भाषा

ENहिગુ
ग्रंथ पाठ

भगवदाशयानुसरणभास्य · अध्याय 5

5.1

)
तस्माद् इति । तस्माद् अज्ञानसम्भूतम् अज्ञानाद् उत्पन्नं हृदये8
स्थितं
संशयं ज्ञानम् एवासिस् तेन छित्त्वा निरस्य9 योगम् आतिष्ठ
ब्रह्मार्पणन्यायेन कर्मानुतिष्ठ । उत्थिष्ठ च ।
किम् आस्से विषण्णमना10 इवेति ।
इति श्रीभगवद्भास्करकृते11 गीताभाष्ये चतुर्थो ऽध्यायः ॥ 4 ॥
नोतेस्:
1. पापीयानीत्याह नाये ---व
2. विद्वात्
3. किं पुनरवध्रीतेत्याह 40 ---ल
किं पुनर्ननध्नीत्येत्याह 40 ---व
4. योगीति ---व
5. सन्न्यस्तसम्पत्त्यास्तमेकेक्वतं फ्येतात्म^ ---व
6. यन्न ---ल, व
7. कमाणि बध्नन्ति ---व
8. तृदये ---व
9. मिरस्ययिगमानिष्ट ---व
10. विषस्ममना ---व
11. इति श्रीभगवद्गीतामभगवद्द्भास्कक्र्टे ---व
प्. 134
अथ पञ्चमो ऽध्यायः ।
मयि सर्वाणि कर्माणि --- इत्य् अनेन कर्तुः कृतानां कर्मणाम्
ईश्वरे सन्न्यास उक्तः । अनन्तरम् --- ब्रह्मार्पणम्1 --- इत्य् आरभ्य
ब्रह्मैव कर्तृ कारकानन्तरं2 कर्म च इत्य् उक्तम् । अनयोः
कर्मसन्न्यासकर्मयोगयोर् भेदाभेदज्ञानविषययोः परस्परविरोधाद्
एकपुरुषानुष्ठेयत्वानुपपत्तौ3 कतरद् अनयोः प्रशस्ततरम् इति4
प्रष्टुम् अर्जुन उवाच ---
(सन्न्यासं कर्मणां कृष्ण पुनर् योगं च शंससि ।
यः श्रेयान् एतयोर् एकस् तं मे ब्रूहि विनिश्चितम्

5.2

)
सन्न्यासम् इति । मयि सर्वाणि --- इति सन्न्यासं कथयसि ---
ब्रह्मार्पणम् --- योगसन्न्यस्तकर्मणाम् --- योगम् आतिष्ठ ---
इति कर्मयोगम् । शेषं निगदव्याख्यातम् ॥ 1 ॥
श्रीभगवान् उवाच5 ---
(सन्न्यासः कर्मयोगश् च नैःश्रेयसकराव् उभौ ।
तयोस् तु कर्मसन्न्यासात् कर्मयोगो विशिष्.यते

5.3

)
सन्न्यास इति । मयि सर्वाणि --- इति य उक्तः6 सन्न्यासो यश् चायम्
अनन्तरोक्तः कर्मयोगस् ताव् उभौ7 नैःश्रेयसकरौ ।
निःश्रेयसम् एव नैःश्रेयसम् । अयं तु विशेषः --- कर्मसन्न्यासात्
कर्मयोगो विशिष्यते । कथम् । द्वैतविषयो8 हि सन्न्यासः ।
नोतेस्:
1. उक्तोतन्त्रं ब्रह्मार्यणम् ---व
2. ... कारकानतरं ---य
3. ^विषयोः ... पुरुषानुष्टेयत्वातुपत्तौ ---व
4. प्रशस्यतरमिहते ---व
5. भगवाच ---व
6. मपि सर्व्वार्णातिय उक्तः ---व
7. कर्मयागस्ता उभौ ---व
8. कथं त विषयो ---व
प्. 135
कर्मयोगः पुनर् अद्वैतविषयः । साक्षात्सम्यग्दर्शनाश्रयो1
ब्रह्मैवेदं सर्वं कर्त्रादि --- सर्वं तं पराद् आद्यो
ऽन्यत्रात्मनः
सर्वं वेद2 इति श्रुतेः । अतः कर्मयोगो विशिष्यते3 ॥ 2 ॥
तत्र सन्न्यासलक्षणं तावद् उपदिश्यते ---
(ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महावाहो सुखं वन्धाद् विमुच्यते

5.4

)
ज्ञेय इति । यो हि परमहितं न द्वेष्टि न च हितं फलम् आकङ्क्षति
।
कर्तव्यम् एवेति नित्यकर्म4 कृत्वा तत्फलम् ईश्वरे5 समर्पयति स
नित्यसन्न्यासीति बोद्धव्यः6 । स चेत्थंलक्षणः कर्मस्थो ऽपि
निर्द्वन्द्वो रागद्वषादिरहितः सुखम् अनायासेनैव7 संसारबन्धान्
मुच्यते8 मोक्षं9 प्राप्नोतीत्य् अर्थः ॥ 3 ॥
ननु सन्न्यासकर्मयोगयोर् नैःश्रेयसफलत्वम् अयुक्तम्10 ।
स्वरूपभेदवत् फलभेदो युक्त इति । इमाम् आशङ्काम् अपनेतुम् आह ---
(साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम्

5.5

)
साङ्ख्येति । ननु11 च सन्न्यासयोगौ12 प्रस्तुतौ ।
किम् इदम् अवान्तरम् अप्रस्तुतम् उपन्यस्यते13 । नायं दोषः । ताव् एव
सन्न्यासयोगौ साङ्ख्ययोगशब्दाभ्यां निर्दिष्टौ । योगशब्दस्
तावत् प्रकृतं योगं न
नोतेस्:
1. ... विषयः क्षात्सम्यग् ---व
2. सर्व ... द्योत्पत्रात्मनः सर्ववेद ---व
3. विष्यते ---व
4. निह्मकर्म ---व
5. तत्फलमीश्वरे ---व
6. सन्न्यासोति बोधव्य ---व
7. सुखमतायसेनैव ---व
8. बन्धात्युच्यते ---व
9. मोक्ष ---व
10. ... योगयेनिः श्रैषसफलत्वमयुक्तं ---व
11. न तु---व
12. ... योग्यै ---व
13.कि मदं शब्दातरम प्र^ ---व
प्. 136
जहाति ।
साङ्ख्यशब्दो ऽपि सन्न्यासं प्रत्याययति1 भेददर्शनसामान्यात् ।
यथा --- (य) एवं विद्वान् पौर्णमासीं यजते । य एवं विद्वानम्
आवास्याम् --- इति पौर्णमास्यम् आवास्याशब्दाभ्यां प्रस्तुत्य2
शब्दान्तरेण तयोर् उपादानं क्रियते दर्शपूर्णमासाभ्यां 3 यजते
इति । तत्र दर्शशब्दो ऽमावास्यावचनः । तद्वद् अत्र4 साङ्ख्यशब्दः5
सन्न्यासविवक्षया प्रयुक्त इत्य् अविरोधः । कृत्वा कर्माणीश्वरे यः6
समर्पयति स सन्न्यासी । साङ्ख्यो न कापिलो निरग्निर् निष्क्रियश् च7 ---
इति साङ्ख्यशब्दोपादानप्रयोजन(म्) । तौ साङ्ख्ययोगाव् इत्य् अर्थः ।
पृथक्फलौ बाला8 अविवेकिनो वदन्ति । वस्तुतस् तु एकम् अप्य् आस्थितः
सम्यगुभयोर् विन्दते9 फलम् । सन्न्यासिनापि भेदेन कर्म कृत्वा
समर्पणकाले भेददर्शनम् एवाश्रीयते । सर्वं कर्म ब्रह्मप्रभवं
तद् ब्रह्मस्वरूपम् एव10 प्रतिपद्यत इत्य् एवं समर्पणात् ॥ 4 ॥
अवस्थामात्रम् अत्र11 भिद्यते । सन्न्यासः पूर्वावस्था ।
घटमानयोगित्वात् कर्मयोगस् त्व् अनन्तरावस्था ज्ञानपरिपाकात्12 ।
तच् च ---
(यद् एव साङ्ख्याः पश्यन्ति योगैस् तद् अनुगम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति

5.6

)
यद् एवेति13 । यद् एव साङ्ख्याः14 पश्यन्ति ब्रह्म योगैस् तद् अनुगम्यते15
।
तद् एव चिन्त्यत इत्य् अर्थः । एवं च परमार्थत एकं साङ्ख्यं च
योगं च यः पश्यति स पश्यति । तार्किकाणां तु --- कापिलाः16
साङ्ख्याः । तेषाम् अन्यद् दर्शनम् । योगा नैयायिकाः प्रसिद्धास्
तेषाम्
अन्यद् दर्शनम् इति ।
नोतेस्:
1. सम्प्रत्त्याययति ---व
2. भेददर्शन ... शब्दाभ्यां --- नास्ति व कोषे
3. क्रियने दर्शपूर्णामासाभ्यां ---व
4. शब्दोमावास्यावचनस्तदूदत्र ---व
5. ... शब्दाः ---व
6. कर्माणीश्वरीयः ---व
7. निश्चयश्च ---ल ष्ठफफलौ
8. र्बला ---व
9. सम्यगुभयोर्विदते ---व
10. तद्धस्तस्वरूपम् ---व
11. अवस्थामाव्र --व
12. परियाक्यन्नु^ ---व
13. यद्ददेवेति ---व
14. साङ्ख्यः ---व
15. ब्राह्मयोकैस्तदमुगम्यते ---व
16. कापिलः ---व
प्. 137
न च ते साङ्ख्या योगाश् च1 न च तार्किकाः सम्यक् पश्यन्तीति
भगवतो ऽभिप्रायः ॥ 5 ॥
तयोर् एकत्वम् उपपादयितुम् आह2 ---
(सन्न्यासस् तु महाबाहो दुःकम् आप्तुम् अयोगतः ।
योगयुक्तो मुनिर् ब्रह्म न चिरेणाधिगच्छति

5.7

)
सन्न्यासेति । सन्न्यास इति सन्न्यासी चेत्य् अर्थः । सन्न्यास3 इति
प्रथमाविभक्तेर् निर्देशान् नासाव् आप्तव्यः4 ।
तथा हि सन्न्यासम् इति द्वितीया स्यात् । अत्र5 सन्न्यासशब्देन
सन्न्यासी लक्ष्यते ।
अत्र अर्शादित्वान् मत्वर्थीयो ऽकारः6 । यथा पापेभ्य इति
तद्वान् उच्यते7 । सन्न्यासी ब्रह्मप्राप्तुम् अयोगतो दुःखं (प्राप्तुं)
शक्नुयात् । दुःखम् इति क्रियाविशेषणम् । क्लिष्टतरम् इत्य् अर्थः ।
योगेनाभेददर्शनेन युक्तो मुनिः8 सन्न्यासी न चिरेण ब्रह्माधिगच्छति
।
तस्मात् सो ऽपि समर्पणवेलायाम् अभेददर्शनस्थ9 इत्य् उपपन्नं
समानफलत्वम्10 ॥ 6 ॥
यतः सन्न्यासी योगम् आसाद्य ब्रह्म प्रतिपद्यते नान्यथा ।
अतो योगस्य11 यद् उक्तं विशिष्टत्वं तद् उपपन्नम् इत्य् उपसंहरति ---
(योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्न् अपि न लिप्यते

5.8

)
योगेति । योगेन युक्तो ऽद्वैतदर्शने ऽवस्थितो12 विशुद्धात्मा
निर्मलीकृतबुद्धिर् विजितात्मा13 जितमनोवृत्तिर् अत एव जितेन्द्रियः14
नोतेस्:
1. र्साख्ययोगश्व ---व
2. ^प्राय 5 तयारेक^ ---व
3. सत्र्य स ---व
4. ... विधभक्तेनिर्देगात्रासावाप्रव्यस्त^ ---व
5. अथ तत्र ---ल।व
6. मन्वथीयो ---व
7. तद्यनुच्यते ---व
8. सन्न्यासी ब्रह्म ... मुनिः --- अंशोऽयं ---वकोषे नास्ति
9. ... वेलामभेदद्दर्शन्स्था ---व
10. समानफलत्वम् ---व
11. तोगस्य ---व
12. ... द्वेते दर्शने ---व
13. ... शुद्धिर्विजितात्मा ---व
14. र्जिर्तद्रियः ---व
प्. 138
सर्वभूतानाम् आत्मभूत1 आत्मा यस्य सो ऽयं कुर्वन्न् अपि2 न लिप्यते
।
कर्मापि ब्रह्मरूपेण भाव्यमानम् अमृतत्वाय कल्पते ।
न हि तत्र लेपशक्तिर् अस्तीति ॥ 7 ॥
वैदिकाद् अन्येष्व् अपि प्रमादकृतेषु3 कर्मस्व् अवश्यंभाविषु4 ---
(नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यच् छृण्वन् स्पृशं जिघ्रन् भुञ्जन् गच्छं छ्वसन् स्वपन्

5.9

प्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्

5.10

)
नैवेति । नैव किञ्चित् करोमीति5 युक्तो योगी मन्येत तत्त्ववित् ।
तेषां ब्रह्मकार्यत्वाल् लेपदोषापनुत्तये । कानि पुनस् तानि ।
पश्यन्न् इत्यादि । प्राणेन्द्रियव्यापारो ऽत्र6 निर्दिश्यते ।
पश्यन्न् इति7 बुद्धिव्यापारः । बुद्ध्या पर्यालोचयन्न् इत्य् अर्थः ।
शृण्वन्न् इति श्रोत्रयोः । स्पृशन्न् इति त्वगिन्द्रियस्य ।
जिघ्रन्न् इति8 घ्राणेन्द्रियस्य । भुञ्जन्न् इति9 रसनेन्द्रियस्य ।
गच्छन्न् इति10 पादयोः । श्वसन्न् इति प्राणस्य ।
स्वपन्न् इति11 मनसः । प्रलपन्न् इति12 वागिन्द्रियस्य ।
विसृजन्न् इति13 पायूपस्थयोर् व्यापारः । गृह्णन्न् इति हस्तयोः ।
उन्मेषनिमेषौ14 नेत्रयोः । चित्तं धारयेद् युक्तो मन्येत --- इत्य्
अस्यार्थे
धारयेद् इति15 निर्दिष्टः ॥ 8 ॥
अत्र केचिद् अगृह्यमाणकारणं16 सर्वकर्मत्यागं बहुशः पुरस्ताद्
नोतेस्:
1. भूतातासान्मभूत ---व
2. सोयक्तुर्वन्वापि --व
3. प्रसादकृतेषु ---व
4. माविष ---व
5. किंवित्करोमि ---व
6. पश्यशन्नितित्वान्नित्यादि प्राणेदियया^ ---व
7. परश्यान्निति ---व
8. जिन्नन्निति ---व
9. भुञ्जत्रि ---व
10. गछनीति ---व
11. प्राणास्यास्वयन्निति ---व
12. मलयन्निति
13. विसृजन्नि ---व
14. ... मेषमनिमेष ---व
15. ... स्याथेधारयदिति ---व
16. केचिन्दह्यमाणकारण ---व
प्. 139
अस्माभिर् निरस्तम् अपि शिष्टविगर्हणभयाच् छास्त्रार्थतया
सम्पादयितुं तु समीहन्ते । कष्टम् अहो यत् तपस्विनः प्रथमम्
अश्रेयस्करे वर्त्मनि1 केनचित् प्रलोभ्य प्रवर्तिताः पश्चात्
परिदूयमानहृदया2 युक्त्याभासैस् तद् एव3 समर्थयितुं यतन्ते
नासद्ग्रहं विमुञ्चन्ति ।
तान् अत्र पृच्छामः4 --- केन प्रमाणेन सर्वत्यागः प्रतिज्ञायत
इति ।
यदि वचनतस् तन् नास्ति । प्रत्युत तृतीयचतुर्थयोः5
कर्मकर्तव्यतैवोक्ता6 । नियतं कुरु कर्म त्वम् --- इति इत्यादिना ---
विद्वान् युक्तः समाचरन्8 इति च विद्वदविदुषोः कर्मोक्तं स्वार्थं
परार्थं वा9 । अथ न्यायतः सो ऽपि नास्ति । कथम् ।
यदि तावद् आत्मज्ञानकर्मयोगयोर् विरोधात्10 कर्मानुपपत्तिर् उच्यते11
मिथ्याज्ञानहेतुको हि कर्मयोगः । तच् च मिथ्याज्ञानं विद्यया
निरस्तम्12 --- कुरु क्रमप्रवृत्तिः --- इति ॥ 9 ॥
यद्य् एवं13 लौकिकवैदिककर्मणोर् युगपन् निवृत्तिः14 प्रसज्यते
मिथ्याज्ञानभावस्याविशेषात्15 । ततश् च
शौचाचमनभिक्षाटनादीनाम् अप्य् अभावः16 स्यात् ।
एकहेतुनिबन्धनानां17 सह वा प्रवृत्तिः सह
वा निवृत्तिर् नान्या गतिर् अस्ति18 । कस्य वा शौचम्19 ।
नात्मनो नित्यशुद्धत्वात् । न शरीरस्य ममेदम् इति सम्बन्धाभावात्20 ।
नोतेस्:
1. प्रथमश्रेयस्करे कर्मनि ---व
2. ... त्वदया ---व
3. युत्त्याभमैस्त^ ---व
तदैव ---ल
4. षृछामः ---व
5. ... चतुर्थयो ---व
6. ... कर्तव्यतेवोक्ता ---ल।य
7. नियत्त्वं ---ल
नियत्व ---व
8. सम्रचरन्निति ---व
9. विद्वदविदुयोः कर्मक्रल्पार्थपरार्थे वा ---व
10. ^ज्ञानाकर्मयोगयोर्विरोधात् ---व
11. ... नुययतिरु^ ---व
12. निरस्त ---व
13. यर्घवंवं ---व
14. कर्मणोयुगयन्तिवृत्ति ---व
15. ... विशेषात्र ---व
16. तश्च शौचामनभिक्षाटननादिनामप्यभावः ---व
17. ... र्निबधनां ---व
18. ... वृत्तिर्तात्याग तरस्ति ---व
19. वाशौच ---व
20. मशरीरस्य ममेदमिति सम्बन्धामावात् ---व
प्. 140
परशरीरवत् कर्मत्यागवच् च1 देहत्यागो युक्तः ।
कृतप्रयोजनत्वान् न भोजनादिभिस् तस्य2 पोषणम् । ऐश्वर्याच् च3
मुक्तस्य4 त्यागशक्तिर् अस्ति । को नामापरतन्त्रः सन् स्कन्धेन5
कुणपं6
वहेत् । किं च भेदविज्ञानोपशमात् सर्वकर्मत्यागाच् च मुक्तिम्
अन्विच्छता
सैव नास्तीति प्रतिज्ञातं7 स्यात् । अशक्यत्वात् । यथा समुद्रे
तरङ्गापनयाद् अशक्यं स्नानम्8 । देहेन्द्रियमनांसि हि
निमित्तभूतानि9 ।
तेषु विद्यमानेषु नैमित्तिकं10 भेदज्ञानं कायिकं
(मानसिकं वाचिकं) च त्रिविधं कर्मावश्यं प्रवर्तते ।
अग्नीन्धनसंयोगे धूमवत् तस्माज् ज्ञानकर्मणोर् विरोधाद् इति11
हेत्वाभासः परव्यामोहार्थम् उपन्यस्तो ऽसिद्धश्
चोद्दालकयाज्ञवल्क्यादीनां12 ब्रह्मविदां
पुत्रजनकाद्युपदेशप्रवृत्तिश्रवणात्13 ।
उपदेशो ऽपि कर्मैव । त्वं च केवलं निष्क्रियात्मवित् क्रिया14 नास्तीति
ब्रवीषि । न च15 तथा वर्तसे । भिक्षाटनादि व्यापारं16 करोषि
।
अतश् च17 तत्कारी च भवांस् तद्द्वेषी18 च भवान् इति ।
कस् त्वदीयं वचनं19 प्रमाणीकुर्यात् ।
अथ ज्ञानकर्मणोर् विरुद्धफलत्वात् त्याग इति चेत् । तन् न ।
विदुषा क्रियमाणस्य20 कर्मणोपवर्गार्थत्वाद् अविरोध(ः) ।
भिन्नफलत्वे21 हि विरोधः स्यात् । किं च --- प्रश्नो ऽपि22 तेन
नोपपद्येत --- सन्न्यासं
नोतेस्:
1. ... शरीस्वत्कर्मत्याग^ ---व
2. भोतनादिभिस्तस्य ---व
3. एश्वर्साश्च ---व
4. मुस्य ---व
5. सं कन्धेन ---व
6. कुणंयं ---व
7. प्रतिज्ञानं ---व
8. तरङ्गपनयादशक्यं स्वानं ---व
9. निमिन्नभूतानि ---व
10. निमिन्नकं ---व
निमित्तिकं ---ल
11. तस्याज्ञानकर्मणोविरोधादिति ---व
12. ... चोदालकयाववल्कयादीनां ---व
13. पुत्रनकाद्युवदेश^ ---व
14. निघ्रियात्मविक्रिया ---व
15. भ च ---व
16. भिक्षानादिव्यापारं ---व
17. आन्ताश्च ---व
18. भावांस्तद्वेषी ---व
19. वचन ---व
20. क्रियमाणस्ये ---व
21. भिन्नफलत्वे ---व
22. किन्धि न प्रस्तोपि ---व
प्. 141
कर्मणां कृष्ण --- इति । न हि सन्न्यासशब्देन1 पुरस्तात् त्यागः
क्वचिद् उक्तः2 । मयि सर्वाणि कर्माणि --- इतीश्वरे तेषां समर्पणम्
उक्तम् । तस्मात् तत्रैवायम् अनुवादो न त्यागय ।
योगश् च --- ब्रह्मार्पणम् --- इत्य् अत्रोक्तो ऽनूद्यते । तत्र
प्रश्नोपपत्तिर्3
व्याख्याता । यदि च विदुषः कर्मत्यागः पुरस्ताद् उक्तः4 स्याद्
अर्जुनेन
प्रतिपन्नः स्यात् तत्र5 त्यागकर्मयोगयोर् भिन्नपुरुषविषयत्वात्
कुतः6
प्रश्नावतारो भागवतं चोत्तरं नाम (प्रति)पद्यते ।
नैःश्रेयसकराव्
उभौ7 । कर्मसन्न्यासाच् च8 कर्मयोगो विशिष्यत इति । कथं
कर्मत्यागस्
तदनुष्ठानं च निःश्रेयसकरम्9 । त्यागो ह्य् अभावः । नासौ
निःश्रेयसकारणम् अवस्तुत्वात् । यदि चाभावान् निःश्रेयसप्राप्तिः को
हि
गुरुकर्मभारं10 शिरसोद्वहेत् । न च विद्वत्कर्तृकयोस्
त्यागकर्मणोः11
प्रश्नोत्तरं सम्भवति विदुषो ऽपि कर्मत्यागानुपपत्तेर् उक्तत्वाद्
न्यायतो
वचनतश् च ।
नाप्य् अविद्वत्कर्तृकविषयं प्रश्नोत्तरम् । अविदुषो ऽपि कर्मण्य्
एवाधिकार इति त्यागस्य निषिद्धत्वात् । तद् एवम् अवाचकेन12 ग्रन्थेन
स्वाभिप्रेतसमर्थना क्रियते येन तस्य स्याद् गोमयेनापि13 पायसम्
इत्य् अलम् अतिप्रसङ्गेन ।
इदं तावत् तत्त्वं श्रेयोऽर्थिनाम् उक्तम् । नास्माकं व्यसनिता ।
ये विपरीतवर्त्मगामिनस् ते सर्वे पथि स्थापयितव्या14 इति ।
असद्वर्त्मनि हि प्रायेण प्राणिनो रसन्त इति ॥ 9 ॥
नोतेस्:
1. ... शद्देन ---व
2. पुरस्त्यात्त्यात्त्यामः त्कचिदुक्तो ---व
3. ... मित्यात्रोक्रेतुद्यते तत्र पश्रोपपत्रि^ ---व
4. पुरस्तादक्त ---व
5. स्याव्र ---व
6. ... विषवत्वात् ---व

7. नैच्चेयसकारावुभौ ---व
8. ... सन्न्यासाश्च ---ल।व
9. ... त्यागन्दनुष्ठनं च निःश्रेययसकरं ---व
10. कोदिमुरुकर्म मारं शिरं शिरसो द्वियेत् ---व
11. ... स्सागकर्मणोः ---व
12. तदेवं अवाचकेन ---ल।व
13. स्यादोभदेनापि ---व
14. रथापयितव्या ---व
प्. 142
अथेदानीं प्रकृतम् अनुसरामः । यानि पुनः शास्त्रचोदितानि1 ---
(ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।)
लिप्यते न स पापेन पद्मपत्रम् इवाम्भसा

5.11

)
ब्रह्मेति । दृष्टान्तोपन्यासार्थः श्लोकः2 ॥ 10 ॥
तैः कर्म क्रियते । किं विशिष्टैः किमर्थं चेत्य् उच्यते ---
(कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये

5.12

)
कायेनेति । केवलशब्दः कायादिभिः प्रत्येकं सम्बध्यते ।
केवलशब्दः शुद्धवचनः3 । (केवकैः) फलासङ्गदोषरहितैः ।
सङ्कल्पविकल्पात्मकं मनः । बुद्धिर् अध्यवसायात्मिका ।
आत्मशुद्धये । शुद्धिः कैवल्यं मुक्तिर् इत्य् अर्थः । कायादिविशुद्धो4
मुक्त इत्य् उच्यते ॥ 11 ॥
तस्येव स्पष्टीकरणार्थम् इदम् उच्यते5 ---
(युक्तः कर्मफलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते

5.13

)
युक्त इति । युक्तः कर्मफलं त्यक्त्वा शान्तिं मुक्तिं प्राप्नोति
नैष्ठिकीं7 निश्चलाम् । यः पुनर् अयुक्तः कामकारेण । कामः
प्रवृत्तीच्छा8 । प्रवृत्त्या फले सक्तो निबध्यते न मुच्यते9 ।
तस्माद् योगी ब्रह्मणि निःक्षिप्य कर्म कुर्वन् मुच्यत इत्य्
उपसंहाराथं वचनम् एतत् ॥ 12 ॥10
नोतेस्:
1. चोदितानि ---व, ल
2. श्लीकः 11 ---व, ल
3. शुद्धवधमनः ---व
4. कायादिविशुद्धो ---व
5. ... मिदमुच्यतं 12 --- व।ल
6. मुक्ति ---व
7. नेष्टिकी ---व
8. प्रवृत्तीछा ---व
9. सच्यते ---व
10. 13 व, ल
प्. 143
शान्तिं प्राप्तस्य1 कीदृशी फलावस्था भवतीति तां प्रदर्शयति ।
यदि हि सावस्था2 निरायासा स्यात् ततस् तत्प्राप्त्युपाये3
ज्ञानकर्मसमुच्चये तदर्थिनः प्रवर्तन्ते नान्यथेति ---
(सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन् न कारयन्

5.14

)
सर्वेति सर्वशब्दः प्रकृतवाची । लौकिकं वैदिकं च कर्म
मनसाध्यात्मचेतसा ब्रह्मणि सन्न्यस्य सम्यङ् निक्षिप्य4 सर्वं कर्म
ब्रह्मैव5 तद् एव कर्तृ तत्फलं च तद् एवेत्य् एकत्वम् अनुदृश्य पूर्वम्
अनुष्ठानावस्थायां6 पश्चाल् लब्धज्योतिः7 परमात्मभूतः सुखम्
आस्ते8 । विमुक्तसमस्तबन्धनो ऽन्तर्यामिवत्9 । भोगेनैव
प्रारब्धकार्यकर्मक्षयप्रतिज्ञानाच् छरीरपातं10 यावत् ।
तथा च श्रुतिः --- तस्य तावद् एव चिरं यावन् न विमोक्ष्ये ऽथ
सम्पत्स्य इति । यावच् छरीरान् न विमोक्ष्यते ।
प्रारब्धफलकर्मफलभोगप्रतिबन्धात् तावद् एवास्य11 विदुषश् चिरम्
।
भुङ्क्ते तु कर्मणि12 प्रतिबन्धाभावात् ।
अथ सम्पत्स्ये मुच्यत इत्य् अर्थः । शरीरस्थो ऽपि कौन्तेय न13 करोति
न लिप्यत इति स्मृतेः । अत एव वशी14 स्वतन्त्रः ।
अथ आसिर् औदासीन्ये धातुर् वर्तते । यथा गृहं परिगृह्यास्ते ।
क्षेत्रं परिगृह्यास्ते15 --- इत्य् औदासीन्यवचनो नोपदेशवचनस्
तद्वत्16 ।
इदानीं
नोतेस्:
1. शान्तिप्राप्रस्य ---व
2. मावस्था ---व
3. ... स्यात्ततत्स्मात्प्रात्युपाये ---व
4. सम्यङ्क्रिक्षिप्य ---व
5. व्रमैव ---व
6. पूर्वमतुष्टाभावस्थायां ---व
7. पश्चाल्लवुज्योतिः ---व
8. सूखमास्ते ---व
9. विभुक्तसमक्तसमस्तवन्धनोन्तर्यामिमत् ---व
10. प्रारब्धकार्थ कर्म^
11. प्रारब्धफलकर्मफलभोगप्रतिवन्धात्ताधदेवास्था ---व
12. भुङ्क्तेलु कर्मार्णि ---व
13. कोन्तेय ---व
14. वर्शा ---व
15. अयग्नासिरोदासीन्यधातुर्वत यथा गृहं परिगृस्वास्ते क्षेत्रं
परिगृद्यस्ति ---व
अथ सासिरौदासीन्पे ---ल
16. ^वचनस्त ---व
प्. 144
परमात्मा संवृतः1 सन् नवद्वारे पुरे सप्त शीर्षण्यानि द्वाराणि
द्वे2 नासिके द्वे नेत्रे तथा क्षोत्रे मुखम् एकम् अधस्ताद्3 द्वे
पायूपस्थे
पुरे शरीरे देही4 नैव कुर्वन्न् अकारयन् । देहसम्बन्धस्य निवृत्तत्वात्
तदानीं तत्कार्याभावः5 । प्रागवस्थायां तु
देहसम्बन्धानुवृत्त्तेः6 कुर्वन् कारयंश् चास्ते7 । कुर्वन्न् इति8
स्वतन्त्रकर्तृत्वम् । कारयन्न् इति हेतुकर्तृत्वम् । यथा पचति पाचयति
इति । तथा च श्रुतिः --- सलिल एको द्रष्टा9 द्वैतो भवति10 --- इति ।
एवं परमात्मस्थितिवर्णनार्थायाम् अस्यां गीतायाम् उत्तरा11 गीता
सम्यग् घटते ।
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः --- इति ।
यदि12 पुनः स्थितप्रज्ञस्य योगिनो ध्रियमाणशरीरस्य13
क्षुत्पिपासापरीतस्यावस्थेयम् उच्यते । तस्याः14 कः प्रसङ्गो लोकस्य
कर्तृत्वकर्मसर्जने येन प्रतिषिद्ध्यते15 । प्रभुशब्दप्रयोगो ऽपि
परमात्मावस्थावर्णने16 युज्यते ।
कर्मत्यागवादिनो ऽन्यथा व्याचक्षते । सम्यग्दर्शी17 विद्वान्
सर्वकर्माणि नित्यनैमित्तिकादीनि सम्यङ् न्यस्य18 त्यक्त्वास्ते सुखं19
वशी जितेन्द्रियः20 । क्व पुनर् आस्ते तदा नवद्वारे शरीरे ।
नैव कुर्वन् न कारयन्न् इति21 । तद् इदं स्वपक्षरागाविष्टचेतसो
ऽपव्याख्यानम् । न हि22 ब्रह्मबूतस्य विदुषो देह आसनम् उपपद्यते23 ।
नासौ परिमिते देशे काले विशेषे वास्ते सर्वदेशकालव्यापित्वात् ।
उक्तं च --- नित्यः सर्वत्रगः स्थाणुः --- इति ।
न चामूर्तस्यात्मनः
नोतेस्:
1. स प्रवृत्तः ---व
2. द्यरारिण ---व
3. ... मेकषधस्ता ---
4. देहि ---व
5. ... भावाः ---व
6. देक्षसम्बन्धानुवृत्ते ---व
7. कारयश्चारते ---व
8. कुर्वन्तिति ---व
9. दृष्टा ---व
10. मवतिद्वेतो ---व
11. ... मुन्तरागीता ---व
12. युदि ---व
13. घ्रियमाणाशरारस्य ---व
14. तस्यः ---व
15. प्रतिषेद्धोते ---व
16. परप्रात्मावस्था व^ ---व
17. सम्यगृर्शे ---व
18. सम्यकस्य ---व
19. मुखं ---व
20. जितेन्द्रियः ---व
21. कुर्वन्त कारयन्तिति ---व
22. व्याख्यानं हि ---व
23. आसन् मुपपद्यते ---व
प्. 145
शरीरे मूर्त(वद्) उपवेशनं युज्यते । अभिमानकृतम् एव त्व् आसनम् ।
ममेदं शरीरम् अहम् अस्य1 स्वामीत्य् अकुर्वन्न् अकारयंश् चेति2 चास्मिन्न्
अपि
व्याख्यानविशेषणं3 नावकल्पते ।
सर्वशब्दश् च शौचाचमनाशनपानादीनां शिष्यप्रशासनादीनाम्
अनन्तानाम् अभिप्रेतानां4 क्रियमाणत्वात्5
सर्वत्यागवादिनः सुतराम् अवाचकः श्लोकः ।
मनोग्रहणं च कर्तव्यं6 सर्वकर्माणि त्यक्त्वा मनसैव7 हि
त्यज्यन्ते ।
सन्न्यासग्रहणं8 च न कुर्यात् । सन्त्यज्येति9 ब्रूयाद् असन्देहाय ।
तस्मान् मनसा10 सन्न्यस्येति पूर्वोक्तसन्न्यासप्रतिपत्त्यर्थं
योगसन्न्यस्तकर्माणाम् इति11 ।
तस्माद् यथा व्याख्यात एवार्थ इति स्थितम् ॥ 13 ॥12
सो ऽयं परमात्मा ---
(न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस् तु प्रवर्तते

5.15

)
नेति । मुक्तः प्रभुर् ईश्वरः संपन्नः प्राणिनम् इव
पुत्रभृत्यकलत्रादेर् नियन्तव्यस्येह विद्यमानत्वाद् उच्यते ।
न कर्तृत्वादि । आत्मीयस्य
पोष्यवर्गस्य विधत्ते स्वस्वामिसम्बन्धनिवृत्तेः । न च तत्कृतस्य
शुश्रूषादिलक्षणस्य कर्मणो ऽनुरूपं फलं सृजत्य् आप्तकामत्वाद्
इति । मुक्तस्य प्राग् इव भृत्यादेः कर्तृत्वादिनिषेधः16 ।
कर्तृत्वादिनिबन्धनं
नोतेस्:
1. ... महमस्या ---व
2. ... न्न कास्यंश्चेति ---व
3. ... विशेषणा^ ---व
4. शिष्यप्रशानादीनामानन्ताभाभभिप्रतानां ---व
5. क्रियमानत्वाः ---व
क्रियमाणत्वा ---ल
6. कर्तव्य ---व
7. मनसेव ---व
8. सन्न्यसि^ ---व
9. कुर्षात्त्सन्त्यज्ये ---व
10. तस्मात्मनसा ---व
11. ... सन्न्यास्तकर्माणिमिति ---व
12. 14 ---व।ल
13. मुक्तः सुखाभिसंवन्धनिवृत्ते न च तकृतस्य
श्रुश्रुषादिलणस्य
कर्मणो मुरूपं फलं सृजत्याप्तकामत्वाद् इति मुक्तस्य प्राग् इव
पुत्रभृत्यकलत्रादेनियन्तव्यसेह विद्यमानत्वादुच्यते आत्मीयस्य
पोष्यबर्गस्य विधतै कर्तृत्वाभिनिषेधः ।
प्. 146
हि स्वाभाविकम् अज्ञानम्1 । तत्सहता यत्नेनापनयन्2 ।
यथा प्रभुर् लोकस्य3 कर्तृत्वादि स्वेच्छया न सृजति न च
कर्मफलसंयोगम् आप्तकामत्वात् । स्वे महिम्नि हि परमात्मा स्थितः4 ।
प्राणिकर्मैव सृष्टौ फलोत्पत्तौ च निमित्तम् ।
ईश्वरस् तु कर्मानुविधायी तन्नियन्ता5 ।
न हि तस्य कर्तृत्वाद्यापादने लोकस्य प्रयोजनम् अस्ति6 ।
उदासीनो हि सः । अन्यथा वैषम्यनैर्घृण्यप्रसङ्गाद् ईश्वरो7
रागादिमान् स्याद् यथा राजा8 भृत्यानां कर्माणि च विधत्ते9 ।
राजभृत्यानां च परस्परसापेक्षत्वम् अन्योन्योपकारकत्वात्10 ।
कथं तर्हि लोकस्य कर्तृत्वकर्मफलसंयोगस् तद् आह11 ---
स्वभावस् तु प्रवर्तते । अज्ञानप्रभवौ रागद्वेषौ । तन्मूलं12 च
कर्म । ततः शरीरग्रहणम् । पुनः कर्म । पुनर् अज्ञानम् । पुना
रागद्वेषाव् इति13 । तद् इदं चक्रम् एव समावर्तते ।
अव्यापृतावस्थेश्वरतुल्यतेह परिपक्वयोगस्य14 योगिनो दृष्टान्तार्थम्
उक्ता ।
व्यापृतावस्थस्य त्व् ईश्वरस्य जीवकर्मानुरूपं जगद्
विधातृत्वं15
श्रुतिस्मृतिसिद्धं स्थितम् एव ॥ 14 ॥16
यस्माद् अयम् ईश्वरो न रागादिवशेन लोकं प्रेरयति तस्मात् ---
(नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः

5.16

)
नोतेस्:
1. कर्तृत्वादिनिवधवंहि स्वाभाविवकामज्ञानं ---व
2. सहतायनयनयन् ---व
... सहतायत्नेनापनयन ---ल
3. मभुर्लोकस्य ---व
4. स्वेनाहिभ्रि परना स्थितः ---व
5. तत्रियन्ता ---व
6. प्रयोजुन म^ ---व
7. नैर्घृण्यप्रसंमादीश्वरे ---व
8. रागादिमान्द्याद्यथा । रज्ज ---व
9. विद्यत्ते रज्जमृ^ ---व
10. ... मन्योप्तोपकारात् ---व
11. संयोगास्तवृहि ---व
12. ... प्रभवो रागद्वेषौ । तः न्मूलं ---व
13. पुनरज्ञानें पुन पुनरामद्वे^ ---व
14. ... पत्कयागम्यायोगि^ ---व
15. ^कर्मानुनूपज्जाग्राद्विधातृत्वं ---व
... जाग्रद्विधातृत्वं ---ल
16. 15 ---व।ल
प्. 147
नादत्त1 इति । कस्यचित् सम्बन्धि पापं न गृह्णाति । न च सुकृतम्
आदत्ते । हेत्वभावात्2 । यद् ईश्वरः स्वार्थं न प्रयुङ्क्ते लोकं
केन तर्हि मुह्यन्ति3 जन्तवः ।
तद् आह --- स्वभावस् त्व् अज्ञानेनाविद्यया4 अविद्या विपरीतज्ञानम् ।
देहादिष्व् आत्माभिमानो ब्रह्मस्वरूपाग्रहणं5
चाविद्योच्यते । तयावृतम् आच्छन्नं ज्ञानम् । तेन मुह्यन्ति6 ॥ 15 ॥
येषां तु ---
(ज्ञानेन तु तदज्ञानं येषां नाशितम् आत्मनः ।
तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम्

5.17

)
ज्ञानेनेति6 । आदित्यवद् यथादित्यो भुवनमण्डलं7 प्रकाशयति
तथा ज्ञानम् अज्ञानं विनाश्य तत्परं ब्रह्म प्रकाशयति ।
ब्रह्मैवेदं सर्वम् अहं च ब्रह्मेति ज्ञानी8 पश्यतीत्य् अर्थः ॥ 16
॥9
इत ऊर्द्ध्वम् अध्यायपरिसमाप्तेः ज्ञानस्वरूपं
तत्सहकारिसाधनं10
प्रतिपाद्यते ---
(तद्बुद्धयस् तदात्मानस् तन्निष्ठास् तत्परायणाः ।
गच्छन्त्य् अपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः

5.18

)
तद्बुद्धय इति । तस्मिन् ब्रह्मणि बुद्धिर् येषां ते तद्बुद्धयः11 ।
तद् ब्रह्मात्मा येषां ते तदात्मनः । तस्मिन् निष्ठा तात्पर्यं
येषां ते तन्निष्ठाः ।
तत्परायणं गतिर् येषां ते तत्परायणाः ।
तदात्मानस् ते
नोतेस्:
1. नादर्त्तेति ---व।ल
2. हत्वाभावात् ---व
3. मुज्द्यन्ति ---व
..ष्तु अज्ञानेननावि^ ---व
4. ..टुदाह अज्ञनेनावि^ ---ल
5. दहादिष्वात्माभिमानो ब्रह्मस्वरूपाग्रहणां ---व
6. वृत्तमाछत्रज्ञानेन्तेननुह्यन्ति 16 ---व
^ 16 ---ल
7. येषा तु क्षातेनैति आदित्यवहद्यथादित्यभुवन ---व।ल
8. ब्राह्मेति क्षावी ---व
9. 17 ---व।ल
10. इतद्गद्यमध्यामसमार्प्तेक्षनि ... साधन ---व
11. ते द्वुदयः ---व
प्. 148
तन्निष्ठास् तत्परायणा गच्छन्त्य् अपुनरावृत्तिं मोक्षं1 ज्ञानेन
निर्धूतं कल्मषं येषां ते तथोक्ताः ॥ 17 ॥2
कीदृशं तज्ज्ञानम् इत्य् उच्यते3 ---
(विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः

5.19

)
विद्येति । विद्या च विनयश् च (विद्याविनयौ) । विनयः संयमः ।
ताभ्यां4 सम्पन्ने अध्ययनादिसंस्कारवतीत्य् अर्थः ।
ब्राह्मणवत् पूज्यतमत्वाद् गोग्रहणम्5 । मध्यमप्रतिपत्त्यर्थं
हस्तिग्रहणम् ।
श्वश्वपाकग्रहणम् अत्यन्तास्पृश्यावज्ञेयभूतप्रतिपत्त्यर्थम् ।
पण्डिताः समदर्शिनस् तेषु6 ब्रह्मावस्थितं समं तद्दर्शिनो
भवन्ति । सर्वभूतेष्व् आकाशवद् ब्रह्मस्वरूपम् अनुगतं
पश्यन्तीत्य् अर्थः ॥ 18 ॥7
एवं सम्ग्यग्दर्शिनां8 को लाभ इत्य् आह ---
(इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः

5.20

)
इहेति । इहैव देहस्थितैः सर्गः पुनर्भवो जितो नाशितो येषां साम्ये
ब्रह्मस्वरूपे स्थितं मनस् तैर् इत्य् अर्थः । निर्दोषं हि समं9
ब्रह्म ।
बुद्ध्या10 दृश्यमानं सर्वं ब्रह्मैव11 सम्पद्यते यथा
लवणक्षेत्रे12
पतितं वस्तु लवणम् एव सम्पद्यते । तस्मिन् ब्रह्मणि ते स्थिता
यस्मात् तस्मात् तैर् जित13 इति पूर्वेण सम्बन्धः ॥ 19 ॥14
नोतेस्:
1. ... तत्पराणा गछन्त्यपुनरावृर्तिमोक्षं ---व
गतिर्येषां ते तदात्मनस्तेस्मितत्परायणा गछन्त्य^ ---ल
2. 18 ल।व
3. तक्षानमित्यु^ ---व
4. ताभ्यां पन्ते ---व
5. व्राह्मर्णवत् पूज्यतमत्वाहोग्रहणम् ---व
6. समदर्शनस्तेषु ---व
7. ... गतवश्यतीत्य् अर्थः 19 ---व।19 ल
8. ... दृर्शिनां ---व
9. निर्देषं हि संमं ---व
10. वुड्या ---व
11. ब्रह्मेव ---व
12. लवनक्षेत्रे --व
13. यस्मात्तस्मूरत्तेर्जित इति ---व
14. 20 ल अस्याङ्कस्याभावः ---व
प्. 149
यश् च ब्रह्मणि स्थितस् तस्य1 तदनुगुणं साधनम् उपदिश्यते ---
(न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ।
स्थिरबुद्धिर् असंमूढो ब्रह्मविद् ब्रह्मणि स्थितः

5.21

)
न प्रेति । प्रियम् इष्टं प्राप्य न प्रहृष्यं प्रकर्षेण हृष्टिर्
न2 कर्तव्या । नोद्विजेत्3 प्राप्य चाप्रियम् । उद्वेगश् चित्तव्यथा ।
स्थिरा निश्चला निर्विचिकित्सा बुद्धिर् यस्य स स्थिरबुद्धिः । असम्मूढो
विविक्तचित्तवृत्तिः ॥ 20 ॥4
किं च ---
(बाह्यस्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखम् अव्ययम् अश्नुते

5.22

)
ब्रह्मेति (॥ 21 ॥)
कथं पुनर् आत्मसुखस्यैवाक्षयत्वम् । ननु बाह्यस्पर्शसुखम्
अप्य् अक्षयम् एव । नेति ब्रूमो यस्मात्5 ---
(ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः

5.23

)
य इति । ये हि संस्पर्शजा भोगा विषयसंसर्गनिबन्धना दुःखस्य
योनयस् ते । योनिः कारणं यस्मात् । आदिमन्तो ऽन्तवन्तश् च
कादाचित्काः
क्षणिकाः । न तेषु रमते बुधो दोषदर्शी6 ॥ 22 ॥7
कश् च योगी सुखी च । तद् उच्यते ---
(शक्नोतीहैव यः सोढुं प्राक् शरीरविमोचनात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः

5.24

)
नोतेस्:
1. स्थितलहस्य ---व
2. न प्रत्यष्य प्रकर्षणहष्टिर्न ---व
प्रकर्षण^ ---ल
3. नोद्विजोत् ---व
4. 20 ---ल।व
5. यस्मात् 22 ---व
6. वुधो दोर्शी ---व
7. 23 ---व।ल
प्. 150
शक्नोतीति । इहैव1 देहे सोढुं नियन्तुं यः शक्नोति न
लक्षणमात्रं
किं तु2 प्राक् शरीरविमोचनाद् आदेहपातात् । कामोद्भवं
क्रोधोद्भवं3
वेगम् । अप्राप्तप्राप्तीच्छा कामः । तेन4 प्रेरिता चित्तवृत्तिः
कामवेगो ऽनुरक्तचित्तवृत्तिनिरोधः5 कामोद्वेगनिरोधो6
नेत्रवक्त्रविकारलिङ्गः ।
क्रोधस् तदुत्थवेगनिरोधश् च7 । ताव् एतौ वेगौ8 निरु(ण)द्धि यः स
युक्तः स सुखी नरः ॥ 23 ॥9
यश् चैवं कामक्रोधौ जित्वात्मनि10 वर्तते स मुक्त एवम् उच्यते ।
तद् आह ---
(अन्तःसुखो ऽन्तरारामस् तथान्तर्ज्योतिर् एव यः ।
स पार्थ परमं योगं ब्रह्मभूतो ऽधिगच्छति

5.25

)
अन्तर् इति । अन्तरात्मनि11 सुखं यस्यासाव् अन्तःसुखः ।
अन्तरात्मन्य् आरामः क्रीडा12 यस्यासाव् अन्तरारामः ।
तथान्तरात्मा
ज्योतिर् यस्यासव् अन्तर्ज्योतिर् न वाय्वादित्यादिज्योतिः13 ।
सः । हे पार्थ परमं योगम् । युज्यत इति योगः । तं परमात्मानं
ब्रह्मभूतो ऽधिगच्छति ॥ 24 ॥14
किं च
(लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः

5.26

)
लभन्त इति । लभन्ते ब्रह्मणि निर्वृत्तिम्15 । अथवा ब्रह्मैव
निर्वाणं परमं सुखम् ऋषयो16 दर्शनवन्तः17 ।
क्षीनं कल्मषं येषां ते
नोतेस्:
1. शक्नोतीति इहेव ---व
2. कितु ---व
3. देहयतोत्व हाभोद्भवक्रोधोद्भव ---व
4. प्राप्तिच्छाकामस्तेम ---व
5. कामवेगोनुरक्त^ ---व
6. कामोत्थवेर्गानरोधः ---व
7. ... स्तदुस्यवगाणिरोधश्च ---व
8. तावेतो वेगौ ---व
9. 24 ---व।ल
10. जितात्मनि ---व
11. अन्त इति अन्तरात्मनि ---ल।व
12. कोडा ---व
13. नेबाज्यादित्यादिज्योतिः ---व
14. 25 ---व।ल
15. ब्रह्मनिर्वृत्तिम् ---व
16. सुखमृषभंयो ---व।ल
17. दर्शनवन्तः ---व
प्. 151
तथोक्ताः । छिन्नं द्वैधं संशयो1 यैस् ते2 छिन्नद्वैधाः ।
यतात्मानो नियतान्तःकरणाः । सर्वभूतानां हिते रता
अहिंसका इत्य् अर्थः ॥ 25 ॥3
स एव शान्त्युपायः पुनः कथ्यते । बहुशः श्रवणात्
स्थिरसंस्कारं
चित्तं भवतीति4 ---
(कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्

5.27

)
कामेति । यतीनां परिव्राजकानाम्5 । प्रदर्शनार्थम् एतत् ।
गृहस्थादीनाम् अथवा यतीनां यत्नवताम् । तस्यैव निर्वचनं6
यतचेतसाम् इति । अभितो निकटे समीपकाल इत्य् अर्थः । निर्वाणं
निरतिशयानन्दरूपम्7 । अभित उभयत इत्य् एके । जीवतां8 मृतानां
चेति । तद् असत् । जीवतां चेन् निर्वाणं9 सिद्धं मृतानां
दण्डापूपिकया सिद्धम् इति न वक्तव्यं मृतानाम् इति ॥ 26 ॥ 10
मुक्त्युपायप्रसङ्गेन11 योगो ऽपि मुक्त्युपायत्वाद् अन्तरङ्गत्वाच् च
प्रस्तूयते । षष्ठे तस्य विस्तरो भविष्यति ---
(स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ

5.28

)
स्पर्शान् इति12 । बाह्यान्13 विषयान् बहिर् एव14 कृत्वा यदा
मनसान्तरात्मनि नोपसर्पन्ति15 तदा विषया बहिर् एव भवन्ति ।
नोतेस्:
1. द्वेधं ---व
द्वैधं संशयं ---ल
2. योस्ते ---
3. 25 व।ल
4. भवतीति 26 ल
5. यप्तीनां पतिवाजकानां ---व
6. निर्वचन ---व
7. निरतिशयाजन्दनुपं ---व
8. जीवजां ---व
9. चेत्तिर्वाणं ---व
10. 27 व।ल
11. मुक्तुपायप्रसङ्गेन ---व
12. स्पर्शादिति ---व।ल
13. वास्वान् ---व
14. वघेरेव ---व
15. मनसान्नरात्मनो नोपसर्यति ---व
प्. 152
भ्रुवो ऽन्तरे1 मध्ये चक्षुः कृत्वेत्य् अधिक्रियते ।
प्राणापानाव् उच्छ्वासनिःश्वासौ नासाभ्यन्तरचारिणौ समौ कृत्वा
।
नोच्छ्वासम् अधिकं करोति न निःश्वासम् ।
यथास्वभावप्रवृत्तौ कृत्वेत्य् अर्थः ॥ 27 ॥2
वस्तूत्तरेण समाप्यते ---
(यतेन्द्रियमनोबुद्धिर् मुनिर् मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः

5.29

)
यतेति । नियतानीन्द्रियाणि मनो बुद्धिश् च यस्य स वशी ।
मननान् मुनि(ः) । मोक्षः परम् अयनं गतिर् यस्यासौ
मोक्षपरायणः ।
विगतेच्छा भयं च क्रोधश् च यस्यासौ विगतेच्छाभयक्रोधः ।
इच्छा कामः । य एवं सदा वर्त(ते) मुक्त एव सः ।
नास्त्य् अत्र विचारणा3 ॥ 28 ॥4
मुक्त्युपायो दर्शितः । ज्ञेयस् तु साक्षाद् दर्शयितव्यो यं ज्ञात्वा
मुच्येतेत्य् आह5 ---
(भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिम् ऋच्छति

मूल पाठ: Bhagavadāśayānusaraṇabhāsya · Edition: D. Subhadropadhyaya, Varanasi, 1965 (Sarasvati Bhavana Granthamala, 94) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc