भाषा

ENहिગુ
ग्रंथ पाठ

भगवदाशयानुसरणभास्य · अध्याय 4

4.1

)
एवम् इति । एवम् उक्तेन प्रकारेण बुद्धेः परं कामं बुद्ध्वा8
जहि शत्रुं महाबाहो । कामरूपं दुःखेनासदनीयम्9 । किं कृत्वा
।
संस्तभ्यात्मानम् आत्मनि10 संस्तभ्य निरुद्ध्य चात्मानं क्षेत्रज्ञम्
आत्मनि11 परमात्मनि संयोज्यैकीकृत्य12 ब्रह्मरूपेणावस्थाप्य
कामं13 जहीति तात्पर्यार्थः14 ॥ 48 ॥
इति श्रीभगवद्भास्करकृते15 गीताभाष्ये तृतीयो ऽध्यायः ॥
नोतेस्:
1. ^त्वेनचोत्कृष्टात्वात्यस्त्वं इन्द्रियेर्भ्यः
2. प्राधान्याश्च
3. मतसस्तु परा षुद्धिस्
4. ... ^मनसो
5. पुरोषो
6. स्थाणुस्वैत्यध्यवसायः
7. बुद्धिः परतस्स कामः परामृष्यते
8. बुद्धेपरं कामबुद्धा
9. कामरूपदुःखेनासदनीये
10. संस्तम्भ्यात्मानम्
11. क्षेत्रज्ञात्मनि
12. युज्यैकीकृत्य
13. ... वस्थापकामं
14. तत्पार्यार्थः 41
15. ... भगवद्भकरकृते
प्. 106
अथ चतुर्थो ऽध्यायः
श्रीभगवान् उवाच1 ---
(इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् ।
विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवे ऽब्रवीत्

4.2

)
इमम् इति । विवस्वान् आदित्यः तस्मै2 प्रोक्तवान् अहम् अव्ययम् ।
नित्यत्वं3 नित्यवेदविहितत्वात् । स च विवस्वान् स्वपुत्राय मनवे4
दण्डधराय (प्राह) मनुर् आदिराजायेक्ष्वाकवे ऽब्रवीत्5 ॥ 1 ॥
(एवं परम्पराख्यातम् इमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप

4.3

)
एवम् इति । एवं परम्पराख्यातम् आचार्यपरम्परया6 कथितम् इमं
राजर्षयो विदुः । राजानश् च ते दर्शनशक्तियुक्ताश् चेति7 राजर्षयः ।
स योगः कालेन महतेह लोके8 कथञ्चिद् विषयासक्तचेतसं राजानाम्
आसाद्य9 नष्टः । परान् शत्रूंस् तापयतीति हे परन्तप10 ॥ 2 ॥
(स एवायं मया ते ऽद्य योगः प्रोक्तः पुरातनः ।
भक्तो ऽसि मे सखा चेति रहस्यं ह्य् एतद् उत्तरम्

4.4

)
स एवेति । स एव सनातनो योगो मया प्रोक्तः । कस्मात् ।
भक्तो ऽसि मे सखा चेति11 । रहस्यं ह्य् एतन् मयोक्तम् अप्रकाशितम् ।
यन् मयि भक्तत्वसखित्वाभ्यां12 नैतद् अवज्ञातुम् अर्हसि । इदानीं
नोतेस्:
1. श्रीभगवाच
2. स्वानादिग्त्यस्तस्मै
3. नित्यं
4. मतवे
5. ... राजायेक्ष्वाकव्रवीत्
6. परस्पुराख्यातमा^
7. दर्शनशक्तियुक्तेश्चेति
8. त्वोके
9. ध्रिचिद्विषयत्सक्तचेतसां राजामासाघ
10. परतप
11. सख्या चेति
12. हेतन्मयोक्तमप्रकाशतीयमयिभक्षुत्व^
प्. 107
युद्ध(आय) प्रोत्साहनार्थं प्राप्तावसरं1 प्रोक्तम् इत्य्
अभिप्रायः ॥ 3 ॥
पूर्वपरविरोधं पश्यन्न् अर्जुन उवाच ---
(अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति

4.5

)
अपरम् इति । भवतो जन्मापरम् इदानीन्तनम्2 । परम् आदित्यस्य
सर्गादौ । कथम् एतद् विजानीयां ज्ञातुं शक्नुयाम् ।
त्वम् आदौ प्रोक्तवान् इति3 । यथाविरोधस् तथा मां प्रतिपादयेः ॥ 4
॥
अमरजीवव्यतिरिक्तेश्वरप्रतिपादनद्वारेणोत्तरं4 दीयते ---
(बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप

4.6

)
बहूनि5 । बहूनि मे व्यतीतानि6 प्रादुर्भावरूपाणि । मयि
सर्वाणि --- इति वचनम् इदानीं सिद्धं7 भवति ।
अन्यथा व्यतिरिक्तेश्वराभावे8 क्व कर्माणि सन्न्यसेरन् । तान्य् अहं
वेद ।
त्वं तानि न वेत्थ जानास्य् अनीश्वरत्वात्9 ॥ 5 ॥
कथं पुनर् ईश्वरो ऽजः10 सन् सम्भवतीति11 चोद्यम् आशङ्क्य12
निराकरोति ---
(अजो ऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन् ।
प्रकृतिं स्वाम् अधिष्ठाय सम्भवाम्य् आत्ममायया

4.7

)
नोतेस्:
1. युद्धप्रोत्साहनार्थं प्रासावसरं
2. ^मिदान्नीततं
3. ज्ञातु न शक्नुयात्त्वमोदौ प्रोक्तवनिति
4. भरजीव्यतिरिक्रश्चर प्रतिपादनद्वारोणोत्त^
5. वहुनीति
6. वद्वनि मे व्यतीत्तानि
7. मपित्साणीतिवचनमिदान्नीं सीद्धं
8. ष्यतिरिक्त्लेश्वराभवि
9. वेद तातामिनास्यनीश्वरत्वात्
10. पुनरीश्वराजः
11. सभ्यवसीति
12. चोघमाशक्य
प्. 108
अज इति । न जायते अविनश्वर आत्मा स्वरूपं यस्यासाव् अव्ययात्मा ।
प्रकृतिं स्वाम् अवष्टभ्य । प्रकृतिस् तेजोऽबन्नलक्षणा1
परमेश्वराद् उत्पन्ना । (ताम्) अवष्टभ्य आश्रित्य सम्भवाम्य्
आत्ममायया3 । मायाशब्दः प्रज्ञावचनः । स्वेच्छयेत्य् अर्थः4 ।
नाहं धर्मप्रयोज्यः संसारी5 । वश्यप्रकृतित्वाद् देहोपादानान्य्
असौ6 स्वेच्छया ग्रहीष्यतीति (अ)विरोधः7 ॥ 6 ॥
कदा पुनर् आत्मानं सृजसीत्य् आह ---
(यदा यदा हि धर्मस्य ग्लानिर् भवति भारत ।
अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम्

4.8

)
(यदेति) । यदा हि धर्मस्य वर्णाश्रमादिलक्षणस्य ग्लानिर् हानिः8 ।
अभ्युत्थानं वृद्धिर् अधर्मस्य । तदात्मानं सृजाम्य् अहम् ॥ 7 ॥
तत् ---
(परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे

4.9

)
(परित्राणायेति9 ।) परित्राणाय साधूनां स्वकर्मनिरतानाम् ।
विनाशाय च दुष्कृताम् । एवं धर्मसंस्थापनय युगे युगे
(सम्भवामि) ॥ 8 ॥
(जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सो ऽर्जुन

4.10

)
जन्मेति । जन्म मथुरादिषु10 । कर्म च साधुपरित्राणलक्षणम्
नोतेस्:
1. न जायतविनश्वर ... तेजोवललक्षणा
2. आधोवष्टभ्याश्रित्य
3. सम्भावाभ्यात्म
4. स्वेघयेत्यर्थो
5. संसारि
6. ... प्रकृत्वादेहोपदा^
7. समेछमा न भविष्यत इति विरोधः
8. लानिर्हानिः
9. परित्राणापिति
10. जन्म म्थुरादिषु
प्. 109
उक्तप्रकारं दिव्यम् अमानुषं (यो वे)त्ति स त्यक्त्वा1 देहं पुनर् जन्म
न गच्छति2 । माम् एव प्राप्नोतीति । ननु3 चैवं शब्दश्रवणमात्रेण4
सर्वलोको मुच्यते5 । उपनिषदुक्तपरमात्मज्ञानोपासनाभ्यां6
यावज्जीवं कृताभ्यां स्वाश्रमविहितकर्मयज्ञाभ्यां7 मुक्तिर् इति
स्थितम् । इहापि च यज्ञानुष्ठानाद् अपवर्ग9 इति स्थापितं
प्रत्युद्ध्रियेत10 । अत्रोच्यते --- नायं विरोधो ऽस्ति । ईश्वरः
स्वतन्त्रः समस्त(संसार)परिपालनाय11 । प्राकृतस् तु तत्परस्
तदुपासनया मुच्यत इत्य् अनवद्यम्12 ॥ 9 ॥
उत्तरश्लोके चायम् अर्थः स्पष्ठीक्रियते ---
(वीतरागभयक्रोधा मन्मया माम् उपाश्रिताः ।
बहवो ज्ञानतपसा पूता मद्भावम् आगताः

4.11

)
वीतेति । (वीताः) रा(गश् च भयं च क्रोधश् च ते विगता ये)भ्यस्
ते13 वीतरागभयक्रोधाः । क्वचिद् वस्तुनि स्नेहमात्रं रागः ।
मन्मया (मा)म् आत्मत्वेनाभिप्रपन्ना नित्यम् एवं स्वरूपं चेतसा14
माम् एव चोपाश्रिताः15 । नान्यो ऽस्माकं16 शरणम् अस्तीत्य्
उभयविशेषणोपादानम् ।
यथा कश्चित् स्र्तीमयो भवति न शरणं प्रपन्नः ।
किं तु राजानं योगक्षेमाव् अहं ज्ञानतपसा
ज्ञानं च त(प)श् च ज्ञानत(पः । त)योर् द्वन्द्वैकवद्भावः17 ।
सर्वो द्वन्द्वो एकवद् भवति --- इति18
नोतेस्:
1. ... व्यमानुष्यत्तिं स त्यत्त्का
2. गछति
3. न तु
4. शश्रवर्णमात्रे
5. मुच्यत
6. नाषत्स च परमात्मज्ञानोपासनाभ्यां
7. कृताभ्यास्वाश्रमावेहितकर्मार्यक्षाभ्यां
8. स्थीतम्
9. इहापिश्चमानुष्टानादयवर्ग
10. प्रत्युद्धियेत
11. विरोधोस्तीस्वरः स्वतन्त्रः समत्सपरि^
12. प्रातत्परस्तुदुपासनषा मुच्यते इत्यनवघं
13. वोतेति ग्वेबाताश्यस्तेवीत^
14. नित्यम् एव स्वरूपस्मचेतसो
15. चापाश्रिता
16. तान्योस्माकं
17. द्वन्द्वैकधद्भावः
18. द्वन्द्वो भवम्दवतीति
प्. 110
स्मरणा(त्) । ज्ञानेन तपसा च पूता इत्य् अर्थः । ज्ञानम् एव1
तपो ज्ञानतपः2 इति केचित् । तद् अयुक्तम्3 । ज्ञानस्य
तपःशरणानर्थक्यात्4 । ज्ञानेन5 पूता इति सिद्धत्वात् । न हि
ज्ञानेन सदृशम् --- इति6 चोक्तत्वात् ॥ 10 ॥
ननु ज्ञानतपोभ्यां (भक्ता एव) मद्भावं प्रतिपद्यन्ते7 नेतरे ।
किन् नु8 खलु कारणम् । अत आह ---
(ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः

4.12

)
य इति । ये फलार्थिनो मां (यथा) प्रपद्यन्ते तांस् तथैव भजामि
फलप्रद्(आनेन) । ये ऽप्य् अपवर्गार्थिनो (मां) भजन्ते तांश्
चापवर्गप्रदानेनानुगृह्णामि9 । तथा च वाजिनां श्रुतिः ---
तं यथायथोपासते --- इति । अतो मम वर्त्म फलार्थिनो10
मोक्षार्थिनश् चोभयार्थिनो मनुष्याः सर्वशः सर्व एव तृतीयस्य
राशेर् अभावात् (अनुवर्तन्ते) ॥ 11 ॥
ते च फलार्थिनो मो(क्षं न काङ्क्षन्तीत्य् आह11) ---
(काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा

4.13

)
काङ्क्षन्ति इति12 । कर्मसम्बन्धिनीं13 सिद्धिं काङ्क्षन्तो यजन्ते
नोतेस्:
1. जानामेव
2. ज्ञानतपो ---ला
3. यन्दंयुक्तम् ---ला
4. शरणनर्थक्यात्
5. तानेन
6. शदशमिति
7. ... तपोभ्यांर्वप्रतिपद्यन्ते
8. किन्न
9. यं इति व षे फजाथिनो मां प्रति पर्द्यनतां ...
फलप्रात्थार्थोप्य ... ^इत्याह पवगोर्थिनो भान्ते
तांश्चापवर्गप्रदाने नातु गृह्णामि --- व
10. वस्त्रार्थ फलार्थि^
11. व--- कोषे मो इति नास्ति ला ल--- कोषे तु मो इत्य् एत्तस्यानन्तरं
काङ्क्षन्नि इत्यस्मात् पूर्वमिषद्रिक्तं स्थानं वर्तते
12. काङ्क्षत इति ---व
13. सम्बन्धिनो ---व
प्. 111
देवता यागेन पूजयन्ति । यतः क्षिप्रं1 हि मानुषे लोके (इति)
अनुवादः2 । कर्मविपरिणामस्यानियतकालत्वात्3 मानुषे लोक इति
नियमार्थम् ।
कर्मजा सिद्धिर् मनुष्यलोक एव (मनु)ष्याधिकारत्वाच् छास्त्रस्य4 ।
ज्ञानजा तु सिद्धिर् ब्रह्मलोका(दाव् अ)पि5 भवति ।
श्रुतिर् अपि --- तद् यो यो देवानां6 प्रत्यबुद्ध्यत स एव तद् अभवत्
(तथ)र्षीणां तथा मनुष्याणाम्7 --- इति । तत्रैव
ज्ञानप्रकर्षम्
आसाद्य8 मुच्यते । तथा च पुराणस्मृतिः ---
ब्रह्मणा सह ते9 सर्वे (सम्प्राप्ते प्रति)सञ्चरे ।
परस्यान्ते10 कृतात्मानः प्रविशन्ति11 परं पदम् ॥ इति ।
इह च वक्ष्यति दैवी सिद्धिर् विमोक्षाय --- इति ।
तस्मान् मनु(ष्येण त्वयार्जु)नेनावश्यं कर्म12 कर्तव्यम् इति
तात्पर्यार्थः ॥ 12 ॥
मनुष्याः सर्वे13 मम वर्त्मानुवर्तन्त14 इत्य् उक्तम् । के पुनस् ते ।
केन वा15 ते सृष्टा इत्य् आह16 ---
(चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम्

4.14

)
चातुर्वर्ण्यम् इति । चत्वार एव वर्णाश् चातुर्वर्ण्यम्17 ।
तन् मया
नोतेस्:
1. क्षिड्य ---व
2. मानुषेलोकि मनुवादः ---व
3. कमपरिणामस्यानिलतकाल^ ---व
4. एवय्याधिकारत्वाछास्त्रस्य ---व
5. ज्ञानजा तु सिद्धिर् वह्मलोका दिद्यपि ---व
6. देवार्ना ---व
7. स सः णां तथा मनुष्याणां ---व
8. ज्ञामप्रकर्षमासाघ ---व
9. मंहते ---व
10. यदृस्यान्ते ---व
11. प्रविश्यन्ति ---व प्र इति अस्पष्टम् ---ल
12. तस्मातुष्यनेताघश्यं कर्म ---व
13. मनुर्ष्य सर्वे ---व
14. वर्त्मानुर्वन्तत् ---व
15. केतवा ---व
16. सृष्ट इति ---व
17. चालुर्वर्ण्य ---व
प्. 112
सृष्टम् । कथम् । गुणकर्मविभागशः ।
गुणविभागेन कर्मविभागेन1 च ।
(तत्र ब्राह्मणस्य) ऋजुतानृशंसत्वं2 प्रसन्नचित्ततेत्यादयो
गुणाः सत्त्वप्रधानत्वात्3 । क्षत्रियस्य शौर्यतेजोधृत्यादयो
ऽल्पसत्त्वानुविमर्शत्वात्4 । वैश्यस्य रजःप्रधान्याद् उपष्टम्भश्
चलचित्तता5 च गुणाः । शूद्रस्य तमःप्राधान्याद् दासता6 (गुणः
।
अथ) कर्म अध्यापनादि ब्राह्मणस्य रणादि7 राजन्यस्य कृष्यादि
वैश्यस्य8 शुश्रूषा शूद्रस्येति । तस्माद् ये9 यथायोगं कर्मस्व्
अधिकृता10 (तथा ते) मम वर्त्मानुवर्तन्ते11 ।
तस्य कर्तारम् अव्ययं (मां विद्धि12 ।)
ननु विप्रतिषिद्धम् अभिधीयते13 । नायं विरोधः ।
सङ्कल्पमात्रेण जगत्सृष्टिस्थितिभङ्गकर्तृत्वात् कर्तारं14
स्त्रीपुंयोगेनेदानीं एवानुत्पादनाद् अकर्तारं विद्धि ।
चातुर्वर्ण्यग्रहणं15 जगत्प्रदर्शनार्थम्16 ।
यद् वा स्वातन्त्र्येण पृथिव्यादिनिर्मा(ण)सद्भावात्17 कर्तृत्वम् ।
प्राणिकर्मसापेक्षत्वेन सापेक्षत्वाद् अकर्तृत्वम् ॥ 13 ॥
नोतेस्:
1. कमीवेभागेन ---व
2. मार्जतानृशंसस्य ---व
मार्जवानृशंसस्य ---ला
3. गुणः ... सत्व ---व
4. ... दयोल्पसत्त्वानुपिमर्शत्वात् ---व
... दयोल्पसत्त्वानुवि ... त्वात् ---ल
5. वैशस्य रजःप्रधान्यादुपष्टम्भश्चलचित्तना च ---व
6. ... प्राधान्यादावत्सता ---ल तथा ---व
7. ... नादिराजन्यस्य ---ल
कर्माध्ययनादि ब्राह्मणोरनाधिराजन्वस्य ---व
8. वैष्यस्य ---व
9. तस्मान्मे ---व
तस्मात्ते ---ल
10. ... यथायोग ... धिकृता व, ल
11. वर्तते
12. तस्य ... कर्त ... स्य कर्तारं ---ल
तस्य कर्तास्य कर्तारम् ---व
13. मभिधीयन्ते ---व
14. ... त्रेण गत्सृष्टिभङ्गकर्तृत्वात् कतरिं ---व
15. चानुर्वर्ण्य^ ---व
16. न गगत्प्रदर्शनार्थ ---व
17. स्त्रीपुंयोगेन ... पृथिव्यादिनिर्मा(ण्)अ शोयं
चतुर्दशाङ्काङ्कितश्लोकभाष्यस्थः । अत्रोच्यते --- अयमत्र एतस्मात्
परं वर्तते व कोषे ।
तत्र पाठस् तुअत्रोच्यते
ऽयमत्रीयुथोगौवदानीमेवानुसादनादकर्तारं
विद्धे चातुर्वर्ण्य ग्रहणं नगगत्प्रदर्शनार्थ यद्वा स्वातन्त्र्येण
पृथिदिनिर्मा ऽभिप्रायायःभिप्राय इति
प्. 113
न च जगत्सर्गादीनि कर्माणि मां लिम्पन्ति1 तद् आह ---
(न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
माम् एवं यो ऽभिजानाति कर्मभिर् न स बध्यते

4.15

)
न माम् इति । न मां कर्माणि लिम्पन्ति2 । कुतः । न मे कर्मफले
स्पृहा ।
न हि सृष्ट्यादिकर्मणा प्राप्तव्यं साध्यं ममास्ति आप्तकामत्वात्3
।
माम् एवं यो ऽभिजानाति कर्मभिर् न स4 बध्यते ।
ननु चाप्तकामत्वाद् ईश्वरं5 न लिम्पन्ति कर्माणि । अन्यं पुनर्
अनवाप्तकामं सुकृतानि कस्मात् तानि लिम्पन्ति6 । अत्रोच्यते ।
अयम् अत्राभिप्रायः7 --- वीततृष्णत्वम् अलेपकारणम् । अन्यो ऽपि यः
स्वव्यापारे वीततृष्णः परमेश्वरार्पितकर्मणि8 प्रवर्तते सो ऽपि
कर्मभिर् न बध्यत इति युक्ततरम् उक्तम्9 ॥ 14 ॥
एतम् एव फलवैतृष्ण्यलक्षणं हेतुम् उपजीवयन्न् आह10 ---
(एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरैः कृतम्

4.16

)
एवम् इति । एवं ज्ञात्वा11 कृतं कर्म पूर्वैर् अपि चिरन्तनैर्
मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः कृतम् ।
नेदानीन्तनैर्
अनुष्ठितम्12 ॥ 15 ॥
तच् च कर्म दुर्विज्ञेयस्वरूपं कथम् इत्य् आह ---
(किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः ।
तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात्

4.17

)
नोतेस्:
1. सगादिनि ... लिपन्ति ---व
2. लिंपति ---व
3. प्राप्तव्यं साख्यं ममास्माप्तकामन्वपा मामेवं^ ---व
कामत्वमामेवं ---ल
4. कर्मभिन्न स^ ---व
5. कामस्वादीश्वरं न लिंपति ---व
अक्षराण्यस्पष्टानि ---ल
6. कस्मात्सालिपन्ति ---व
7. अयमत्री युथो गौनदीमीमे वानुसादनादकर्तारं विद्वे
चातुर्वर्ण्यग्रहणं न गगत्प्रदर्शनार्थं यद्वा स्वातन्त्रेण
पृथिदिनिर्भाभिप्रायः
8. परेमेश्वरपतिकर्मणि ---व
परमेश्वरायेनिकर्मणि ---ल
9. मुक्तं ---व
10. हेतुमुपतीवन्नाह 14 ---व
11. जात्वा ---व
12. नीदानीतनेरनुष्टितं 15
प्. 114
किम् इति । किं कर्म किम् अकर्मेति1 कवयो ऽपि
प्रत्यक्षादिषट्प्रमाणकुशला2 अप्य् अत्र कर्मप्रविभागे मोहिताः ।
प्रविभागं ज्ञातुम् अशक्तास् ते । तत्4 कर्म (ते) प्रकर्षेण वक्ष्यामि
।
यज् ज्ञात्वा कृत्वा5 च कर्मप्रकरणात् --- कुरु कर्मैव --- इति
चानन्तरं कर्मानुष्ठानस्य विहितत्वान् मोक्ष्यसे विमोक्षसे ऽशुभात्
संसारपरिवर्तात् ॥ 16 ॥
स्यान् मतं6 कर्माकर्म च प्रसिद्धम् ।
किम् अत्र बोद्धुं इत्य् आशङ्क्याह7 ---
(कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणो ऽपि बोद्धव्यं गहना कर्मणो गतिः

4.18

)
कर्मेति8 । सत्यं श्रुतिस्मृतिविहितं कर्म प्रसिद्धं तथापि तस्य
स्वरूपं9 बोद्धव्यम् अस्त्य् अपवर्गाधिकृतेन पुरुषेण ।
बोद्धव्यं च विकर्मणः । विकर्म10 यच् छास्त्रबाह्यं पाषण्डिभिर्
आचर्यमाणं11 धातुवादशिल्पकर्मादि च । अकर्मणश् च
प्रतिषिद्धलशुनभक्षणादेः ।
काम्यस्य चापवर्गार्थिनः । तद् अप्य् अकर्तव्यम् एव । (एवं) च
त्रिविधस्यापि गहना गम्भीरा दुर्विज्ञेया गतिः ॥ 17 ॥
प्रविभज्येदानीं निर्णयं करोति ---
(कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः ।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत्

4.19

)
कर्मणीति12 । नित्ये कर्मणि स्मार्ते13 श्रौते च ।
कर्म
नोतेस्:
1. कीमकर्मेति ---व
2. षहप्रमाण ---व
3. कर्म विभागे ---ल
4. ज्ञातुमशक्या ते तु ---व
5. पक्षादा कृत्वा ---व
6. शुभात्मंसारवरिवर्तार्थत्वान्मतं
7. वीधव्यमित्याशङ्क्याह 16
8. कर्मति ---व
9. तस्य रूपं ---व
10. विक्कर्म ---व
11. पाषांडिभिराचार्यमाणं ---व
पाषाण्डिभिराचर्य
12. कर्मणोति ---वा
13. स्मार्ने
प्. 115
क्रियत1 इति कर्मफलम् उच्यते2 । फलाभावं यः पश्येद्
ईश्वरोद्देशेन3
क्रियमाणत्वात् । तद्व्यतिरिक्तो ऽभ्युदयः --- सर्व एते4 पुण्यलोका
भवन्ति --- इत्य् एवमादिप्राप्तो5 वार्यते । अकर्मणि6 काम्ये प्रतिषिद्धे
च
कर्मफलभावं7 काम्ये स्वर्गपश्वादि यथाश्रुतं प्रतिषिद्धे च
नरकपातादिर् विगर्हणां8 च । उभयत्र9 विषयसप्तमी ।
न पुनर् अधिकरणसप्तमी10 । यथा शरावे बदराणीति11 ।
तद् एतत् पश्येत् विचारयेत् । ज्ञात्वा चैतद् उभयं परिहरेद् इति ।
स बुद्धिमान् अध्यात्मशास्त्रविहितबुद्धित्वात् ।
स च युक्तो योगी कृत्स्नकर्मकृत् ।
कृत्स्न आत्मा12 । तदर्थं कर्म करोतीति कृत्स्नकर्मकृत्13 ।
न चापवर्गो नाम कर्मणः14 फलं ज्ञानकर्मभ्यां
पूर्वकर्मविधिनिवृत्तिद्वारेण15 तस्याभिव्यज्यमानत्वात्16 ।
यथा प्रदीपेनान्धकारनिवृत्तिद्वारेण17 घटादिर् अभिव्यज्यते ।
मोक्षो हि नित्य एव न घट इव कुम्भकारेण क्रियते । अतो युक्तं
कर्मण्य्
अकर्म यः पश्येद् इति ।18
अन्ये पुनर् अन्यथा (व्या)चक्षते । काम्ये19 कर्मण्य् अकर्म यः पश्येत्
फलाभावम् । अकर्मणि नित्ये कर्मापवर्गानुगुणं फलं20 पश्येद् इति
।
नोतेस्:
1. क्रियत् ---व
2. ... मुच्यत ---व
3. फलाभावे यः पश्ये ईश्वरोदेशेन^ ---व
4. राते
5. ... ^प्रासो ---व
6. अकणि ---व
7. कर्मकलभावं ---व
8. नरक पातादिशिः विगर्हणा च ---व
नरकपातादिशिविगर्हणा च ---ल
9. चोभथत्र ---च
10. ... सजमीइ ---व
11. शरोवेवदराणोति
12. योगी कृस्त्त्र कर्मकत्स्न आत्मा ---व
13. कृत्स्नकर्मकृत् ---व
14. वाम कर्मणः ---व
15. ... कर्मविधानिवृत्ति^ ---व
16. तस्याभिव्यत्यमानक्ष्वात् ---व
तस्याभिव्यज्यमाणत्वात् ---ल
17. प्रदोयेणान्ध^ ---ल
प्रदोपेणाध^ ---व
18. कुम्भकारेण क्रियतेतीयुक्तं कर्मण्यकर्मपूर्वपश्यदिति ---व
19. कामे ---व
20. पलं ---व
प्. 116
तद् इदम् असद्व्याख्यानम्1 । कुरु कर्म --- इति कर्मशास्त्रेण नित्यं
कर्म मोक्षार्थिनः कर्तव्यम् उपदिश्यते2 न काम्यम् । न चाकाम्येष्व्
अग्निहोत्रादिषु3 श्रूयमाणफलाभावे कर्तव्यतास्ति4
विध्यन्तराभावात् ।
न च फलान्तरं कल्पयितुं शक्यं स्वमनीषिकया5 । तथा चोक्तम्
अशक्यं हि तत्पुरुषेण ज्ञातुम् ऋते6 वचनाद् इति । न चाकर्मशब्देन7
नित्यं कर्मोच्यते । किं कर्म किम् अकर्मेति प्रक्रमविरोधात् ।8
अपरे तु कर्मद्वेषिणः स्वमतिपरिकल्पितश्लोकबाह्यम् अर्थम् अस्मिन्न्
आरोपितुम् ईहमानाः श्रोत्रियश्रुति(निष्ठ)बुद्धिव्यामोहनं9 कुर्वन्तो
बहु
भाषन्ते10 । प्रकृतसम्बन्धं च कर्मणि व्यापारे11 कर्माभावं
यः पश्येत् । न हि परमार्थतः12 क्रिया नामास्ति13 । यथा किल
नौयायिनां तीरगतवृक्षेषु गमनबुद्धिर् भ्रान्तिस् तथा14
सर्वक्रियाबुद्धिर् इति । यथा क्षणिकवादिनो बौद्धा
देवदत्तादिगन्तृव्यतिरेकेण गमनक्रियां नेच्छन्ति15 । तथाप्य् अत्र
ब्रूमहे16 --- क्रिया नास्तीति न प्रतिज्ञातुं17 शक्यते ।
अङ्गुलिश् चलति । देवदत्तो गच्छति । (ब्रह्मदत्तः) पचति ।
पर्णं चलतीति18 सर्वप्राणिप्रत्यक्षत्वात् ।
नोतेस्:
1. तदिममसध्यारत्वनं ---व
तदिसममसद्व्याख्या
2. कर्तव्यसुपदिश्यते ---व
3. चकाम्येग्निहोत्रादिषु ---व
4. कर्तव्यतास्रि ---व
5. स्वमर्नषिकपा ---व
6. पुषेण जातुमृते ---व
7. ... शब्दोन^ ---व
8. किर्मकमेमि प्रक्रर्मविरोधात् ---व
9. ... श्लोकवास्वमर्थ^ ---व
10. श्रोतृबुद्धिर्व्यामोहनं कुवन्तोबदुभाषन्ते ---व
11. प्रकृतमवध च कर्मणिव्यापारे ---व
प्रकृतमवन्धं च कर्मणि^ ---ल
12. परमार्थातः ---व
13. नाप्रास्ति ---व
14. गमनुन्बुद्धिभ्रान्तिस्तथा ---व
गमनुनबुद्धिर्भ्रान्तिस्तथा ---ल
15. क्षणिकवोदिनी बोद्धा देवदत्तादिगतृव्यति ... नेछन्ति ---व
16. ब्रूनहे ---व
17. क्रियान्नास्तीति न प्रतिजातु ---व
18. शक्यते गुलितदेयदत्तो गछति पचति यंणं चलतीति ---व
...पलं चलती^ ---ल
प्. 117
प्रत्यक्षद्रव्यसमवेता हि क्रिया प्रत्यक्षा । अप्रत्यक्षद्रव्यसमवेता
त्व् अनुमेया । यथा पर्णादिचलनेन कार्येण वायोर् गमनम् अनुमीयते1
।
न चात्र कारणदोषो2 बाधकप्रत्ययो वा विद्यते । नौयाने तु तत्र
कारणदोषस् तीरगतनगगमनभ्रान्तित्वेन च ।
मृगतृष्णिकायां3 सलिलं नास्तीति गङ्गाम्भो4 नास्तीति (न)
शक्यते
वक्तुम् ।
बौद्धस्याप्य् एतद् एवोत्तरम् । अतः5 कर्मणो ऽभावप्रतिज्ञा तावद्
असम्बद्धा । अथ कर्मण्य् आत्मनि कर्माभावं पश्येद् इति व्याख्यायते
तद् अप्य् असत्6 । न हि कर्मशब्देनात्माभिधीयते । तदानीं कर्मणीत्य्
अपि न7 वक्तव्यम् । सप्तम्यन्तं कर्मशब्दम् अनुच्चार्यात्मन्य् अकर्म
पश्ये(द् इ)ति8 वक्तव्यम् । व्यामोहायात्मन्य् अकर्म कर्माभावं पश्येद्
इत्य् उक्ते(ः) तत्र कर्म नास्तीति गम्यते । किं च9 --- न जायते
म्रियते10
वा --- इत्य् आत्मनि षड् अपि भावविकाराः पूर्वम् एव11 निराकृताः ।
अहङ्कारविमूढात्मा12 इति चोक्तम् । अतः पुनरुक्तम् इह स्यात्
अप्रस्तुतं13 च । कर्मप्रकरणं चैतद् वर्तते ।
किं च यद्य् अकर्मणि14 च कर्म य इति15 स्वमनीषिकया व्याख्यातम्16 ।
शरीरेन्द्रियव्यापारोपगमे ऽहं सुखम् आसिष्य17 इति
नोतेस्:
1. वार्योग^ ---व
2. क्यरण^ ---व
3. च गतृस्मिकायां ---व
4. गङ्गाम्भो ---व
5. बौद्धस्यापेनदेवोत्तमतः ---व
6. कर्मणो भा भावप्रतिज्ञातावद्धसंवधा अप्यकर्मण्यात्मनिकमोभावं पश्येदिति व्याख्यायेत ततप्पिसत् ---व
7. तदानी कर्मणित्यन ---व
8. सप्तम्यकर्म^ पश्येति ---ल
सप्तमन्तं कर्मशब्दमनुश्चर्यात्मन्यकर्म पश्येति ---व
9. किम् च ---व
10. स्तियते ---व
11. पूर्नमेव ---व
12. ... विमूयत्मेति ---व
13. पुनक्तमितस्याद प्रक्ष्मुनं च ---व
14. ... कर्माणि ---व
15. कर्मथ इति ---व
16. ... मनीषिकवाव्याख्यानं ---व
17. शरीरेन्द्रियव्यापारापरमेह सुखनासिष्ये ---व
प्. 118
किल कश्चिन् मन्यते1 । तदोपरमे कर्मणि2 कर्मव्यापारं पश्येद् इति ---
तद् अप्य् अ[प]व्याख्यानं पूर्वं निराकृतत्वात्3 । कर्मेन्द्रियाणि4
संयम्य इति यश् चोपरमात्मसुखं मन्यते नासौ पुनस् तत्र
कर्मकर्तव्यतां प्रतिपद्यते निमित्ताभावात् । अथान्यः पश्येत् स
तर्हि
द्रष्टा5 कर्म करोतीति । ननु पूर्वम् एव भगवता नियुक्तो नियतं
कुरु
कर्म त्वम् इति । इदानीं पुनरुक्तम् । न च गहनत्वाद् अस्यार्थस्य
पुनः
पुनर् वक्तव्यता । आत्मनि6 कर्मणस् तूपरमश् च न कर्तव्य इति7
पूर्वोक्तस्यापि भगवद्वचनस्य विविक्तार्थत्वाद् अनवस्थाप्रसङ्गाच्
च8 ।

तस्मात् पूर्वोक्त एव श्लोकार्थः9 ॥ 18 ॥
पूर्वश्लोकार्थम् उत्तरेण10 स्पष्ठीकर्तुम् आह ---
(यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तम् आहुः पण्डितं बुधाः

4.20

)
यस्येति । समारभ्यन्त इति समारम्भा व्यापाराः11 । काम्यत इति
कामः फलम् । तत्सङ्कल्परहिता ब्रह्मज्ञानाग्निदग्धकर्माणस्
तम् आहुर् ब्रह्मविदः पण्डितम्12 । ये पुनर् अनात्मविदः कर्म
कुर्वन्ति13
न ते पण्डिता इति । यथाभूतार्थकथनम् एतत्14 ।
स्तुत्यर्थो ऽयं15 श्लोक इति केचित् । तद् अयुक्तम्16 । विधिशेषत्वेन हि
स्तुतिः
प्रवर्तते । यथा पूर्णाहुतिविधेः स्तुत्यर्थः --- पूर्णाहुत्या17
नोतेस्:
1. कश्चित्मन्यते ---व
2. तत्रोपरमेकृर्मणि ---व
3. पूर्व नि^ ---व
4. कर्मेन्द्रियणि ---व
5. स तर्द्धिदष्टा ---व
6. वक्तव्यतात्मनि ---व
7. कर्मणस्सुपरमश्च न कर्तव्यत इति ---व
8. ... नवस्याप्रसङ्गाच ---व
9. पूर्वोक्त ए श्लो^ ---व
10. ... मुत्तरेणास्य ---व
11. समारभ्यत इति समारभा व्यापाराः ---व
12. तत्सङ्कल्परहीति
ब्रह्मज्ञानाग्निदग्धकर्माणस्तमाकृर्ब्रह्माविदः
पडितम् ---व
13. ये मुनरनात्मविदः कर्म कवति ---व
14. ... ^मेनत्
15. सुत्यर्थो ---व
16. तदयुक्त ---व
17. पुर्णादुत्या ---व
प्. 119
सर्वान् कामान् अवाप्नोति1 इति । स्तुतिश् चास्मत्पक्षे युज्यते ।
पूर्वत्र2 फलाभिसन्धिरहितस्य3 कर्मणो विधानत्वात् । त्वत्पक्षे
किं
स्तूयते4 । कर्मणि हि कर्माभावदर्शनं5 मिथ्या । ज्ञानं स्तूयते6
।
न हि सर्वलोकप्रत्यक्षा क्रिया प्रत्याख्यातुं शक्येत्य् उक्तम्7 ॥ 19 ॥
यश् चैवं फलसङ्कल्परहितः परमार्थदर्शी स कर्मणि प्रवृत्तो
ऽपि
नैव कर्तेत्य् उच्यत इत्य् आह ---
(त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्य् अभिप्रवृत्तो ऽपि नैव किञ्चित् करोति सः

4.21

)
त्यक्त्वेति । अनित्येभ्यः फलेभ्यो व्यावृत्तचेता नित्येन परमात्मना
तृप्तो नित्यतृप्तो9 निराश्रयः फलसाधनभूत आश्रयो यस्य10 न
विद्यते स कुर्वन्न् अपि न करोति फलानुषङ्गाभावात्11 ।
कर्मण्य् एवाधिकारस् ते --- इति यद्य् अपि12 धर्माधिकारः
फलानधिकारश् चोक्तस् तथाप्य् अत्र13 न पुनर् उक्तता । अस्य
प्रकरणस्य
विशेषार्थत्वात् । कर्माकर्मप्रविभागद्वारेणाकर्म14 काम्यं
प्रतिषिद्धं च न कर्तव्यम् । नित्यं च कर्म15 ब्रह्माराधनार्थं16
कर्तव्यम् । कुर्वंश् चाप्नोति17 किल्बिषम् इति
ब्रह्मार्पणन्यायेनाद्वैतावस्थितचेतसा कर्तव्यम् इति18 ॥ 20 ॥
नोतेस्:
1. ... वाप्तोतीति ---व
2. षूर्वत्र ... ---व
3. भिसन्धि ---व
4. विधानत्वात्त्वत्पक्षे किं स्रूयते ---व
5. कमीभावार्शनं ---व
6. सानं स्रूयते ---व
7. प्रत्याख्यातुं शकेत्युक्तम् 29 ---व
8. त्यक्तोति ---
9. नित्यदभो ---व
10. ... धनमूत अयो यस्य ---व
11. फलानुयङ्गाभावात् ---व
12. यस्वप्य्
13. ... कारश्चौक्त^ ---व
14. विशेषार्थत्वाकर्माकर्म^ ---ल
15. कर्य ---व
16. ब्रह्माराधनांर्थ ---व
17. कर्तध्यभकुर्वचाप्नोचि ---व
18. कर्तव्य इति ---ल
कर्तव्यति ---व
प्. 120
किं च1 ---
(निराशीर् यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्न् आप्नोति किल्बिषम्

4.22

)
निराशीर् इति । निर्गता फलाशीर् यस्य स निराशीः2 ।
चित्तं चात्मा च चित्तात्मानौ । तौ संयतौ3 यस्य स यतचित्तात्मा4 ।
आत्मशब्देन सेन्द्रियं शरीरं गृह्यते5 । नैषु6 पुत्रादिषु वा
ममैते ऽहम् एतेषाम् इति7 परिग्रहबुद्धिर् यस्य नास्त्य् असौ
त्यक्तसर्वपरिग्रहः । किम् इदं शारीरं नाम । शारीरनिर्वर्त्यम्
आहो8
शरीरस्थित्यर्थम् इति । न तावत् स्थित्यर्थम् ।
ध्रियमाणशरीरस्यार्थप्राप्तत्वाद् उपदेशो ऽनर्थकः10
शरीरयात्रापि
च इत्य् उक्तत्वाच् च । तस्माच् छरीरं शरीरेन्द्रियनिर्वर्त्यं
शास्त्रचोदितं कर्म11 । ननु प्रतिषिद्धम् अपि शरीरनिर्वर्त्यं स्यात् ।
नैष दोषः । वैदिककर्मप्रकरणात् । केवलम् इति च फलरहितम्12 ।
ननु शास्त्रीयं कर्म13 कुर्वतः किल्बिषं नाप्नोतीत्य्
अप्राप्तप्रतिषेधप्रसङ्गः14 । अत्राभिधीयते ---
वाक्यतात्पर्यापरिज्ञानम् अत्रापराध्यति15 । कुर्वन्न् एव न प्राप्नोति16
अकुर्वंस् तु विहिताकरणाद् आप्नोति17 किल्बिषं पापम् । अथ वा
किल्बिषं
संसारं18 प्रतिपद्यत इति योजनान्तरम् ।
नोतेस्:
1. किच ---व
2. निराशी ---व
3. संयुतौ ---व
4. यतधितात्मा ---व
5. शब्दोनर्सद्रियं शरीरं गृस्वते ---व
6. नेषु ---ल
7. ... हमेतिषामिति ---व
8. नास्तिसौ परिग्रहः त्युक्तसर्व ---व
9. ... निर्वत्येमाहो ---व
10. उपदेशोरनर्थकः ---व
11. तस्माच्छारीरन्द्रियनिवर्त्यं शास्त्रं चोदितं कर्म ---व
तस्माच्छारीरेन्द्रिय^ ---ल
12. रहित ---व
13. शास्त्रीय कर्म ---व
14. किल्वीषं नामोतित्यनासतिषेप्रसङ्गः ---व
15. ... तात्पर्थ्यापरिज्ञानमात्रपराध्यर्थे ---व
16. कुर्वन्नेवेन प्राप्तोति ---व
17. विहिताकरणा व्याप्नोति ---व
18. किल्विसंसारं ---व
प्. 121
अपरे तु शरीरस्थित्यर्थं भिक्षाटनाशनपानादि कुर्वन्ति1
इति योजयन्ति । तद् अपि2 केवलम् अभिमानरहितम् इति । तद् अपव्याख्यानम्
।
न हि भिक्षाटनं करोमीत्य् अभिमानरहितस्य3 बुद्धिपूर्वम् अन्तरेण
तत्र प्रवृत्तेर् एव कल्पते । क्षुत्पिपासाभ्यां पीड्यमानस्
तत्प्रतीकाराय4 भोजनादौ कर्तृत्वम् अनुभवन् वैदिके कर्मणि5
कथं
कर्तृत्वं न प्रतिपद्येत । तद् इदं राजपुत्रचेष्टितम् ।
यदि वैदिके कर्मणि6 ब्रह्मज्ञानविरोधात् कर्तृत्वं निवृत्तं7 तथा
लौकिके ऽपीत्य् अविशेषः8 । अथ वोभयत्रापि कर्तृत्वं न लभ्यम्
अर्धजरतीयम्9 । तस्माद् अव्युत्पन्नविप्रलब्धबुद्धिषु10 व्याख्यानम्
इदं
शोभते । नास्मासु ये प्रमाणवृत्तम् अनुरुन्धामहे11 ॥ 21 ॥
यथैव फलसङ्कल्पो न कर्तव्यस् तथान्ये ऽपि चित्तधर्मा12
उपदिश्यन्ते ---
(यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धाव् असिद्धौ च कृत्वापि न निबन्ध्यते

4.23

)
यदृच्छेति13 । यदृच्छालाभेन प्रार्थितोपनतलाभेन सन्तुष्टो14
रागद्वेषसुखदुःखादिद्वन्द्वातीतो15 विगतं मात्सर्यं16 परेषु
वैरबन्धो17 यस्यासौ विमत्सरो ऽभीष्टवस्तुसिद्धाव् असिद्धौ च समः
।
कर्म कृत्वापि न निबध्यते । बन्धहेतूनां18 चित्तदोषाणाम्
अभावात्19 ॥ 22 ॥
नोतेस्:
1. शरीरस्थित्यथभि^ ---ल
शरास्थित्यभि^ भिक्षाटनाशनयानादि कुर्वन्ति ---व
2. तटपि
3. करोमीत्याभिमानहिमतस्य ---व
4. ... मानस्तस्त्रनीकाराय ---व
5. वैदिकिकर्मणि ---व
6. कर्मणि ---व
7. कर्तृत्वलिवृत्तं ---व
कर्तृत्वनिबृत्त ---ल
8. लोकिकेपित्यवि^
9. ... मघ जरतोयं ---व
10. तस्मादत्युत्पन्नविप्रलव्रवुद्धिषु ---व
11. ... मनुरुद्धामह ---व
12. तथान्योपि चतुधर्मा ---
13. यवृच्छेति^
14. यदछाला^ ---व
सन्नुट्टो ---व
15. ... द्वेपसुखदुःखादिद्वन्द्वातीर्ति ---व
16. मात्सरं ---व
17. वैरंवहो ---व
18. न घ हतूणां ---व
वन्धहेतूणां ---ल
19. ..डोषाणाभावात् ---व
प्. 122
प्रकरणोपसंहारार्थः1 श्लोकः ---
(गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते

4.24

)
गतसङ्गस्य मुक्तस्य ज्ञानावेति । गतसङ्गस्य मुक्तस्य रागादिभिर्
दोषैर् आत्मज्ञानावस्थितचेतसो2 यज्ञाय
परमात्माराधनायारभतः
कर्मारभमाणस्य3 तत्समग्रम् । सम् इत्य् एकीभावे ऽग्रं फलं तेन4
सह प्रविलीयते5 ब्रह्मरूपं प्रतिपद्यते । कर्मापि ब्रह्मैव
तत्प्रभवत्वात् । यो हि6 कर्म त्यजति7 तेन ब्र्हमैव त्यक्तं भवति ।
अस्मिं कर्मप्रकरणे8 सर्वासु गीतासु कर्मप्रवृत्तिर् एव9 भगवता
दर्शिता --- यस्य सर्वे समारम्भाः --- इत्य् आरभ्य ।
तद् अत्र भगवन्मतविनाशकाः केचिन् महामायाविनः सूत्रकम् इव
पटं कुर्वन्तः10 कर्मनिवृत्तिम् एव11 वर्णयन्तो लोकं
विप्रतारयन्ति ॥ 23 ॥12
क्रियाकारकेषु सर्वेषु ब्रह्माभिगतं पश्यन् स्वयं ब्रह्मास्मीति
भावितात्मा तेनैव रूपेणावस्थाय कर्म कुर्वन् ब्रह्मैव आप्नोतीति
फलं दर्शयन्न् आह13 ---
(ब्रह्मार्पणं ब्रह्महविर् ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना

4.25

)
नोतेस्:
1. प्रकरर्णोपसंहारार्थः ---व
2. मुक्तस्य गादिभिर्दोषेरात्मनावस्थितचेतसो ---व
3. कर्मारेभमानस्य ---व
4. तेत ---व
5. प्रलीः ---व
6. ... प्रभवलाघोहि ---व
7. त्येजते ---ल, व
8. कर्मकरणे ---व
9. गीतासुकप्तिवृत्तिरेव ---व
10. विनाशकरः कोथत्महामायाविनोसून्नकमिव यट कुर्वतः ---व
... मायाविनो सूत्रमिव पटां^ ---ल
11. ^निवृत्तमेव ---व
12. 33 ---व
13. फलदर्शन्नाह ---व
प्. 123
ब्रह्मेति । अर्प्यते समर्प्यते येन जुहूर् हस्तादिना तत्करणं कारकं
ब्रह्म हविःशब्दसाहचर्याद् धव्यसेवार्पणं1 प्रतीयते ।
हविः सोमाज्यपयःप्रभृति हूयमानं द्रव्यम्2 ।
देवताम् उद्दिश्य हूयत इति सम्प्रदानकारकं देवताप्य् आक्षिप्तैव3 ।
ब्रह्मैव अग्निर् ब्रह्माग्निर् आहवनीयः स्मार्तश् चोपासनीयस् तस्मिन्न्
अधिकरणे4 स्वयं5 ब्रह्मणा कर्त्रा हुतं हवनं निर्वर्तितम् ।
तेनैव6 कुर्वता ब्रह्मैव गन्तव्यं प्राप्तव्यम् । ब्रह्मात्मकं कर्म
ब्रह्मकर्म तस्मिं कर्मणि समाधिर् यस्यासौ7 ब्रह्मकर्मसमाधिस् तेन
।
पञ्चकारकग्रहणं प्रदर्शनार्थम्8 । यावान् यत्र श्रौतः स्मार्तो
वा
कारकग्रामस् तत्सर्वं ब्रह्मेति प्रतिपत्तव्यम् इति8 । ब्रह्मैव10
समस्तः
प्रपञ्चः --- सर्वं खल्व् इदं11 ब्रह्म --- इति श्रुतेः12 ।
तत्र यः सर्वेषु विकारेषु कारणरूपं ब्रह्मानुगतं13 पश्यति स
सम्यग्दर्शी14 । यथा शरावादिषु मृत्स्वरूपम् अनुगतम्15 ।
न चात्र --- मनो ब्रह्म --- इतिवद् ब्रह्मदृष्ट्या कारकोपासनं16
चोद्यते किं तु17 तत्त्वदर्शनम् ।
तत्र हि युक्तम् इति शब्दप्रयोगात् प्रतीकोपासनम् । अत एव
सर्वात्मदर्शित्वात् --- ब्रह्मैव तेन गन्तव्यम् --- इति
ब्रह्मप्राप्तिवचनं18 युक्तम् ।
ननु --- श्रेयान् द्रव्यमयात्19 --- इति ज्ञानयज्ञस्तुत्यर्थं
नोतेस्:
1. शबृसैचयदित्यमेवार्यणं ---व
2. ... हूप्रमान^ ---व
3. ... कारकडेवता- ---ल
4. ... रावहनो ^दवेतायः स्थार्तचोपासनस्त^ ---व
... पासनस्त^ ---ल
5. रवय ---व
6. तेनेवं ---व
7. ब्रह्मात्मकं कर्मसमाधिस्तैमय च कारकग्रहणं ---व
8. प्रदर्शनार्थ ---व
9. ... पत्तव्यभि ---व
10. ब्रह्मेव ---व
11. सर्व खल्विद ---व
12. श्रुते ---व
13. ब्रह्मानुगते ---व
14. सम्पादशै ---व
15. सवादिषु ऋत्स्वरूप^ ---व
16. न चात्रप्ततो ब्रह्मेतिवहदष्य्याकरकोपामनं ---व
17. कितु ---व
18. ब्रह्मप्राप्तिवञ्चतं च
19. तनु श्रेयान्दव्यमपादिति ---व
प्. 124
प्रकरणम्1 । केयम् आकस्मिकी2 प्रतिभा ।
अनेकविधायकवाक्यसमूहो3 हि प्रकरणम् उच्यते ।
ते चानेके यज्ञविशेषाः प्रतिवाक्यं ब्रह्मप्राप्त्युपाया उपदिश्यन्ते ।
ज्ञानज्ञापकत्वान् नानुवादः । स्तुतिश् च तेनैकेन4 श्लोकेन सिद्धेति
न कृत्स्नं प्रकरणं स्तुत्यर्थम् । न च विधिम् अन्तरेण स्तुतिः
क्वचिद् अर्थवती । किञ्च विद्यमानेन (गुणेन) पादकं6 तर्हि शास्त्रं
न स्तुतिपरम् । द्वितीये7 च कल्पे सर्ववेदोक्तम् अनृतम् इति9 प्रतिपद्येत ।
अनिष्टं चैतत्10 ।
अन्ये तु11 ब्रह्मार्पणम् इत्य् ओङ्कारे ब्रह्मोपासनम् इत्य् उपदि(श्यते)12 इति
वदन्ति ।
तेनेयं त्रयी13 विद्या वर्तते । एतस्यैवाक्षरस्य प्रशासने गार्गि
सूर्याचन्द्रमसौ --- इति श्रुतिः14 किलैतम् अर्थं दर्शयतीति तद्
असत्15 ।
उद्गीथावयवस्यौङ्कारस्य16 वर्णात्मकस्योपासनं तत्र विधीयते
श्रुतत्वान् न ब्रह्मोपासनम् इति स्थितम् । तेन --- इयम् --- इत्य् एतस्यैव
स्तुत्यर्थम् इति व्याख्यातम् इत्य् अलं प्रसङ्गेन ॥ 24 ॥
इदानीं यज्ञभेदाः प्रदर्श्यन्ते17 । क्वचित् कस्यचिद् अधिकारः18
सम्भवति ---
नोतेस्:
1. ज्ञानयज्ञास्तुत्यर्थमकणं ---व
2. ... माकस्मिको ---व
3. ... वाक्यसमुहो ---व
4. तेनेकेन ---व
5. स्तुतिशहोरिवदविधमानेन ---व
6. यर्था प्रति^ ---व
7. द्वितोये ---व
8. संर्व ... ---व
9. ... मवृतमिति ---व
10. ... निष्टचेतत् ---व
11. अत्ये ---व
12. ब्रह्मापणमित्याङ्करिब्रह्मोपासनमित्युपदिः ---व
ब्रह्मोपासनमित्युपदि ---ल
13. त्रयो ---व
14. एतस्यैवाक्षरस्यापदित्या इति श्रुतेः ---व
एतस्यैवाक्षरस्यापदित्या इति ---ल
15. ततसत् ---व
16. उदीथावयवस्योकारस्य ---व
17. पसभेदाः प्रदंर्श्यते ---व
18. ... कार ---व
प्. 125
(द्वैवम् एवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति

4.26

)
दैवम् इति । देवेषु भवं यज्ञं1 दैवं हिरण्यगर्भोपासनम्
आदित्याद्युपासनं च2 । तथा च ब्राह्मणम् --- विद्यया देवलोको3
देवो भूत्वा देवान् अप्य् एति --- इति । कर्मयोगिनः पर्युपासते ।
देवादिभावे ऽपि ज्ञानोत्पत्तिर् इष्यते4 । तद् यो यो देवानां
प्रत्यबुध्यत5 स एव तद् अभवत् तथर्षीणां तथा मनुष्याणाम्
--- इति श्रुतेः ।
ब्रह्मैवाग्निस् तस्मिन् यज्ञं6 स्वम् आत्मानम् अन्तःकरणं7 विवक्षितम्
।
न जीवः8 ।
यत् किञ्चिज् ज्ञेयं9 जानातीति यज्ञ इत्य् आत्मवचनो ऽत्र निर्दिश्यते10 ।
यज्ञेनात्मनात्मसमीपवर्तिना11 मनसोपजुह्वति12 । ब्रह्मात्मनोर्
एकीकरणं13 विवक्षितम् ॥ 25 ॥
(श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति ।
शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति

4.27

)
श्तोरेति । अन्ये गुरुकुलवासिनो नैष्ठिका14 ब्रह्मचारिणः ।
संयम एवाग्निः संयमाग्निः । प्रतीन्द्रियं15 संयमभेदाद्
बहुवचनम्16 । तेषु श्रोत्रादीनि जुह्वति17 । ब्रह्मचर्येण कालं
क्षपयन्तीत्य् अर्थः ।
शब्दादीन् विषयान् अन्ये गृहस्थाः शास्त्राभ्यनुज्ञानाद्
इन्द्रियाग्निषु18
जुह्वति19 योजयन्ति । तथा च स्मृतिः --- नित्यं सुगन्धस्नानशीलः
इति ॥ 26 ॥
नोतेस्:
1. भवयेज्ञं ---व
2. ... मादित्याकपासनं च ---व
3. विधर्यादवलोको ---व
4. ... रिव्यते ---व
5. तथो देवानां प्रसबुद्ध्यत ---व
6. यज्ञं ---व
7. स्वमात्मकरणं ---व
8. विपक्षिडनं ---व
9. ज्जेयं ---व
10. र्निर्दिश्यते ---व
11. ... वन्तिना ---व
12. ... जुहूति ---व
13. ... रेकेकरणं ---व
14. गुरकुलवासिनो नेष्टिका ---व
15. प्रतिद्रियं ---व
16. बहुवचने ---व
17. जुहुतिं
18. शास्त्राभ्यनुज्ञानाडिन्द्रीयाग्निषु ---व
19. जुह्वतो ---व
प्. 126
अपरे तु1 ---
(सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते

4.28

)
सर्वाणीति । सर्वाणीन्द्रियकर्माणि2 बुद्धीन्द्रियाणां कर्माणि
रूपादिग्रहणानि । कर्मेन्द्रियाणां च वचनाद्
आनविहरणोत्सर्गानन्दलक्षणानि3 । प्राणः पञ्च वायवः ।
तेषां कर्माणि । बहिर् निर्गमनं4 प्राणकर्म ।
अधस्ताद् अवनयनम् अपानकर्म5 । व्यायमनं व्यानकर्म ।
आकुञ्चनप्रसारणाद् यशितपीतस्य6 समानयनं7 समानकर्म ।
ऊर्ध्वनयनम् उदानकर्म । आत्मनि संयम एवाग्निस् तस्मिन् जुह्वति8 ।
सम्यग्ज्ञानदोपिते9 यो ऽयं ज्ञानप्रबन्धः क्रियाविस्तारश्
चात्मप्रबन्धाद् आत्मन्य् एवासौ प्रलीयत10 इति मन्यमानास् तत्कृतेन
गुणदोषेण प्रत्यहं न लिप्यन्त11 इति ॥ 27 ॥
अमी चापरे ---
(द्रव्ययज्ञास् तपोयज्ञा योगयज्ञास् तथापरे ।
स्वाध्यायज्ञानयज्ञाश् च यतयः संशितव्रताः

4.29

)
द्रव्येति । द्रव्यैः सोमाज्यपयःप्रभृतिभिर् निर्वर्त्यो यज्ञो येषां
ते द्रव्ययज्ञाः । तपः कृच्छ्रचान्द्रायणादि यजन्ते12
तपोयज्ञाः13 ।
नोतेस्:
1. अपरे तुः 26 ---व
... तु 26 ---ल
2. सर्वाणान्द्रिय^ ---व
3. च चनादानतिदरणोत्सर्गानन्दलक्षणानि ---व
4. वहिनिर्गमतं ---व
5. कर्मावस्तादषनयन^ ---ल
कर्मावस्तादषनायन^ ---व
6. ... द्यशीतपीतस्य ---ल
7. समातपन ---व
8. तस्मिं जुह्वन्ति ---व
9. सम्यम्रादिपिते ---व
10. योयं व्यानप्रतिबन्धः कियाविस्तरश्चात्मप्रवन्धादात्मन्येवासौ
प्रलीषत ---व
11. दोषेणा प्रहवं लिप्यन्त ---व
12. सोमात्यपयः प्रभृतिभिनिंवन्त्यो ज्ञेये प्राते द्रव्य यतरः
तपः कृछद्यान्द्रयणादि ---व
13. ... यज्ञः
प्. 127
प्रत्याहारस् तथा ध्यानं प्राणायाम् अथो धारणा ।
तर्कश् चैव1 समाधिश् च षडङ्गो2 योग उच्यते3 ॥
स एव यज्ञो येषां ते योगयज्ञाः । स्वाध्याययज्ञो वेदाभ्यासः ।
ज्ञानयज्ञो4 वेदार्थज्ञानं यज्ञो येषां ते ज्ञानयज्ञाः ।
मीमांसा शारीरकादिव्याख्यातारो यतयो यत्नवन्तः5 संशितव्रता
अखण्डितव्रताः ॥ 28 ॥
अमी चापरे ---
(अपाने जुह्वति प्राणं प्राणे ऽपानं तथापरे ।
प्राणापानगती रुद्ध्वा प्राणायाम् अपरायणाः

4.30

)
अपानेति । अपाने पूरणवृत्तौ प्राणं रेचकवृत्तिं जुह्वति ।
मस्तकमध्यवर्तिनी6 सुषुम्णा नाडी । तद्द्वारेण बाह्यं7
वायुमन्तः
प्रवेशयन्ति । आदित्यमण्डलाद् आरभ्य हृदये चित्तप्रवेशानुसारी8
वायुः प्रवेशितो9 भवति । अथ विपर्ययेण प्राणे10 रेचकवृत्तौ11
पूरणवृत्तिं यावद् आदित्यस् तावच् चित्तवृत्तिम् ऊर्ध्वाम् उद्गमयन्ति12
।
सो ऽयं ब्रह्मपथो योगिनाम् उत्क्रान्तिकाले13 सम्यगभ्यस्त उपयुज्यते ।
प्राणापानगती प्राणापानवृत्ती14 रुद्ध्वा निरुद्ध्य
यतिवच्छरीरं15 कुम्भकवृत्त्या पूरयित्वा कुम्भकप्राणायाम्
अप्रायणाः16 ॥ 29 ॥
नोतेस्:
1. ... रणर्तकश्चैव ---व
2. षडेङ्गो ---व
3. नुच्यते
4. सानयज्ञो वेदार्थयज्ञो येषां ते ---व
5. ^व्याख्यातोरो ... यत्प्रवन्तः ---व
6. रेचकवृन्तिजुद्वमिसमकमध्यवर्तिनी ---व
7. वास्वं ---व
8. ^दारम्यतृदयेवित प्रवेशानुसारे ---व
9. मवेशितो ---व
10. प्राणै ---व
11. वृत्तौ ---व
12. ... वृत्तियावदादिस्तावचित्त वृत्तिमूर्द्यामुभ्दमायान्ति ---व
13. ... मुव्रक्ष्क्रान्तिकाले ---व
14. प्राणायामगती ... वृत्ती ---व
15. निरुद्ध्यतिवच्छरीरं ---ल
निरुद्धावृत्तिवच्छारीरं ---व
16. ... कुभकप्राणायामपरायणा 29 ---व
प्. 128
उत्तरेण गीतार्थः परिसमाप्यते ---
(अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति ।
सर्वे ऽप्य् एते यज्ञविदो यज्ञक्षपितकल्मषाः

4.31

)
अपर इति अपरे नियताहाराः । उदरस्यार्धम् अन्नेन1 पूरयेत्
तृतीयं2 भागम् उदकेन चतुर्थो वायुसञ्चारार्थः --- इति
योगशास्त्रे दर्शितम् । ते कुम्भकेनावस्थिताः3 प्राणान् प्राणेषु
जुह्वति । सर्वे प्राणापानाद् अयस् तस्याम् अवस्थायाम्
एकीभवन्तीत्य् अर्थः4 । सर्वे ऽप्य् एते यज्ञविदः पूर्वोक्तास् तेनैव
(यज्ञेन) क्षपितं कल्मषं पापं5 येषां ते तथोक्ताः ॥ 30 ॥
(यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
नायं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरुसत्तम

4.32

)
यज्ञेति । यज्ञार्थं6 विनियुक्तं द्रव्यम् । तच्छिष्टं तद्
एवामृतं
भुञ्जत इति यज्ञशिष्टामृतभुजो यथासम्भवं यान्ति प्राप्नुवन्ति
ब्रह्म सनातनं पुराणम् । साक्षात् पारम्पर्येण5 (वा)
फलाकाङ्क्षिभिः क्रियमाणा ब्रह्मप्राप्तिहेतवो भवन्ति8 ।
यः पुनर् अयज्ञस् तस्य नायं लोको ऽस्ति ।
कुतो ऽन्यः परलोक9 इति सङ्क्षेपः ॥ 31 ॥
(एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे

4.33

)
एवम् इति । एवमुक्तेन प्रकारेण ब्रह्मणो मुखे ब्रह्म वेदः तस्य10
मुखं द्वारम् उपलब्धिस्थानं11 वेदवाक्येषु वितताः प्रथिताः ।
नोतेस्:
1. उदस्यार्त्थेधर्मशनेन ---व
उदरस्यावमशनेन ---ल
2. तृतीर्यभाग^ ---व
3. कुम्भकेमावस्थिताः ---व
4. ... स्थायामेकेभवन्तीत्य् अर्थः ---व
5. पाप
6. यर्ज्ञति यज्ञार्थ ---व
7. पारयर्व्येण ---व
8. ब्रह्मप्राभिहेतवो भर्वति ---व
9. प लोक ---व
10. धेदस्त^ ---व
11. ... छरमुपलव्रिस्थानं ---व
प्. 129
एते यज्ञा1 वैदिका एव । एते न पुरुषबुद्धिप्रभवा इत्य् अभिप्रायः2
।
कर्मजान् कायिकवाचिकमानसजान् एवं ज्ञानं3 कृत्वा विमोक्ष्यसे
संसारात् । कुरु कर्मैव --- इति कर्तव्यता(या)ः प्रतिश्लोकम्
अधिकृतत्वात्4 कृत्वेति नोक्तम् ॥ 32 ॥
यदि तर्हि यज्ञैर् एव मोक्षं प्राप्यते किम् आत्मज्ञानेनेत्य् आशङ्क्याम्
आह5 ---
(श्रेयान् द्रव्यमयाद् यज्ञाज् ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते

4.34

)
श्रेयान् इति । पूर्वत्र केवलाद् एव ज्ञानान् मोक्षो नास्ति । किं तर्हि ।
कर्मसहिताद् इत्य् उक्तम् --- न कर्मणाम् अनारम्भाद्6 इति आरभ्य । अत्र
पुनः केवलाद् एव कर्मणो मोक्षः स्याद् इत्य् आशङ्क्य निरस्यते ।
अस्ति चेदम् अपि दर्शनम् । याज्ञिकानां केषाञ्चिन् मोक्षो नाम स्वर्ग
एव
तारतम्यावस्थितः7 । स च कर्मसाध्यो8 नान्यो ऽस्तीत्य्
आशङ्काबीजं9
चेदम् । एवं ज्ञात्वा विमोक्ष्यस10 इति । श्रेयान् प्रशस्यतरो11
द्रव्यमयाद्
अग्निष्टोमादेर् ज्ञानयज्ञः । कुतः । सर्वं हि ज्ञाने सति
परिसमाप्यते ऽपवर्गाय समर्थं12 भवतीत्य् अर्थः ।
तथा च श्रुतिः --- स य आत्मानम् एव लोकम् उपास्ते हास्य कर्म
क्षीयते13 --- इति । ज्ञानसहितं कर्माक्षयफलत्वान् न क्षीयत
इत्य् उच्यते ।
स्वरूपतो14 हि क्षणिकं कर्म ।
तथा --- यो वा एतद् अक्षरम् अविदित्वा
नोतेस्:
1. यज्ञ ---व
2. ... प्रभावा इसभिप्रायः ---व
3. ज्ञान ---व
4. कुरु कमैवन्ति कर्तव्यताः प्रतिश्लोकमवित्कृतव्यात्^ ---व
5. ... ज्ञामेनेत्याशङ्कयामाह ---व
6. कर्मणाननारम्भा^ ---व
7. निरस्यस्तिचेदपिदृर्शनयाज्ञकानां केषाञ्चित्मोक्षोनामस्वर्ग एव
तातम्यावस्थितः ---व
8. ... साध्ये ---व
9. ... शङ्कबीजं ---व
10. पिमोक्षस इति ---व
11. प्रशस्यतरी ---व
12. समर्थ ---व
13. कर्मा क्षीयत ---व
14. सरूपतो ---व
प्. 130
गार्ग्य् अस्मल्लोके जुहोति1 ददाति तपस्यत्य् अपि बहूनि2 वर्षसहस्राणि
अन्तवान् एवास्य स लोको भवति --- इति ॥ 33 ॥
तत्पुनर् आत्मज्ञानम् इत्थं विजानीहीत्य् उपदिशति3 ---
(तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्वदर्शिनः

4.35

)
तद् इति4 । प्रकर्षे(ण) निपत्य पातः प्रणिपातस् तेन
दीर्घनमस्कारादिना च तज् जानीहि5 । परिप्रश्नः किम् आत्मतत्त्वं
का
विद्या6 का चाविद्येति । देवा शुश्रूषा ।
ज्ञानिनो ऽपि सन्तः केचिद् अतत्त्वदर्शिनो8 भवन्ति ।
अतो विशेषयति9 --- तत्त्वदर्शिन इति ।
साक्षात्कृतात्मसत्तत्त्वा10 इत्य् अर्थः ॥ 34 ॥
कीदृशं तज् ज्ञानम् इति11 ---
(यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव ।
येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि

4.36

)
यद् इति । यज् ज्ञात्वाधिगम्य12 पूर्ववन् मोहं न यास्यसि ।
येन ज्ञानेन भूता(न्य् अशेषेण) कार्त्स्येन द्रक्ष्यस्य् आत्मन्य् अथो मयि
परमेश्वरे13 । यथा समुद्रे सर्वा आपः प्रविश्यैकीभवन्ति
तथात्मनि
सर्वा(दि)कारणे सर्वो ऽयं प्रपञ्चः14 प्रविश्यैकीभवतीत्य् अर्थः
।
कार्यकारणयोर्
नोतेस्:
1. तथा एवा ये तदक्षरभविदित्वा गार्ग्यस्मल्लोकेतुहोति ---व
2. वकूनि ---व
3. निमित्तं ---व
तत्पुनरात्मज्ञानमित्तं विजाभीहित्युपदीशति ---व
4. तर्दिति ---व
5. त जानीहि ---व
6. परिप्रश्नः किमात्मतत्व वा विधा ---व
7. जानिनोपि ---व
8. केचिरादत्त्वदर्शितो ---व
9. विशेषयन्ति ---व
10. साक्षात्कृतात्मसत्त्वा --व
साक्षात्कृतात्मसतत्त्वा ---ल
11. कीद्वशन्तेज्ञानमिति ---व
12. यज्ञ्ज्ञात्वाधिगम्य ---व
13. ज्ञायेठभूजाकार्त्स्येन द्रव्यस्यात्मन्यथो अपि परमेश्वरो ---व
14. ... अपि ... ---ल
15. सर्गेय प्रयञ्चः ---व
प्. 131
अभेदात् सुवर्णरुचकादिवत्1 ।
ईदृशं ज्ञानम् अपरे उपदेक्ष्यन्तीति2 ॥ 35 ॥
ज्ञानम् आहात्म्यम् अधुना3 कथ्यते ---
(अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि

4.37

)
अपीति । यद्य् अपि पापेभ्यः4 पुरुषेभ्यः पापकृत्तमो ऽसि सर्वं
वृजिनं पापं ज्ञानम् एव प्लवस् तरङ्गस् तेन5 सम्यक् तरिष्यसि ॥ 36 ॥
तत्र दृष्टान्तम् आह ---
(यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा

4.38

)
यथेति । यथैधांसीन्धनानि6 सम्यगिद्धो ऽग्निर् भस्मसात् कुरुते7
भस्मीभावं नयति तथा ज्ञानाग्निः सर्वकर्माणि यान्य्
आरब्धफलानि8 जन्मान्तरकृतानि
भविष्यच्छरीरहेतुत्वेनावस्थितानि9
यानि चास्मिं जन्मनि प्राग्ज्ञानोत्पत्तेः10 कृतानि तानि11 भस्मीकरोति
।
यानि पुनर् आरब्धफलानि12 तेषाम् उपभोगेनैव क्षयः ।
तथा च श्रुतिः --- तस्य तावद् एव चिरं यावन् न विमोक्ष्ये ऽथ
सम्पत्स्ये13 --- इति ॥ 37 ॥
नोतेस्:
1. सुवर्णरुदकादिव ---ल
2. कीदृशं ज्ञानमुपदेक्ष्यन्नीति ---ल
वृक्षं ज्ञानमुपदेत्युतीति ---व
3. ज्ञानसाहात्म्यमधुना ---व
4. यवपिपामेभ्यः ---व
5. ज्ञानम् एव हम सारङ्कस्तेन ---व
6. यथेधासीधनानि ---व
7. सम्यगिछेग्निर्भस्मसात्कुरुते ---व
8. यान्यनारभ्वफलानि ---व
9. भविष्यछरीरे ... हेतुत्वेनावस्थितानि ---व
10. ज्ञानोत्पत्तेः ---व
11. तामि ---व
12. पुनरारध्वकलानि ---व
13. विमक्ष्यतिथ^ ---व
विमोक्ष्यति थ संपत्स्य इति ---ल
प्. 132
यतश् चैवम्1 ---
(न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते ।
तत् स्वयं योगसंसिद्धिः कालेनात्मनि विन्दति

4.39

)
नहीति । न हि ज्ञानेन सदृशं पवित्रं पावनम् इह शास्त्रीये
ऽर्थे2 विद्यते । निर्धारणे सप्तमी । तच् च ज्ञानं स्वयम् इत्य्
आत्मवाची3 । कर्मयोगेन संसिद्धः कालेन4 परिपाकहेतुनात्मनि
स्वबुद्धाव् एव लभते ॥ 38 ॥
प्रणिपातादि बाह्यनिमित्तम् उक्तम्5 । इदानीम् आभ्यन्तरं6 निमित्तम् आह ---
(श्रद्धावांल् लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति

4.40

)
श्रद्धावान् इति । श्रद्धास्तिक्यबुद्धिर् आदरप्रत्ययस् तद्वांस्
तत्परश् च श्रवणमननादिषु व्यापृतः । कश् च व्याप्रियते ।
संयतेन्द्रियः7 । स लभते । तच् च लब्ध्वा8 परां शान्तिं मुक्तिम्
अचिरेण क्षिप्रं चाधिगच्छति9 ॥ 39 ॥
श्रद्धावान् इत्य् उक्तम् । तस्य प्रत्युदाहरणार्थम् आह10 ---
(अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति ।
नायं लोको ऽस्ति न परो न सुखं संशयात्मनः

4.41

)
अज्ञेति । अज्ञो ऽनात्मवादी11 यथोक्ते ऽर्थे श्रद्धाम् अकुर्वन्न्
अश्रद्दधानो
भवति वा मोक्षो न वेति12 संशयात्मा स विनश्यति । अज्ञानात् ।
नोतेस्:
1. यतच्च्येवं ---व
2. शास्त्रीयेथे ---व
3. स्वधमित्यात्मवाची ---व
4. कालेव ---व
5. ... वास्वनिमित्रः मुक्तम् ---व
6. इदानीमारभ्यन्तर^ ---व
7. व्याएतः व्याप्रियतेन्द्रियः ---व
8. तश्च लद्धा ---व
9. वाधिगच्छति ---व
10. प्रत्युदाहारणार्थमाह ---व
11. अज्ञेनात्मवार्दी ---व
12. श्रद्धमकुर्वन्तः श्रद्धधानो भडति मोक्षेन
प्. 133
संशयः पापीयान् इत्य् आह --- नायं1 लोको ऽस्ति
सर्वप्राणिसाधारणः परो दूरतः । सुखं च तस्य नास्तीति ।
इदम् अर्थाद् उक्तम् अविद्वान्2 संशयात्मा च कर्मभिर् बध्यत इति ॥ 40
॥
कं पुनर् न कर्माणि निबध्नन्ति तद् आह3 ---
(योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय

4.42

)
योगेति4 । योगेन ब्रह्मार्पणन्यायेन परमात्मनि सन्न्यस्तं सम्यग्
न्यस्तम् एकीकृतं कर्म येनात्मज्ञानेन5 च (सम्यक्) छिन्नः संशयो
येन6 तम् आत्मवन्तम् अप्रमादिनं न कर्माणि निबध्नन्ति7 ॥ 41 ॥
प्रकरणार्थम् उपसंहरति ---
(तस्माद् अज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगम् आतिष्ठो ऽत्तिष्ठ भारत

मूल पाठ: Bhagavadāśayānusaraṇabhāsya · Edition: D. Subhadropadhyaya, Varanasi, 1965 (Sarasvati Bhavana Granthamala, 94) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc