याक्षिप्तत्वात्^ ---व
5. 44 ---व।ल
6. अन्यं ---व
अन्यं देवतां ---ल
7. तेषो ---व
8. महतेनान्तरात्मना ---व
9. समदासक्तचेतसा श्रद्धवातास्तिवा बुद्धिर्मजत्ये ---व
10. 44 ---व।ल
प्. 166
अथ सप्तमो ऽध्यायः ।1
षष्थे ऽध्याये समाधिर् उक्तः । यत्र समाधीयते2 चित्तं
तद् ईश्वराख्यं ब्रह्म सविस्तरं वक्तव्यम् इत्य् अध्याय आरभ्यते ।
न ह्य् अज्ञातस्वरूपस्योपासनं6 शक्यं कर्तुम् इति ।
भगवान् उवाच4 ---
(मय्य् आसक्तमनाः पार्थ योगं युञ्जन् मदाश्रितः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच् छ्रुणु

7.2

)
मयीति । मयि परमेश्वरे5 स्वाभाविकस्नेहार्द्रचेता6 योगं
युञ्जानः कुर्वाण इत्य् अर्थः । माम् आश्रितो मदाश्रितो ऽनन्यशरणः
।
संशयरहितं समग्रं कृत्स्नं मां यथा येन प्रकारेण
ज्ञास्यसि
प्रतिपत्स्यसे तच् छ्रुणु ॥ 1 ॥
विस्तरप्रकारं दर्शयति ---
(ज्ञानं ते ऽहं सविज्ञानम् इदं वक्ष्याम्य् अशेषतः ।
यज् ज्ञात्वा न पुनर् अन्यज् ज्ञातव्यम् अवशिष्यते

7.3

)
ज्ञानम् इति । ज्ञानम् ईश्वरस्वरूपबोधनम् । तद्विज्ञानसहितं7
वक्ष्यामि । विशेषज्ञानम्8 --- सो ऽहम् --- इत्यादि । इदम् इति
पूर्वोक्तं परामृश्यते । वक्ष्यामि । कार्त्स्येन9 ।
यज् ज्ञानं10 ज्ञात्वा नेह लोके ज्ञातव्यं पुनर् अवशिष्यते ॥ 2 ॥
नोतेस्:
1. श्रीजारयणाय नमः ---व। लकोषे नायमंशः
2. समाधीयतो ---व
3. नह्यज्ञानतस्वरूपस्योपसानं ---ल
4. ममवानुवाच ---व
5. प्रयिप्ररेमेश्वरे ---व
6. स्वभाविकास्नेहार्द्रचेता ---ल
स्नेहान्द्रवेतायोगुंयुजानः ---व
7. वितानसहितं ---व
8. ... ज्ञाने ---व
9. कात्स्येन ---व
10. यज्ञानं ---व
प्. 167
दुर्लभं च मत्स्वरूपज्ञानम् । कथम् ---
(मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये ।
यतताम् अपि सिद्धानां कश्चिन् मां वित्ति तत्त्वतः

7.4

)
मनुष्येति । मनुष्याणां सहस्रेषु मध्ये कश्चिद् यतति सिद्धये
यत्नं1 करोति । यतताम् अपि तेषां सिद्धानां2 सिद्ध्यर्थं3
प्रवृत्तानाम् इत्य् अर्थः । कश्चिन् मां वेत्ति तत्त्वतः4
याथातथ्येन ॥ 3 ॥
श्रोतारम् अभिमुखीकृत्येदानीं5 सविस्तरम् आत्मानं कथयति ---
(भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा

7.5

)
भूमिर् इति । भूमिर् आपो ऽनलो वायुः खम् इति पञ्चापि भूतमात्रा
निर्दिश्यन्ते6 स्थूलशरीरारम्भिण्यः । मनो बुद्धिर् इत्य् अन्तःकरणं
निर्दिश्यते । मनोग्रहणेन बाह्यम् अपि करणं गृह्यते
बुद्धीन्द्रियकर्मेन्द्रियलक्षणम्7 ।
अहङ्कार इत्य् अनात्मन्य् आत्माभिमान आत्मनि चानात्माभिमानः ।
स8 उभयविधो विपरीतप्रत्ययः संसारहेतुर् यम् अविद्येत्य्
आचक्षते । मे मदीयाष्टधा भिन्ना प्रकृतिः
स्थावरजङ्गमलक्षणस्य भूतजातस्य ॥ 4 ॥
इमाम् अचेतनां प्रकृतिं पृथक्कृत्य चेतनां निर्देष्टुम् आह8 ---
(अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत्

7.6

)
अपरेति10 । अपरेयम् अष्टधा11 भिन्ना प्रकृतिर् अपरा भोग्यरूपा12
नोतेस्:
1. यत्वं ---व
2. सिद्गानां
3. सिद्धार्थं ---व
4. तत्वतः ---व
5. श्रीत्तारमभिमुखीकृत्य ---व
6. वायुरिति ---ल।व ॥ निदिश्यते ---व
7. बुद्धिद्रियकर्मेदिय लक्षण ---व
8. स इति ---वकोषे नास्ति
9. इमामचेतना प्रकृति पृथकृत्य चेतनां निर्दंष्टुमाह ---व
10. अपरोति ---व
11. अपरेयामष्टधा ---व
12. भोपरूपा ---व
प्. 168
परतन्त्रा । अपरां प्रधानभूतां1 प्रकृतिम् इतो ऽन्यां
मत्सम्बन्धिनीं विद्धि । जीवभूतां जीवत्वं प्राप्तां2
भोक्तृरूपेणावस्थिताम् ।
यया प्रकृत्येदं4 धार्यते जगदन्तर् अनुप्रविष्टम्5 ।
(तथा च) श्रुतिः --- अनेन जीवेनात्मनानुप्रविश्य6 नामरूपे
व्याकरवाणि --- इति ॥ 5 ॥
द्वाभ्यां प्रकृतिभ्यां भूतानि जायन्त इत्य् आह7 ---
(एतद्योनीनि भूतानि सर्वाणीत्य् उपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा

7.7

)
एतद् इति । एते द्वे8 प्रकृती योनी येषां भूतानां तान्य् एतद्योनीनि ।
तत्र याचेतना प्रकृतिः सा कार्यकारणरूपेण परिणमते ।
या तु चेतना सा स्वकर्मोपार्जितफलभोक्तृरूपेणावतिष्ठते9 ।
तान्य् एतानि जीवाविष्टानि भूतानि10 सर्वाणीत्य् उपधारय ।
ते च मत्सम्बन्धिन्यौ11 । कथम् अचेतना मत्तो जाताश् चेतनाः पुनर्
मदसम्भूताः । यत एवम् अतो ऽहं कृत्स्नस्य जगतः प्रभवः
प्रलयस्
तथा । प्रभवन्त्य् अस्माद् इति12 प्रभवः ।
प्रलीयन्ते ऽस्मिन्न् इति प्रलयः13 ।
कथं पुनर् गम्यते समस्तस्य जगतो मूलकारणं ब्रह्म इति ।
श्रुतेः --- सद् एव सौम्येदम् अग्र आसीत् --- इति ।
तदैक्षत स आत्मा --- इति ।
सदात्मशब्दाभ्याअं परामर्शाच् चेतनं14 कारणं निश्चीयते ।
न ह्य् अनुमानेन15 केवलेनात्यन्तातीन्द्रियं जगत्कारणं कश्चित्
समर्थयितुं शक्तः । असिद्धानैकान्तिकविरुद्धदोषदुष्टत्वात्16 ।
नोतेस्:
1. ^भ्रूताङ्कृति... ---व
2. जीवत्वप्रप्तां ---व
3. भोक्तुरूपे^ ---व
4. प्रकृत्या इदं ---व
5. ... प्रविष्ट ---व।ल
6. श्रुतिर्जविनात्मना^ ---व
7. इत्याह ॥ 5 ---ल।व
8. एत द्वे ---व
9. ^भोक्तूरूपेणावतिष्टते ---व
10. मूतानि ---व
11. सत्सम्बन्धिन्यौ ---व
12. प्रभवज्यस्मादिति ---व
13. प्रालीयते ---व
14. स आत्मेङ्कृत्यात्मशब्दाभ्यां परामशेश्चेतनं ---व
15. मह्यनुमानेन ---व
16. कश्चित्समर्थ ... दुष्टत्वात् अंशोयं नास्ति ---वकोषे
प्. 169
तत्र साङ्ख्याः प्रधानं जगत्कारणं वर्णयन्ति ।
नैयायिकवैशेषिकाः परमाणून् ।
तत्र वादिनः परस्परविरुद्धं जल्पन्तो नाद्याप्य् अन्तं गताः1 ।
श्रुतिविरोधाच् चानुमानम् आभासीभवति ।
यत् पुनर् अनुमानं श्रुत्यनुसारि तदनुग्राहकत्वेनोपन्यस्यते
तदाश्रीयते । येन सर्वज्ञः सर्वशक्तिश् चेतनो जगत्कर्ता साध्यते ।
तार्किकानुमानेन2 तु यस्य यत्र कर्तृत्वं तत्परिज्ञानवतस्
तच्छक्तियुक्तस्य3 कर्तृत्वोपपत्तेः । रथप्रासादादिकर्तृवद् इति4 ।
अनेन5 चासर्वज्ञस्यासर्वशक्तेर् अनीश्वरस्य6 सिद्धेः
प्रकृतवस्त्वसिद्धेर्
अनाश्रयणम् इति ॥ 6 ॥
यत एवम्7 ---
(मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय ।
मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव

7.8

)
मत्त इति । मत्तः परतरं नान्यद् अहम् एव सर्वस्माज् जगतः परतरो
मूलकारणत्वात् । कथं पुनर् अस्य कारणत्वम् । शक्तिपरिणामात् ।
तथा च श्रुतिः8 --- तदात्मानं स्वयम् अकुरुत ---
यथोर्णनाभिः9 सृजते गृह्णते10 च ।
11अप्रच्युतस्वरूपस्याप्य् अचिन्त्यशक्तित्वात् परिणामो भवतीति ।
यथाकाशो12 वायुरूपेण परिणमते न स्वरूपविनाशो वायोश् च
पञ्चवृत्तिरूपेणाध्यात्मम्13 ।
नोतेस्:
1. जगत्कारण वर्णयन्ति । नैय्यायिकवैषिकाः
परमांणूस्तत्रवादिनं कश्चित् समार्थयितु शक्तो
सिद्धानैकान्तिकविरुद्रदोषदुष्टत्वात्तत्र
साङ्ख्यः प्रधानं जगत्कारणं परस्परविरुद्धं
जल्पन्तोनाद्याप्यन्तं गताः ---व
2. चतनो ... तार्किकानुमनिन ---व
3. ... स्तछक्तिस्य ---व
4. ... प्रसाद^ ---व
5. ... वादिज्यनेन ---व
6. ... सर्वशक्तोरनीश्वर^ ---व
7. यत एव ---ल
8. ... परिणाम तथा च श्रुति ---व
9. यथोर्णनाभः ---ल
यथो नाभः ---व
10. गृह्णते ---व
11. चाप्रत्त्युतस्वरूप^ ---व
12. षथाकाशो ---व
13. ... विनोशो वायोश्च पश्चवृत्तिरूपेणाध्यात्म^ ---व
प्. 170
यथा च तन्तुभ्यः1 पटो जायते तन्तुस्वरूपप्रच्युतिः2 ।
विचित्रशक्तयो हि भावाः । तथा चोक्तं पुराणे ---
अचिन्त्याः खलु ये भावा न तांस् तर्केण साधयेत् ।
प्रकृतिभ्यः3 परं यत् तु तद् अचिन्त्यस्य4 लक्षणम् ॥ इति ।
तथा च मन्त्रः ---
न तस्य कार्यं करणं च विद्यते
न5 तत्समश् चाभ्यधिकश् च विद्यते ।
परास्य शक्तिर् विविधैव6 श्रूयते
स्वाभाविकी7 ज्ञानबलक्रिया च ॥ इति ।
मयि कारणे सर्वम् इदं कार्यं प्रोक्तं ग्रथितम् अनुस्यूतम् इत्य्
अर्थः ।
यथा कार्पाससूत्रे8 मणिगणा यथा च मृदि शरावादय इति ॥
ममैताः शक्तयो या अबादिषु रसादिरूपा जगतः संस्थितिहेतवस्
ता
दर्शयति9 ---
(रसो ऽहम् अप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु

7.9

)
रस इति10 । रसः सारो येन शरीरपुष्टिर् भवति11 । इह प्रकरणे
जगत्स्थितिहेतूनां12 सङ्कीर्तनम् । विभूतिप्रकरणे तु
कारणम् अकारणं वा यद् उत्कृष्टं13 सत्त्वं तदुपदिश्यते ।
चिन्तनीयं यद् उत्कृष्टं सत्त्वं तद् उपदिश्यते14 ।
चिन्तनीयत्वेनेत्य् अपुनरुक्तता15 । मे
नोतेस्:
1. ततुभ्यः ---व
2. जायते तु स्वरूपप्रत्युति ---व
3. अचित्या ... साधयेर्थप्रकृतिमभ्यः ---व
4. परं यत्तदचिन्त्यस्य ---व
5. न मत्समश्च ---व
6. विविधं व ---व
7. स्वाभाविकौ ---व
8. कार्पस^ ---व।ल
9. हेतवंस्थादर्शषति ---व
10. रस इति ---व
11. रसासारं येन शरीरयुष्टिर्भवति ---व
12. तगत्स्थिति^ ---व
13. युदुत्कृष्ट ---व
14. तदुपदिश्यर्ते ---व
15. ... त्वेनेत्युपुनदुक्तता ---व
प्. 171
रसरूपप्रोता आप इति केचिद् योजयन्ति । तद् असत् ।
यथाश्रुतान्वयभङ्गप्रसङ्गात् । स्थितिनिमित्तानां च धर्माणाम्
इह
वक्तुम् इष्टत्वात् ।
प्रभास्मि । प्रकाशः शक्तिः । प्रणव ओङ्कारः ।
सो ऽपि ध्यानजपादाव् उपयोगाद् उत्कर्षहेतुः । शब्दो ऽस्म्य् आकाशे2 ।
शब्देन हि3 सर्वलोकव्यवहारः प्रवर्तते । पुरुषस्येदं पौरुषं
पुंस्त्वं प्रजननकारणम् ॥ 8 ॥
(पुण्यं पृथिव्यां गन्धो ऽस्मि तेजश् चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश् चास्मि तपस्विषु

7.10

)
किं च ---
(बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम्

7.11

)
बीजम् इति । बीजं मूलकारणं मां विद्धि जानीहि । सनातनं
नित्यम् । बुद्धिर् अस्मि बुद्धिमतां8 बृहस्पतिभार्गवादीनाम्9 ।
तेजः प्रभावो ऽस्मि तेजस्विनां10 राज्ञाम् ॥ 10 ॥
(बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामो ऽस्मि भरतर्षभ

7.12

)
बलम् इति । बलं बलवतां11 चाहम् । तद् विशिनष्टि ---
कामरागविवर्जितम् । कामेन रागेण च रहितम् । तत्समुत्थं12
तु यद् बलं
नोतेस्:
1. ध्याननयादावुप^ ---व
2. शब्दौस्स्याकाशे ---व
3. शब्दे सर्वनहि ---व
4. प्रजनकारणं ---व।ल
5. गधः ---व
6. पुराषहेतुत्वात् ---व
7. हिरण्यरेतासि ---व
8. बुद्धिवतां ---व।ल
9. ... तिर्भार्गवादीनां ---व
10. तेजास्विनां ---व
11. वलवता ---व
12. तत्समुत्पं ---व
प्. 172
प्रत्यवायनिमित्तम् । स्वाभाविकं तु यद् बलं तद् उत्कर्षकारणम् ।
यथा वैनतेयादीनाम् । धर्मेणाविरुद्धः1 कामो भूतेषु सो ऽहम्
अस्मि
यथा स्वदारेषु ॥ 11 ॥
किं च ---
(ये चैव सात्त्विका भावास् तामसा राजसाश् च ये ।
मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि

7.13

)
ये चैव सात्त्विका भावा इति । सत्त्वनिवृत्ताः । सात्त्विका
देवादयो राजसा असुरा मनुष्याश् च2 तामसाः सर्पादयो3 मत्त
एव इति तान् विद्धि । न त्व् अहं तेषु । नाहं जनाश्रितः । ते तु
पुनर् मयि वर्तन्ते4 । मदधीनवृत्तय इत्य् अर्थः ॥ 12 ॥
अथेदानीं5 गुणानां स्वभावः कश्चिद् कथ्यते ---
(त्रिभिर् गुणमयैर् भावैर् एभिः सर्वम् इदं जगत् ।
मोहितं नाबिजानाति माम् एभ्यः परम् अव्ययम्

7.14

)
त्रिभिर् इति । त्रिभिर् गुणमयैर् भावैः6 कृत्स्नम् इदं जगन् मोहितम् ।
नाभिजानाति माम् एभ्यो गुणेभ्यः परम् अव्ययं व्ययरहितम् ॥ 13 ॥
त्रिभिर् एतैर् गुणैर् मोहितस्य संसारकान्तारोत्तारो नास्तीत्य् आह ---
(दैवी ह्य् एषा गुणमयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते

7.15

)
दैवीति । देवस्येयं दैवी7 । हिशब्दो हेतौ । यस्य देवस्य मम माया
निर्मीयते न (मायाविकाः)8 । न जातम् इति प्रकृतिर्
नोतेस्:
1. तदुत्कर्षकानष्टिकामरागाविरणंयथावैननेयादीनां
धर्मेणाविरुद्ध्य ---ल॥व
धर्मेण विरुद्धा ---ल
2. मानुषाश्च ---व
3. तामसाः यदियो ---व
4. वर्तते ---व
5. अथेदांर्न ---व
6. गुणमयेर्भावैः ---
7. देवी ---व
8. निमीयते ---व
9. न याविका ---ल
प्. 173
ईश्वराद् उत्पन्ना मायोच्यते । श्रुतिश् च निर्वक्ति1 --- मायां तु
प्रकृतिं
विद्यान् मायिनं तु महेश्वरम् --- इति ।
न साङ्ख्यानाम् इव नित्या । यत्र मायाशब्दः प्रज्ञावचनः
प्रयुज्यते
तत्रेयं व्युत्पत्तिः ।
मीयते परिच्छिद्यते2 प्रमेयो ऽर्थ इति प्रज्ञा माया । यथा ---
इन्द्रो मायाभिः पुरुरूप ईयते4 --- अतीन्द्रियप्रज्ञाभिर् इत्य् अर्थः ।
दुरत्यया दुःखेनात्ययो ऽतिक्रमो ऽस्या इति दुरत्यया । यद्य् एवं
शास्त्रोपदेशानर्थक्यम् । नेति ब्रूमः । माम् एव ये प्रपद्यन्ते ते
मायां
तरन्तीति न दोषः ॥ 14 ॥
ननु ये प्रपद्यन्त5 इति विशेषणम् अनर्थकम् । नेत्य् उच्यते । अर्थवद् एव
(तत् ।) कथम् ---
(न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावम् आश्रिताः

7.16

)
न माम् इति6 । माययानन्तरोक्तया प्रकृत्यापहृतज्ञाना आसुरं
भावं शाट्यानृतादिलक्षणम् आश्रिताः ॥ 15 ॥
के पुनस् ते ये त्वां प्रपद्यन्ते7 ---
(चतुर्विधा भजन्ते मां जनाः सुकृतिनो ऽर्जुन ।
आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ

7.17

)
चतुर्विधा इति । चतुर्विधाश् चतुष्प्रकाराधिकारिणो8 मां
भजन्ते । आर्तो व्यसनापन्नः । जिज्ञासुः परमेश्वरसम्बोधने
यतमानः । अर्थार्थी द्रव्याकाङ्क्षी । ज्ञानी ब्रह्मवित् ॥ 16 ॥
नोतेस्:
1. निर्वभक्ति ---व
2. मेयते परिछिद्यते ---व
3. इन्द्रमाभिः ---ल
4. पुरुषरूपदेयते ---व
5. प्रद्यं त इति ---व
6. न स्ममिति ---व
7. प्रतिपद्यन्ते ---व
प्रतिपद्यन्ते ---ल
8. अत्र वकोषस्य समाप्तिः
प्. 174
किं च सर्वे तुल्याः । किञ् चैषां कश्चिद् अधिक इति पृच्छायां
प्राप्तायाम् आह ---
(तेषां ज्ञानी नित्ययुक्त एकभक्तिर् विशिष्यते ।
प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः

7.18

)
(तेषां इति ।) तेषां ज्ञानी नित्ययुक्तः । निर्धारणे षष्ठी ।
नित्ययुक्तः सतताभ्यासी । मय्य् एकस्मिन् भक्तिर् यस्यासाव् एकभक्तिः1
।
स विशिष्यते । प्रियो हि ज्ञानिनो ऽत्यर्थम् । विश्वस्य जगतो ऽन्तरात्मा
परमात्मा ।
ममापि चायम् एवात्मेति मन्यमानो नैसर्गिकस्नेहप्रतिबद्धबुद्धिर्
अतितरां भूयो भूयो ऽनुरज्यते ।
स च मम प्रिय इति ॥ 17 ॥
यद्य् अपि रागद्वेषाव् ईश्वरस्य न स्तः ।
तथापि शास्त्रार्थयाथात्म्यवेदित्वाद् ऐकात्म्यप्राप्तेः प्रिय इत्य्
उच्यते । इतरेभ्य आर्तादयः2
परमेश्वरम् आश्रयन्तो ऽन्येभ्यो महाकालभक्तेभ्यः प्रकृष्टतरा इति
दर्शयितुम् आह ---
(उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतः ।
आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम्

7.19

)
उदारा इति । उदाराः सर्व एवैते उत्कृष्टाः । ज्ञानी तु
निरुपचारम् आत्मैव मे मतः । कथम् । आस्थितः स हि युक्तात्मा
माम् एवानुत्तमां गतिम् । न विद्यते ऽन्योत्तमा यस्या गतेस् ताम्
अनुत्तमाम् ॥ 18 ॥
किम् एकस्मिन्न् एव जन्मनि ज्ञानीत्थं3 त्वा त्वां भजते4
नोतेस्:
1. ^भक्तिर्यस्यासावेकभक्तिर्यस्यासावेकभक्तिः
2. इहेरेभ्य आर्तादयोः
3. ज्ञानीत्य
4. भजन्ते
प्. 175
किं वानेकस्मिन्न् इति । यद्य् एकस्मिन्न् एव तदार्तादीनाम् अपि
ज्ञानित्वप्रसङ्गः । तत्र तारतम्यं नोपपद्यत इति परमतम्
आशङ्क्याह ---
(बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते ।
वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः

7.20

)
बहूनाम् इति । यत एते आर्तादयः तेषाम् अपि भगवति
जन्मान्तरवासनास्ति ।
यतो नारायणम् एव ते भजन्ते नान्यां देवताम् ।
ज्ञानी पुनर् एकभक्तिः प्रयोजनान्तरनिरपेक्षः
सन्न्यासकर्मयोगाभ्यां सम्पन्नो बहूनां जन्मनाम् अन्ते मां
प्रपद्यते ।
कथं प्रपद्यते । वासुदेवः सर्वम् इति । वसन्ति तस्मिन् सर्वभूतानि
।
वसति वान्तर्यामि(त्वे)न सर्वभूतेष्व् इति वासुः ।
देवनाद् द्योतनाद् देवः । वासुश् चासौ देवश् चेति वासुदेवः परमात्मा
।
आत्मैवेदं सर्वम् ---
सद् एव सौम्येदम् अग्र आसीत् --- इदं सर्वं यद् अयम् आत्मा -- इति
श्रुतेः ।
कारणात्मना प्रपञ्चात्मना चावस्थित इति प्रतिपद्यते । स महात्मा
सुदुर्लभः । सन्ति हि द्वैतदर्शिनो ऽपि भक्ताः ॥ 19 ॥
कस्मात् पुनश् चतुर्विधा एव1 भजन्ते न सर्वे ---
(कामैस् तैस् तैर् हृतज्ञानाः प्रपद्यन्ते ऽन्यदेवताः ।
तं तं नियमम् आश्रित्य प्रकृत्या नियताः स्वया

7.21

)
कामैर् इति । कामैस् तैः पुत्रपश्वादिभिर् हृतज्ञानाः ।
रुद्रादित्यदुर्गागाणपतिप्रभृतयो (या) अन्या देवताः (ताः) ये
भजन्ते (तं) तम् उपवासादिनियमम् आश्रित्य प्रकृत्या
पूर्वजन्मवासनया स्वया नियताः । देवतान्तरभक्तानां च
तद्वासितचेतसां च ततो निवृत्तिर् नास्ति ॥ 20 ॥
नोतेस्:
1. एवं
प्. 176
कथम्1 ---
(यो यो यां यां तनुं भक्तः श्रद्दयार्चितुम् इच्छति ।
तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम्

7.22

)
य इति । यो यो यां यां तनुं भक्तः । तनुं देवतामूर्तिम्
इत्य् अर्थः । तस्य तस्याचलां दृढां श्रद्धां ताम् एव
विदधाम्य् अहम् ।
तत्कर्मानुसारेण । कर्मैव फलोत्पत्तौ निमित्तम् । ईश्वरस् तु
कर्मानुविधायी नियन्तृत्वेनावतिष्ठते ॥ 21 ॥
(स तया श्रद्धया युक्तस् तस्याराधनम् ईहते ।
लभते च ततः कामान् मयैव विहितान् हि तान्

7.23

)
स इति । स तया श्रद्धया युक्तस् तस्य देवताविशेषस्याराधनं
पूजनम् ईहते चेष्टते निर्वर्तयति ततो लभते च
कामान् अभिप्रेतार्थान् मयैव विहितांस् तान् । हिशब्दो हेतौ ।
यस्माद् ईश्वरः सर्वत्र फलदाता कर्मानुरूपेण । तथा
(च) श्रुतिः --- एष सर्वेश्वर एष भूताधिपतिर् एष भूतपाल
एषां लोकानाम् असम्भेदाय --- इति ।
रहसि कृतानां प्रकाशकृतानां च कर्मणां
फलपरिपाकविभागज्ञो हि सः ॥ 22 ॥
देवतान्तरोपासनात् फलं चेल् लभेत तद् अप्य् अस्तु । को दोष
इति चेद् आह ---
(अन्तवत् तु फलं तेषां तद् भवत्य् अल्पमेधसाम् ।
देवान् देवयजो यान्ति मद्भक्ताः शाश्वतं पदम्

7.24

)
अन्तेति । देवान् देवयजो यान्ति प्राप्नुवन्ति । मद्भक्ताः
शास्वतं पदम् ॥ 23 ॥
नोतेस्:
1. कथम् 20
2. तनुदेवता
प्. 177
किं पुनः कारणम् । केचिद् देवतान्तरं भजन्ते न त्वाम् इति तद्
उच्यते ---
(अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः ।
परं भावम् अजानन्तो ममाव्ययम् अनुत्तमम्

7.25

)
अव्यक्तम् इति । स्वभावतो ऽव्यक्तम् अतिसूक्ष्मं सन्तं व्यक्तिं
प्रकटभावम् आपन्नं मन्यन्ते माम् अबुद्धयो ऽल्पबुद्धयः ।
अयम् अपि नारायणाख्यो विष्णुर् महादेवादिवद् देवताविशेष एव
नात्राधिक्यं किञ्चिद् अस्तीति ।
परं भावम् अजानन्तः समस्तस्य जगतो मूलकारणम् ईश्वराणां
ब्रह्मरुद्रेन्द्रादीनाम् अप्य् अधीश्वरो ऽयम् इत्य् अजानन्तो न मां
भजन्ते ॥ 24 ॥
कस्यचिद् एवाहम् अनेकस्मिन् जन्मनि भक्तिम् उद्वहतः स्वरूपं
विवृणोमि न सर्वस्य ---
(नाहं प्रकाशः सर्वस्य योगम् आयासम् आवृतः ।
मूढो ऽयं नाभिजानाति लोको माम् अजम् अव्ययम्

7.26

)
नाहम् इति । नाहं प्रकाशः सर्वस्य । कथम् । योगमायया
सञ्च्छन्न ऐश्वर्ययोगः स एव । मायासंवरणहेतुत्वात् ।
तस्मान् मूढो ऽयं नाभिजानाति माम् अजम् अव्ययम् ॥ 25 ॥
अहं तु सर्वज्ञः कथम् ---
(वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्यन्ति च भूतानि मां तु वेद न कश्चन

7.27

)
वेदेति । वेदाहं त्रिकालविषयाणि भूतानि जानामि ।
मां तु वेद न कश्चन । अयं मूढो लोक इति । यः पुनर्
ज्ञानी स जानाति वासुदेवः सर्वम् इति ॥ 26 ॥
प्. 178
केनायं लोको मूढत्वम् आपन्नस् तद् उच्यते ---
(इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि सम्मोहं यान्ति सर्गे परन्तप

7.28

)
इच्छेति । इच्छा रागः । रागद्वेषसमुत्थेन द्वन्द्वमोहेन ।
(द्वन्द्वानि) शीतोष्णसुखदुःखादीनि तत्सम्बन्धो मोहो द्वन्द्वमोहः ।
उपकारिषु परार्थेषु रागात् सुखं तत्सम्बन्धी मोहस् तन्निबन्धना
च प्रवृत्तिर् अपकारिषु द्वेषो दुःखं तन्निबन्धना च निवृत्तिर् इति ।
एवं प्रवृत्तिनिबद्धानि भूतानि सर्गे शरीरग्रहणेषु सम्मोहं
यान्ति । यदि पुनर् द्वन्द्वशब्देन रागद्वेषयोः परामर्शः क्रियते
तदा1
द्वन्द्वग्रहणम् अनर्थकम् इच्छाद्वेषसमुत्थेन मोहेनेत्य् एतावद्
वक्तव्यं
स्यात् ॥ 27 ॥2
तत्र तु ---
(येषां त्व् अन्तं गतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः

7.29

)
येषाम् इति । येषां त्व् अन्तं गतं पापं क्षीणं पापं3
पुण्यकर्मोपचयात् ते रागद्वेषसमुत्थद्वन्द्वमोहविनिर्मुक्ता
भजन्ते मां दृढव्रताः ॥ 28 ॥
एवम् ---
(जरामरणमोक्षाय माम् आश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृच्छ्रम् अध्यात्मं कर्म चाखिलम्

7.30

)
(जरेति) । ये जरामरणमोक्षाय माम् आश्रित्य यतन्ति प्रयतन्ते ते
ब्रह्म तद्विदुः । कृच्छ्रम् अध्यात्मं कर्म चाखिलम् ।
वस्तुत्रयम् एतद् अर्जुनप्रश्नाद् अनन्तरम् उत्तरं वक्ष्यामः ॥ 29 ॥
नोतेस्:
1. यदा
2. स्यात्तत्र तु ॥ 27 ॥
3. क्षीणपापं
प्. 179
अपरम् अपि वस्तुचतुष्टयम् ---
(साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकाले ऽपि च मां ते विदुर् युक्तचेतसः

मूल पाठ: Bhagavadāśayānusaraṇabhāsya · Edition: D. Subhadropadhyaya, Varanasi, 1965 (Sarasvati Bhavana Granthamala, 94) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc