भगवदाशयानुसरणभास्य · अध्याय 6
)
भोक्तारम् इति । यज्ञानां तपसां च फलम् । तस्य भोक्ता ।
भोक्तैः समर्पितानि6 फलानि7 दृष्ट्वा तृष्यति8 तुष्यतीत्य् अर्थः
।
न पुनस् तस्याप्तकामस्यान्यादृशो9 भोगो ऽस्ति यथा निवेद्य समर्पणे10
देवता प्रीयते । सर्वेषां लोकानां महान्तरम् ईश्वरम् ।
(सुहृदं) प्रत्युपकारानपेक्षयो ऽपकारिणं ज्ञात्वा मां11
शान्तिं मोक्षम् ऋच्छति
नोतेस्:
1. म्रुवोरन्तरे ---व
2. 28 व।ल
3. विचारणाः ---व
4. 29 व।ल
5. दर्शयितव्य इत्याह व्यं ज्ञात्वा मुच्यते ---व
दर्शीयतव्य इत्याह यं ज्ञात्वा मुच्यते ---ल
6. समर्यितानि ---व
7. फलान्नि ---व
8. तप्यति ---व
9. ^न्यादशो ---व
10. समर्पणो ---व
11. सा ---व
प्. 153
गच्छति । देहसम्बन्धाभिमानशून्यस्य सुब्रह्मरूपेणावस्थितस्य1
भगवतो वचनम् । ऋषीणाम् अपीमानि2 वचनानि परमार्थे
सत्ये ऽवस्थितानाम् । यथा --- तद् वै तथा पश्यन्न् ऋषिर् वामदेवः3
प्रतिपेदे ---
अहं मनुर् अभवं सूर्यश् च --- इति । अत एव सर्वकर्माणि मनसा
इत्य् उपपन्नम् ॥ 29 ॥ 4
(इति श्री)भगवद्भास्करकृते5 गीताभाष्ये पञ्चमो ऽध्यायः ॥
नोतेस्:
1. शूव्यस्य सुब्रह्मरूपेवस्थितस्य ---व
2. ^मृषीणानवीशानि ---व
3. तद्वे तथा पश्यु ऋषिर्वा^ ---व
तद्धैतत्पश्यन् ऋषिवमिदेव इति पाठान्तरम्
4. 30 व।ल
5. भगवद्भारकरकृते ---व
6. पञ्चमोध्यायः ॥ 5 ॥ ---ल
प्. 154
अथ षष्ठो ऽध्यायः ।
अनन्तरातीते ग्रन्थे केवलज्ञानसङ्कीर्तनात् तावन्मात्राद् एव
मुक्तिः स्याद् अतः कर्मत्यागः कर्तव्य इति
साङ्ख्यदर्शनाकुलितचेतसः1
सौकर्याच् च2 मुमुक्षोर् बुद्धिः स्यात् तां निराकर्तुम् आह ---
श्रीभगवान् उवाच ---
(अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स सन्न्यासी स योगी च न निरग्निर् न चाक्रियः
)
अनाश्रित इति । अनाश्रितः कर्मफलाभिसन्धिवर्जितः कार्यं नित्यं
कर्म स्वाश्रयम् अविहितं3 करोति यः स सन्न्यासी4 स योगी च ।
स सन्न्यासी --- मयि सर्वाणि कर्माणि --- इत्य् उक्तलक्षणो5
योगी च --- ब्रह्मार्पणम् --- इति । न निरग्निर् निरस्ताग्निः ।
अक्रियस् त्यक्तकर्मा । नैवंविधः6 सन्न्यासी योगी च यः7 ।
(इ)ह विद्यया सह सम्बन्धो नकर्तुः8 । साङ्ख्यानां प्रसिद्धस्
त्यक्तकर्मा चतुर्थाश्रमी सो ऽत्र प्रतिषिध्यते । यो हि बुद्धिपूर्वं9
कर्तव्यं न करोति नासाव् आश्रामी ।
प्रायश्चित्ती हि सः । तेन सह विद्यया10 सह सम्बन्धो न कर्तव्यः ।
अत्रैकवेणुपाणयः कर्मत्यागिनं मूर्ध्नि11 पदं निहितम् उपलभ्य
नोतेस्:
1. दर्शनाक्रुलितचेतसः ---व
2. सौकार्याश्च ---व
3. स्वाश्रमाविहितं ---व
4. सभ्यासी ---व
5. ^कल्षण ---व
6. नेवं विधः ---व
7. यो च य ---व
8. यो (इ)ह विध(य) ... कर्तुः अंशोयं ---लकोषे नास्ति
यः ह विद्या सह सम्बन्धो न कर्तु इति ---वकोषे पाठः
9. ^पूर्व ---व
10. विद्या सह ---व
11. मूध्नि ---व
प्. 155
तद् अन्यथा कर्तुं प्रयतमाना बह्वसम्बद्धं गर्जन्ति1 । गृहस्थस्य
स्तुत्यर्थं सन्न्यासित्वं योगित्वं चोच्यते2 । न पुनर् निरग्नेर् अक्रियस्य
च निराकरणं क्रियत इति । तद् असत् । अन्यनिराकरणपरत्वाद् अस्य
वाक्यस्य । नित्यं3 कर्म कुर्वतः सन्न्यासित्वं योगित्वं च5 ।
पूर्वैर् एव च वचनैः6 प्राप्तस्य निरग्नेर् अक्रियस्य (च)
प्रतिषेधार्थं7 नान्यो ऽस्य वाक्यस्यार्थो ऽस्ति । यथा ---
सङ्क्षेपा(प)विस्तराव् एतौ ज्ञात्वा च पारमार्थिकौ ।
अजस्रम् आस्ते तच् चित्तः8 स परं याति नेतरः ॥ इति ।
यथा चाब्रुवन् पूर्वे वेदपारगाः9 ---
स धर्म इति विज्ञायते (यो) नेतरेषां सहस्रशः ।
इत्य् उक्तवेदपारगप्रतिषेधो ऽ(व)गम्यते । न च स्तुतिर् एकस्माद् अत्र
वक्तव्या । कर्मयोगित्वं10 गृहस्थादीनां यथाश्रुतम् एवास्ति ।
तत्र11 सन्न्यासित्वं नाम यदि12 कर्मत्यागित्वम् उच्यते ततो निन्दा स्यान्
न तु स्तुतिः । अथ फलत्यागित्वं तद् अप्य् अस्त्य् एव13 ।
किं तत्र स्तुतिकल्पनया । पूर्वत्र14 बहुशः फलसङ्कल्परहितत्वम्
उपदिष्टम् --- मा15 फलेषु --- त्यक्त्वा कर्मफलासङ्गम् इति ।
यस्य हि भगवान् प्रमाणभूतस् तदुक्तत्वाद् एव प्रतिपद्यते ।
किं स्तुत्या । अथ (अ)प्रमाणं तथा स्तुतिर् अपि व्यर्था ।
न चात्र स्तुतिपरत्वं वाक्यस्य प्रतीयते16
नोतेस्:
1. ^जागत्ति ---ल
वद्वसंवद्धं जागति ---व
2. योगिचोच्यते ---व
3. नित्वं ---व
4. साअसिन्वं ---व
5. चः ---ल।व
6. पूर्वेस्वेवचनैः ---व
7. निरग्नियप्रतिषेधार्थं ---व
निरग्नियप्रतिषेधार्थं ---ल
8. तश्चित्तः ---व
9. च य व्रू पूर्वेदपारगाः ---व
10. अस्ति यथा ... कर्मयोगित्वं अशोत्वम् ---लकोषे नास्ति
11. ^स्तित्र ---व
12. सन्न्या इति ---व
13. तदन्यस्त्यव ---व
14. पूर्व ---व
15. ^रहित्वमुयदिष्टमा ---व
16. प्रतीर्वत ---
प्. 156
यथाभूतार्थप्रतिपादकत्वाच् छास्त्रस्य । तस्माद् बालैः1
स्वचेष्टितं विहाय2 भगवद् उपदिष्टेन महामहामार्गेण गन्तव्यम्
।
यो हि स्वात्मानं वञ्चयित्वा कष्टां गतिं3 प्रापयति नासौ
परेषां
हितायोपदिशति । तथा चोक्तम् ---
आत्मानं यो ऽभिसन्धत्ते4 परेषां स हितः कथम् । इति ।
ननु सन्न्यासी स योगी च --- इत्य् एकः पुरुषः5 कथम् उच्यते ।
विरोधात् । यदि सन्न्यासो6 कथं कर्मयोगी7 । सन्न्यासित्वं8
योगित्वं च (न) युगपद् सम्भवति । किं च --- निरग्निर् अक्रियश् च
सन्न्यासी प्रसिद्धः । क्रियावान् कर्मयोगी । तस्माद् अन्यः सन्न्यासी ।
कर्मयोगी चान्य इति पराभिप्रायम् आशङ्क्याविरोधं दर्शयति ---
(यं सन्न्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव ।
न ह्य् असन्न्यस्तसङ्कल्पो योगी भवति कश्चन
)
यम् इति । सन्न्यासम् इति9 यौगिको ऽत्र सन्न्यासशब्दो मया प्रयुक्तः ।
परमात्मनि कृतानां कर्मणां सम्यक् त्यागो10 निःक्षेपः
समर्पणं सन्न्यासः11 । सर्वसर्वाश्रमाणाम् अविशिष्टो न
रूढिशब्दः प्रयुक्तः12 । यथा वैद्यशब्दश् चिकित्सके रूढो यौगिकस्
तु
सर्वत्र वर्तते । विद्यायां भवो वैद्य इति यो यो विद्यावान्
स सर्वो ऽभिधीयते ।
नोतेस्:
1. प्रतिपादत्वाच्छास्त्रस्य वालः ---ल
वाह्यः ---व
2. धिहाय ---व
3. वचपित्वा कष्टां गति ---व
4. योतिसत्वत्ते ---व
5. ननु च सन्न्यासी योगी चेत्येकः पुरुषः ---व
6. विरोधातिसन्न्यासी ---व
7. कमं योगी ---व
8. सन्न्यासिखं ---व
9. सव्यासमिति ---व
10. सम्यक्त्यायोः ---व
11. सन्न्यासः सर्व सर्व अमाणाम^
12. प्रयुक्तेः ---व
प्रयुक्तेःषष्ठाध्यायस्यायम् । ततः 65 तमपृष्ठस्य
समाप्तिः । 66 तमपृष्ठस्य प्रारम्भस्तु सन्न्यासमित्यादि अनेन ।
सन्न्यासमित्यादि
तु 26 तमश्लोकस्थभाष्यस्य । अवस्थेयं ---वकोषस्य ।
प्रयुक्तो यथा ---ल
प्. 157
यद् उक्तं ---(सन्न्यासित्वं योगित्वं च) युगपन् न सम्भवति ---
इति । नासौ दोषो हेतुसद्भावात् । तद् आह --- न ह्य् असन्न्यस्तसङ्कल्पो
निःक्षिप्तः कर्मसङ्कल्पो येनासौ सन्न्यस्तसङ्कल्पः ।
तद्विपरीतो न योगी भवति कश्चन ।
अनेकजन्मप्रवृत्तभेदविज्ञानवासितचेतसां न सहसाभेदविज्ञानम्
उपपद्यते । अहं ब्रह्मास्मि ---
इति । तस्मात् सर्वमा ..... क्त(?) यस् तत्प्रसादाद् अद्वैतज्ञानं
प्रतिपद्यते । तस्माद् एतद् वै पुरुषस्यावस्थाभेदमात्रं फलम् ।
पुनर् एकम् एव म ... क्तिर् इत्य् अभिप्रेत्योक्तम् --- यं सन्न्यासम् इत्यादि1
प्रशान्तमनसम् इति पर्यन्तं (सन्न्यासम् --- इत्यादि --- प्रशान्तमनसम्
---इति पर्यन्तं) ये प्राणिनः (उक्ताः) सन्ति तान् आत्मवशं2 कुर्याद्
इत्य् अर्थः ॥ 26 ॥
यदि योगसुखं स्यात् ततो विषयसुखपरित्यागो युज्यते ।
अन्यथा को नाम परित्यजेद् इत्य् आह ---
(प्रशान्तमनसं ह्य् एनं योगिनं सुखम् उत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम्
)
प्रशान्तेति । प्रशान्तमनसं ह्य् एनं यस्माद् योगिनम् उत्तमं
विषयसुखाद् उपैति3 । शान्तरजसं रजोविषयेषु प्रवृत्तिर्
ब्रह्मभूतम् --- भू प्राप्ताव् आत्मनेपदीति स्मरणाद् भूतशब्दः
प्राप्त्यर्थः । ब्रह्मप्राप्तम् अकल्मषम्4 ॥ 27 ॥
नोतेस्:
1. यं स अस्मत्परं ---लकोषे रिक्तं स्थानम् । परपत्रारम्भस्तु
आत्मवशे कुर्यादित्य् अर्थः अनेन ।
2. ^मित्यादिप्रशातमनसिमित्यापर्यन्त य आणिन सन्ति दात्मवाशं
---व
3. विषयसुस्वादुपेति ---व
4. प्रत्प्यर्थी ब्रह्मप्रात्यमकल्पषत् ---व
प्. 158
प्रकरणर्थोपसंहारार्थः श्लोकः ---
(एवं युञ्जन् सदात्मानं योगी विगतकल्मषः ।
मुखेन ब्रह्मसंश्लेषम् अत्यन्तम् उपगच्छति
)
एवम् इति । एवम् उक्तप्रकारेणात्मानं युञ्जन्
यो(गी विगत)समस्तकल्मषः1 सुखेनाक्लेशेन ब्रह्मसंश्लेषनिमित्तम्
अत्यन्तसुखम् अश्नुते ॥ 28 ॥
यदात्यन्तपरिपक्वो योगो भवति तदा कथं पश्यतीत्य् उच्यते ---
सर्वभूतस्थम् आत्मानं सर्वाणि भूतान्य् आत्मनि2 ।
पश्यते योगयुक्तात्मा सर्वत्र समदर्शनः
(सर्वभूतेति ।) अहङ्कारपरिच्छिन्नम्3 अविद्यानिबन्धनम् औपाधिकं
रूपं विहाय सर्वभूतस्थम् आत्मानं सर्वाणि भूतानि ।
आत्मनि परमात्मनि । आत्मपरयोर् अभेदविवक्षया4 निर्देशः ।
पश्यते योगेन युक्त आत्मा यस्यासौ ।
सर्वत्र समदर्शनो ब्रह्मदृष्टिर् इत्य् अर्थः ॥ 29 ॥
सर्वत्र परमात्मानम् ---
(यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति
)
यो माम् इति । यो मां पश्यति6 सर्वत्र तस्याहं न प्रणश्यामि ।
न तिरोभवामि । स च मे न तिरोभवति ।
मत्स्वरूप एवासौ भवतीति ॥ 30 ॥
नोतेस्:
1. ^णात्मानं युञ्जन्यो तु समस्तकल्मषः ---व
2. सर्वभूतानि चात्मनि ---ल
3. आहङ्कारपरिछिन्न^ ---व
4. परमात्मनिरात्मपरयोरभेदविवक्षया ---व
5. 28 व।ल
6. द्यश्यनि ---व
प्. 159
फलकथनम् एतत् क्रियते1 । किं च ---
सर्वभूतस्थितं यो मां भजत्य् एकत्वम् आस्थितः ।
सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते
(सर्वभूतेति) 2सर्वभूतस्थितं यो माम् एकत्वम् आस्थितो
भजते । सर्वथा वर्तमानो ऽपि वा मयि मद्विकारे वाक्प्रपञ्चे3
चेतसा वर्तमानो मय्य् एवासौ च वर्तते । ब्रह्मात्मना दृश्यमानं4
सर्वं ब्रह्मैव सम्पद्यते यथोदकात्मना दृश्यमानः5
फेनतरङ्गादिस् तत्रैवान्तर्भवति तद्वत् ।
अन्ये तु यथेष्टचेष्ठम् अपीति वदन्ति । तद् अयुक्तम् ।
नहीदृशस्य यथेष्टचेष्टता भवति ॥ 31 ॥6
योगिनः सर्वभावेषु मैत्रीभाव7 उपदिश्यते ---
(आत्मौपम्येन सर्वत्र समं पश्यति यो ऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः
)
आत्मौपम्येति8 । उपमाया भाव औपम्यम्9 ।
तेनात्मौपम्येनात्मसादृश्येनेत्य् अर्थः ।
सर्वत्र भूतेषु सुखं10 वा पश्यति । समम् ।
यथा मम सुखं प्रियं तथान्येषाम् । यथा मे दुःखम् अप्रियं
तथा परेषाम् इति । स योगी परमो मतः ॥ 32 ॥11
सर्वत्राद्वैतदर्शनलक्षणो योग उक्तः । तस्य12 (ज्ञानम्) असम्भवम्
नोतेस्:
1. कथनमेत क्रियते ---व
2. सर्वभूतास्थित ---व
3. मद्विकारोवाक्यपचे ---व
... वाक्यपञ्चे ---ल
4. दश्यमानं ---व
5. दश्यमान ---व
6. 29 व।ल
7. मैओभाव ---व
8. आत्मौपन्येति ---व
9. भाडौपम्यं ---व
10. सुखं ---व
11. 30 ---व।ल
12. युक्तस्तस्या ---व
प्. 160
अर्जुन उवाच ---
(यो ऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम्
)
यो ऽयम् इति । यो ऽयम् योगस् त्वया प्रोक्तो मनसश् चञ्चलत्वात् स्थिरां
स्थितिं तस्य1 न पश्यामि ॥ 33 ॥1
यस्मात् ---
(चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।
तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम्
)
चञ्चलम् इति3 । चञ्चलं हि मनः कृष्ण4 अतिचञ्चलम् इतस् ततो
धावमानम्5 । प्रमथितुं6 शीलम् अस्येति प्रमाथि । बलवद् वेगवद्
दृढं भेदवासनया घनीकृतम्7 ।
तस्याहं निग्रहं8 निरोधम् आत्मन्य् अवस्थानम् ।
वायोर् इव सुदुष्करं मन्ये ॥ 34 ॥9
भगवान् उवाच10 ---
(असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते
)
(असंशयम् इति) । निग्रहम् अवस्थानम् । असंशयम्11 यथावद् अवसितं
तथा । किं त्व् अभ्यासेन । परमात्मनि पुनः पुनश् चित्तप्रवेशनम्
अभ्यासः । शास्त्रेण सर्वं ब्रह्मेति सामान्येन12 विज्ञाय
हृदयकमलनिलये13 परमात्मानं चिन्तयतश् चित्तं14
दृढभूमिकं15
नोतेस्:
1. स्थिरास्थितिस्तस्य ---व
2. 31 ---व।ल
3. चञ्चलमिति ---व
4. कृस्म ---व
5. अतिचञ्चलमितं धावमानं ---व।ल
6. प्रथमितु ---व
7. धनीधुवं ---व
8. निग्रंह ---व
9. मन्य 32 ---व
..ं जन्ये 32 ---ल
10. भगवानुवाच
11. निग्रहमवस्थानमसंशयमिति ---ल
सर्व ---व
12. साभामेन ---व
13. ददयक्रमल^ ---व
14. चितवश्वित्तं ---व
15. दटभूमिकं ---व
प्. 161
भवति । एवम् अभ्यासेन गृह्यते वैराग्ये(ण च) । न प्रपञ्चविषयं
वैतृष्ण्यं वैराग्यम् । यत्प्रपञ्चविषयफलं1 तत्सर्वम् अशाश्वतम्
इति
दोषदर्शनाद् वैतृष्ण्यम् उत्पद्यते ॥ 35 ॥2
एतावान् इह निश्चयः ---
(असयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्यो ऽवाप्तुम् उपायतः
)
असंयतेति । असंयतात्मना3 अवशीकृत आत्मा मनो यस्य तेन4
योगो दुष्प्रापो न शक्यते प्राप्तुम् । वश्यात्मना तु यतता यत्नं5
कुर्वता
शक्यो ऽवाप्तुम् अनन्तरोक्तोपायेन6 ॥ 36 ॥
यदा तु योगो ऽप्रप्तः केनचिद् दौर्बल्येन7 तदा तस्य का गतिर् इति
प्रष्टुम् उवाच ---
(अयतिः श्रद्धयोपेतो योगाच् चलितमानसः ।
लिप्समानः सतां मार्गं प्रमूढो ब्रह्मणः पथि
अनेकचित्तो विभ्रान्तो मोहस्येव वशं गतः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति
)
अयतिर् इति । अनेकचित्तो9 विभ्रान्तो मोहस्येव वशं गत इति च ।
अयतिर् यत्नरहितः श्रद्धया चोपेतो10 योगाद् योगसकाशाच् चलितमानसो
ऽनिवृत्तमनाः । अप्राप्य योगसंसिद्धिं मुक्त्यभावे11 कां गतिं
कृष्ण गच्छति । नीलोत्पलदलच्छविः12 कृष्णो युगानुरूपवर्णो
वा ॥ 37-38 ॥13
नोतेस्:
1. प्रपञ्च^ ... वैराग्यं यत् --- इति वकोषे नास्ति
2. वितृस्त्यमुत्पद्यते । 33 ---व।ल
3. असंषतेति असंयतात्माना ---व
4. ज्ञेन ---व
5. पत्नं ---व
6. वाप्तु मनररोक्तेनोपायेन 34 ---व
^येन 34 --- ल
7. केनचिदौर्वल्पेन ---व
8. षष्ट उवाच ---व
9. ... चित्तो ---व
10. श्रद्धयाचोयेग्रो ---व
11. मुत्तरभावे ---व
12. ... लदछविः ---व
13. 36 व।ल
प्. 162
प्रश्नम् एव1 सोपपत्तिकं कर्तुम् आह ---
(कच्चिद्2 उभयविभ्रष्टः शारदाभ्रम् इव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि
)
कच्चिद् इति । कच्चिद् इति प्रश्नार्थो निपातितः । उभयस्माद्
भ्रष्टः3 । कर्म तावन् न फलार्थं कृतम् ईश्वरे समर्पितत्वात् ।
न च ज्ञानं मुक्तिसमम् उत्पन्नम्5 । तस्माद् उभयभ्रष्टः ।
किं शारदाभ्रम् इव वृष्टिरहितं नश्यति किं वा नेति । अप्रतिष्ठो
न विद्यते प्रतिष्ठा यस्य । ब्रह्मणः पथि ब्रह्मप्राप्तिमार्गे
विमूढो न(श्यति) ॥ 39 ॥
(एतन् मे संशयं कृष्ण च्छेत्तुम् अर्हस्य् अशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते
)
एतद् इति । एतं मे संशयं कृष्ण च्छेत्तुम् अपनेतुम् अर्हसि ।
कस्मात् । त्वदन्यः संशयस्यास्य च्छेत्ता जगति नोपपद्यते ॥ 40 ॥6
उत्तरं भगवान् उवाच ---
(पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते ।
न हि कल्याणकृत् तातो गच्छति कश्चिद् दुर्गतिम्
)
पार्थेति । हे पार्थ इह लोके परत्र वा (न) तस्य नाशो ऽस्ति ।
कस्मात् । न हि कल्याणकृत् पुण्यकृद् दुर्गतिं कश्चित् तातो गच्छति ।
तनोति पुत्रम् इति यद्य् अपि तातः पितोच्यते तथाप्य् अन्यत्रापि8
दृश्यते पूजार्थम्9 ॥ 41 ॥10
नोतेस्:
1. प्रश्रमेघ ---व
2. कश्चित् ---ल।व
3. भष्टः --- कर्म तावत्रफलांर्थ ---व
4. ... इश्वेरे ---व
5. ... समुत्पत्रं ---व
6. 37 ---व।ल
7. कृदुर्गति ---व
8. तथापि न्यत्रापि^
9. पूजार्थ ---ल
10. 38 ---व।ल
प्. 163
(प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टो ऽभिजायते
अथ वा योगिनाम् एव जायते धीमतां कुले ।
एतद् धि दुर्लभतरं लोके जन्म यदीदृशम्
)
प्राप्येति1 । अथेति च । यद् उक्तवान् फलोद्देशेन2 न कर्म कृतम्
ईश्वरोद्देशेन कृतत्वाद् इति3 । अत एव तस्य पुण्यकृल् लोकप्राप्तिः ।
न हि माम् उद्दिश्य कृतम् अफलाय भवति । भोगायापवर्गाय वा
तत् सम्पद्यते ।
पुण्यकृताम् --- इति विशेषणाद्4 ये त्यक्तकर्माणः5 केवलाज्
ज्ञानान् मुक्तिम् इच्छन्ति तेषां दुर्गतिर् एवेति दर्शयति ।
(नापि) अभिज्ञानस्य भोगः फलं कल्पयितुं शक्यम्
अविद्यानिवृत्तिद्वारेण (तस्य) मुक्त्यर्थत्वात्6 । न च कर्माभावो
भोगहेतुः सर्वेषां प्रसङ्गात् । तद् एतद् भागवतम् उत्तरं
कर्मयोगिनाम् उपपद्यते नान्येषाम् । शाश्वतीः बह्वीः7 समाः
संवत्सरान् शुचीनाम् आचारवतां श्रीमताम् ऐश्वर्यवतां
गेहे जायते । अधिकारतस् तस्यापेक्षया पक्षान्तरम् उच्यते ।
अथवा योगिनाम् एव योगाभ्यासरतानां दरिद्राणां कुले वंशे
जायते ।
धीमताम् उत्पद्यते । धीमताम् एतद् धि दुर्लभतरम् ईदृशं
जन्म ॥ 42-43 ॥8
स तु जातः ---
(तत्र तं बुद्धिसंयोगं लभते पूर्वदैहिकम् ।
ततो भूयो ऽपि यतति संसिद्धौ कुरुनन्दन
)
नोतेस्:
1. माष्येति ---व
2. फलोदेशेन ---व
3. नु कर्मकृतं मीद्यपि तातः पीतोच्यतेतुत्थापि न्यत्रापि
दृश्यश्वरोदेशेन कृतत्वात् ---व
4. मित्यविशेषणात् ---व
5. ज्यक्रकुकर्माणः ---व
6. मुक्त्यार्थत्वान्न ---व
7. शाश्वतार्वद्वौः ---व
8. धीमताद्धिदुर्लभतरंमीदर्शजन्म 4 ---व
धीमताद्धि दुर्लभतरमीदंशं जन्म 40 ---ल
प्. 164
तत्रेति । तत्र तं बुद्धिसंयोगम् आत्मविषयया1 बुद्ध्या संयोगं
लभते । पूर्वदैहिकं2 पूर्वजन्मनि भवम् । ततो यतति भूयो ऽपि
ततो ऽधिकतरं यतते । संसिद्धौ विमुक्तिनिमित्तम् । हे कुरुनन्दन ॥
44 ॥
कथं पुनर् असौ पूर्वदैहिकं3 बुद्धिसंयोगं लभते तद् आह4 ---
(पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो ऽपि सन् ।
जिज्ञासुर् अपि योगस्य शब्दब्रह्मातिवर्तते
)
पूर्वाभ्यासेति । पूर्वजन्मसञ्चितः संस्कारस् तेन ह्रियते प्राप्यते
बुद्धिपूर्वसंयोगं प्रत्यवशो ऽपि5 सन् । किं च । जिज्ञासुर् अपि
योगस्य ज्ञातुम् इच्छुर् अपि शब्दब्रह्म वेदोक्तं केवलं कर्मातिवर्तते6
।
योगजिज्ञासापि केवलात् कर्मणो गुरुतरेत्य् अभिप्रायः ॥ 45 ॥
किं च7 ---
(प्रयत्नाद् यतमानस् तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस् ततो याति परां गतिम्
)
प्रयत्नाद् इति । प्रयत्नाद् यतमानस् तु योगी प्रकृष्टेन योगेन
यत्नेन8 योगार्थं यतमानो9 योगी संशुद्धकिल्बिषः10 योगेन
(या)तीति स्मरन्ति योगशास्त्रविदः । किं पुनः क्षुद्रपापानि ।
न ह्य् एकस्मिन्न् एव11 जन्मनि योगी मुच्यते । अनेकजन्मजनितयो(गेन
संसिद्धो भवति) । ततो याति परां गतिम् ॥ 46 ॥12
नोतेस्:
1. ^विषया ---ल
2. ... देहिकं ---व
3. देहिकं ---ल
4. तदाहा ॥ 41 ॥ ---व
5. प्रज्यवशोपि ---व
6. कर्मातिवर्तवर्तते ---व
7. किं च 42 ---व।ल
8. यतमानस्तुयत्नेन ---व
9. यतस्मानो ---व
10. ... किल्विषः ---व
11. नह्येक्रास्मिन्नेव ---व
12. ... जानित । नतो यानि परां गतिम् 43 ---व
... 43 ---ल
प्. 165
योगमाहात्म्यं दर्शयन्न् अध्यायम् उपसंहरति1 ---
(तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽप्य् अधिको मतः ।
कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन
)
तपेति । कृच्छ्रचन्द्रायणोपवासपरेभ्यः2 केवलकर्मिणो ऽपि
कर्मग्रहणेन3 तद्विषयस्य ज्ञानस्याक्षिप्तत्वात्4
पूर्वत्रात्मज्ञानं
विवक्षितम् । तस्माद् योगी भवार्जुन । गृहस्थस्यार्जुनस्य योगोपदेशात्
सन्न्यासिनाम् एव षष्ठे योगोपदेशः कृत इति यैर् व्याख्यायते
तेषाम् उपसंहारविरोधः ॥ 47 ॥5
(योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः
मूल पाठ: Bhagavadāśayānusaraṇabhāsya · Edition: D. Subhadropadhyaya, Varanasi, 1965 (Sarasvati Bhavana Granthamala, 94) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0