भाषा

ENहिગુ
ग्रंथ पाठ

भगवदाशयानुसरणभास्य · अध्याय 3

3.1

इति श्रीभगवद्भास्करकृते गीताभाष्ये द्वितीयो ऽध्यायः ॥
प्. 78
अथ तृतीयो ऽध्यायः
अर्जुन उवाच ---
ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव

3.2

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तद् एकं वद निश्चित्य येन श्रेयो ऽहम् आप्नुयाम्

3.3

भगवान् उवाच ---
लोके ऽस्मिं द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्

3.4

(अस्मिन् लोके निष्ठा द्विविधा स्थितिः लक्षणहेतुः ।
ज्ञानम् एव योगः । तेन साङ्ख्या ज्ञानिनो लक्ष्यन्ते ।)
यथा1 त्रिदण्डेन त्रिदण्डो ऽनाश्रमी लक्ष्यते ।
एकार्थत्वात् । एवं कर्मयोगेन योगिनां समत्वम् अयोगवताम्
ईश्वराराधनार्थं कर्म कुर्वतां साक्षात्कर्मणो ऽपि
ज्ञानोत्पत्त्युपायत्वात्2 । तथा चोक्तम् ---
ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः ।
यथादर्शतलप्रख्ये3 पश्यन्त्य् आत्मानम् आत्मनि ॥
(आत्मनि) बुद्धाव् इत्य् अर्थः । पापक्षयश् च4 धर्मात् ---
धर्मेण पापम् अपनुद --- इति तपसा ब्रह्म विजिज्ञासस्व ---
इति च श्रुतेः ।
तेषां यम् अनियमवत्त्वाद् अल्पम् अपि5 ज्ञानसामान्यम् अस्तीति ।
अतः क्वचित् प्रधानम् इति ।
एतावान् विशेषो ऽत्र --- समुच्चयः
नोतेस्:
1. र्यथा त्रिदंडेन त्रिदडनाश्रमी लक्ष्यते कांर्थ चास्सेव कर्मयोगेन योगिनां समत्व ...
2. कर्मणोत्पत्युपायत्वात्
3. तत्रादर्शन्तलप्रख्ये
4. बुद्ध्यावित्य् अर्थः पापक्षयाश्च
5. ^नियमवादुल्पं ज्ञानमपि
प्. 79
(ज्ञानकर्मणो प्रतिपादितः) । न ह्य् अत्र स्मार्तेन कर्मणा
श्रौतेन वा ज्ञानस्य समुच्चय1 इति ।
अयम् अपि विशेष उपयुज्यते2 ---
यथा प्राक्तनेन कर्मणा ऐहिकस्य कर्मणः समुच्चयस्योपपत्तिः ।
न त्व् अत्राश्रमविकल्प3 आश्रमसमुच्चयो वा भगवता विवक्षितः ।
(आत्मनः) साक्षात्कारणात्4 प्रागवस्थायां कर्मप्राधान्यम्
उत्तरत्र
ज्ञानप्राधान्यम् इत्य् उपदेशात् । अतः स्थिरं5 प्रतिपुरुषम्
अपवर्गाधिकारे ज्ञानकर्मणी समुच्चीयेत इत्य् एतत्परम् इदं7
शास्त्रम् इति सम्यग् दर्शितम् ।
तद्वाक्यानि च तथैव व्याख्यातव्यानि ।
अन्ये पुनः पत्रैर् इव6 फलानि छादयन्तः
प्रश्नम् उत्तरं चान्यथा
वर्णयन्ति । प्रजहाति यदा ---
इत्य् आरभ्य7 सर्वकर्मत्यागिनां
साङ्ख्यानां ज्ञानाद् एव केवलान् निःश्रेयसः प्राप्तिर् उक्ता ।
मम च ---
कर्मण्य् एवाधिकारस् ते --- इति कर्मैव केवलम् उपदिष्टम् ।
न तत एव श्रेयःप्राप्तिर् इत्य् आकुलितबुद्धिर् अर्जुन उवाच
--- ज्यायसी चेत् --- इति ।
उत्तरं च8 भागवतम् उपपद्यते
--- साङ्ख्यानां केवलाज्
ज्ञानान् निःश्रेयसप्राप्तिः9 । कर्मयोगिनां तु निष्ठयैवेति10 ।
द्वे निष्ठे भिन्नपुरुषविषय इति
सर्वकर्मत्याग एव सम्यग्दर्शिनां11
साङ्ख्यानाम् इतिहासपुराणोपनिषत्सु12 च दर्शितः ।
न च नित्यकर्माकरणे सन्न्यासिनां प्रत्यवायो भवति अधिकारस्य
निवृत्तत्वात्13 । अधिकारिभिस् त्यज्यमानं14 कर्म दोषम्
नोतेस्:
1. विशेषोत्र समुश्च नघात्र स्मातेन कर्मणा स्रोतेन वा समुश्चय इति
2. उपयोज्यते
3. यथा प्राप्तेन कर्मणा समुश्चयोपापतेः न चत्रश्रमविल्प
4. साक्षात्कारणात्
5. अतस्थिरं
6. समुश्चीयते । दत्पपरं सम्यग्दर्शतानि व्याख्यानामासेः पत्रैरिव
7. देसारभ्य
8. उत्तर च
9. साख्यानां केवलाज्ञानान्नि^
10. कर्मयोगिनां तु कर्मनिष्ठेवेति
11. सर्वकर्मस एव सम्यग्दर्शिनां
12. ^मितिहास पुराणयोहमनिषत्सु
13. निवृन्तत्वात्
14. ... भिस्स्यज्यमानं
प्. 80
आ(व)हति । न चाकरणाद् अभावात् प्रत्यवायोत्पत्तिः1 ।
तस्माद् विविदिषावताम् अनुत्पन्नज्ञानानाम् अपि विदुषां
चोत्पन्नज्ञानानां2 कर्मत्याग3 एवेति ब्रुवते ।
अथान्ये4 श्रुतौ तु साङ्ख्यानां ज्ञानाद् एव5 निःश्रेयसम् उक्तम् ।
आत्मनश् च6 कर्म कर्तव्यम् उक्तम् इति श्रुतिस्मृतिन्यायनिपुणाः
प्रत्याचक्षते7 । (ते)नैवम् अपि योजयितुं8 शक्यते ---
साङ्ख्यानां ज्ञानाद् एव निःश्रेयसम् उक्तम् आत्मनश् च कर्म
कर्तव्यम् उक्तम् इति विवेकेनार्जुनो ऽवगतवान्
यदि तत् कथं तस्याकुलीभावः
--- तद् एकं10 वद --- इति च नोपपद्यते ।
भागवतं चोत्तरं11 न सङ्गच्छते
--- द्विप्रकारोक्ता निष्ठेति ।
तत्रैवं12 वक्तव्यम् ।
स्यात् कर्म(ण्य् एव)अधिकारस् ते न निःश्रेयस्
सुनिष्ठयोर् भिन्नपुरुषविषयत्वात् ।
ज्ञानं कस्यचिद् एव कस्यचित् कर्मैवेति प्रकारमात्रोपदेशाय ।
तद् उक्तम् --- विविदिषावतो13 विदुषश् च सर्वकर्मसन्न्यास14 इति ।
तच् छ्रुतिस्मृतिन्यायबाह्यं15 विरुद्धं च ।
यदि तावद् उत्पन्ने ज्ञाने प्रयोजनाभावात्
कर्मत्यागे16 हेतुर् विद्यते
यदि वा विद्वद्भिस् त्रैवर्णिकैः17 कर्म त्यज्येत स्वच्छन्दतया
सर्वे कर्मिणो ब्रह्मविदः समुद्रं प्रविशेयुः18 ।
विविदिषावताम् अपि
कर्मयोगम् एव दर्शयति ---
तम् एतं19 वेदानुवचनेन ब्राह्मणा
विविदिषन्ति यज्ञेन दानेन तपसेति20 च ।
नोतेस्:
1. प्रत्यवायोरत्पत्रि^
2. ... त्पन्नजानानां
3. कर्मसाग
4. अन्यान्ये
5. श्रुतिसाङ्ख्यानां ज्ञानादिव
6. आत्मतश् च
7. स्मतिन्यायनिपुणः प्रत्याञ्चक्षते
8. नैवं प्रयोज^
9. विवेकना^
10. तदेकं वद्येति च
11. चोतरं न सङ्गछते
12. तत्रैव
13. निःश्रेषसु निष्टयौ भिन्नपुरुषविषयत्वं कस्य विमेव
कस्यचित्कर्मैवति प्रकारमात्रोपदेशायदथुक्तं विविदिषो
14. ... सस्न्यासा
15. तत्छतिस्मृति^
16. ^त्वागे
17. विद्वद्भिस्त्रै^
18. स्वछन्दतया सर्वकर्मविद्यपस्समद्रं पुशेषवि
19. ^मेवं ततमेतं
20. विवेदिषन्ति यज्ञमानेन तपसेति
प्. 81
यदि चाविदुषो ऽपि कर्मत्याग एव विहितः स्याद् विदुषः
कर्मानर्थक्याद् इति1 हेत्वभिधानम् अनुपपन्नम्2 ।
तद् एवं विरुद्धं भाषमाणः3 कथं ग्राह्यवचनः
स्यात् । न चोपनिषत्सु सर्वत्यागगमकं लिङ्गम् अस्ति4 ।
न कर्मणा प्रजया धनेन त्यागेनैकेनामृतत्वम् आनशुः
--- इत्य्
अत्र प्रजासाहचर्याल् लोकप्राप्त्यर्थं काम्यकर्मत्यागो
गीयते ।
इतरापि श्रुतिः5 ---
न्यासम् एषां तपसातिरिक्तम् आहुः ---
इति न्यासशब्देन तत्र ब्रह्माभिधीयते न कर्मत्यागः ।
प्रकृतां वाचम् इत्य् अत्र दमशमादीनां तपसां च
तत्प्राप्तिसाधनत्वात् तदपेक्षयातिरिक्तवचनम्6 ।
प्राप्तव्यं हि प्राप्तिसाधनाद् अतिरिक्तं भवति ।
अन्यैश् च सन्न्यासशब्दो ऽत्र न्यासशब्दस्यानर्थान्तरे प्रयुक्तः ।
यथा आज्यैः स्तुवते7 ---
इत्य् आज्यशब्दः स्तोत्रेषु लोके
घृतवचनः8 ।
तद् इह भ्रान्त्या तस्य त्यागार्थकत्वं9
कल्पितम् । तथा हि ---
धनिमात्रकृतो ह्य् एव जनानां मतिविभ्रमः ।
पौर्वापर्यापरामृष्टः10 शब्दो ऽन्यां कुरुते मतिम् ॥ इति ।
इतिहासे च तत्र तत्र मोक्षार्थिभिः कर्म कर्तव्यम् इत्य् उक्तम् ।
तथा हि शुकानुप्रेश्ने11 ---
कर्मणा मनसा वाचा यो धर्मनिरतः सदा ।
अफलाकाङ्क्षसिद्धश् च स मोक्षम् अधिगच्छति12 ॥ इति ।
नोतेस्:
1. विपः कर्मानर्थर्थ्यात्
2. ^धानमन्नपन्नं
3. व्याभाषमाणः
4. त्यागसत्वकं लिङ्गमस्ति
5. ... मृतत्वम् आदुरित्यत्र
प्रजासार्यचर्याल्लोकप्रत्थर्थकाम्यकर्मत्यागायतै रति रोयश्रु^
6. व्राह्मा^ ... प्रकृतावां च सत्रदमशमादीनां तपसां
तत्प्राप्तीसाधन^
7. ^शब्दोत्र च न्यासशब्दोर्थान्तरे प्रयुक्तो यथा क्ष्यैस्स्तुवते
8. धजवचनः
9. भ्रान्त्यागाथत्वं
10. ... पएमृष्टः
11. ... ^प्रश्रे
12. वित्तश्च स मोक्षमधिगछति
प्. 82
यत् तु --- त्यज धर्मम् अधर्मं च ---
इति तस्योत्तरश्लोकाद् अर्थनिर्णयः ---
त्यज धर्मं सङ्कल्पजम्1 । त्यजाधर्मम् अहिंसया इति ।
फलसङ्कल्पत्यागो न स्वरूपत्याग इति ।

यद् उक्तम् अकरणे प्रत्यवायो नास्तीति तद् असत् ।
अकुर्वन् विहितं कर्म --- इति स्मृतेः ।
न च शास्त्रे यः स्वेच्छाकृतस्
त्यागः3 प्रत्यवायनिवारणे समर्थः ।
न चाकरणस्याभावस्य
प्रत्यवायनिमित्तत्वं नास्तीति शक्यं वक्तुम् ।
राजाज्ञया नियुक्तानां4 भृत्यानाम् उक्ताकरणे
वधबन्धादिदोषदर्शनात्5 । कथम् असतः सज् जायेत इति
द्रव्याभिप्राया श्रुतिः ।
असतो द्रव्यान्तरस्योत्पत्तिर् नास्तीति
तत्रार्थः । द्रव्यस्य हि सुवर्णादेर् एव स्वीकार्यम् ।
न चावस्थावत्त्वम् अन्तरेणावस्थयोपपद्यते6 ---
इत्य् अभिप्रेत्यासदुत्पत्तिनिषेधः7 ।
तथा विहितानुष्ठाने ऽपि
प्रयोजनम् अस्ति मोक्षार्थिनां दुरि(त)क्षयो ऽन्येषाम् अभ्युदयः ।
तस्माद् गीताशास्त्रे ऽन्यत्र8 वा कर्मणां मोक्षार्थता9 न
कर्तव्येति स्थितम् ।
अन्ये पुनर् अन्यथा श्लोकं प्रस्थापयन्ति । कर्माद्भुतम्
उद्गीथाद्युपासनम्10 ।
तेन योगात् कर्माण्य् अपवर्गभोग्यानि भवन्तीत्य् एव
कृत्वोक्तम्11 --- ज्ञानयोगेन साङ्ख्यानाम् इति ।
कर्मणा नित्यनैमित्तिकेन12 योगात् कर्मयोगः ।
तेन योगिनां परमात्मोपासकानां निष्ठोक्तेति13 ।
तद् एतद् अ(नृ)तं भाषितम् इति14 (ते) मन्यन्ते ।
नोतेस्:
1. ... श्लोकादधतिर्णयस्त्यज धर्ममसङ्कल्पा
2. तदसद् कुर्वेन्विहितं
3. ^कृतस्सागः
4. राजायुक्तानां
5. वधवेधादिदोष^
6. सुवर्णादेरवस्थी कार्या न
चावस्थावंर्तमन्तरेणावस्थोपपद्यत इ^
7. तदुपनिषेधः
8. तस्माद्भीताशास्त्रे^
9. कर्मणा न्मोक्षाथा न
10. कर्माद्भुतामुद्गीथाद्युपासनं
11. ... ^वर्गभागोपानि भवन्ती त्येवं^
12. ^योगाकर्म
13. निष्टोक्तति
14. तदेददमनुतं भाषितम्
प्. 83
कथम् उद्गीथावयवाद्युपासनकर्मणः समृद्ध्यर्थत्वान्
नापवर्गयोगित्वम्1 । ओम् इत्य् एतदक्षरम् उद्गीथम् उपासीत ---
इत्य् उद्गीथावयवस्यौङ्कारस्योपासनं2
तत्र विहितं न ब्रह्मोपासनम्
इति तत्रैवं स्थितम्3 ।
न चोद्गीथाद्युपासनसम्बन्धाद्
अस्यापवर्गहेतुत्वम् । किं तर्हि4 । यज्ञेन दानेन इति ।
आत्मज्ञानसहकारितया विनियोगादिकं च5
गीताद्वितीयाध्यायोक्तेन
ज्ञानकर्मप्रविभागप्रज्ञापनार्थम् इत्य् उक्तम्6 ।
योगश् च तत्र --- कर्म(सु) कौशलम् --- इत्य् उक्तं न परोपासनम्
इत्य् अलं प्रसङ्गेन ॥ 3 ॥
साङ्ख्या परिव्राजका ब्रुवते ---
केवलाद् एव ज्ञानान् मुक्तिः
सर्वं श्रौतं स्मार्तं च कर्म त्यक्तव्यम् अहेतुत्वाद्7 इति ।
तेषां प्रत्याख्यानाय भगवान् उवाच ---
न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते ।
न च सन्न्यसनाद् एव सिद्धिं समधिगच्छति8

3.5

निष्कर्मणो भावो नैष्कर्म्यम् ।
कर्मशब्देन पुण्यापुण्ययोर् ग्रहणम् ।
तद्रहितं मोक्षम् इत्य् अर्थः ।
अनारम्भान् मोक्षं पुरुषो नाश्नुते न
प्राप्नोति ।
अर्थाद् एतद् उक्तं9 भवति --- आरम्भात् प्राप्नोतीति ।
कर्मसापेक्षाज् ज्ञानान् मुक्तिर् न केवलाद् इत्यभिप्रायः11 ।
अथ मन्य(से) किं कर्मणा परिव्रज्यासहिताज्
ज्ञानान् निःश्रेयः
सम्भवविष्यतीति12 चेन् नेत्य् आह ---
न च सन्न्यसनाद् एव ---
ज्ञानसहितात् सन्न्यासाद् एव
नोतेस्:
1. कथमुद्भीथावपवध्युपासनत्कर्मसमृद्ध्यर्थत्वान्नापावगोंपयोनिगत्वम्
2. ... क्षरमुद्भीथमुपासीत्युदीथावयवस्योङ्कास्योपासनं
3. तत्रवस्थितं
4. न चोद्भीथाद्युपासनसंवन्धादपवर्गहेतुत्वं किं तर्हे ... दानेन तेत्यात्म^
5. विनयोगादिपञ्च
6. ... ध्यायोकृणजानकर्मप्रविभागप्रज्ञापनार्थेत्युक्तं
7. केवलादेववज्ञानार्मुक्तिस्सर्वं श्रोतस्मार्तकर्मत्यक्तव्यं न हेतुत्वादिति
8. सल्पसनादेवसिर्द्धिसमधिगछति
9. नैध्रुर्म्यम्
10. अर्थादेनदुक्तं
11. आरम्भात्माप्नोतीति कर्मसापेक्षा ज्ञानान्मुक्तिर्न^
12. परिव्रज्याश्रमसहिताज्ञानान्निश्रेयसं भविष्यतीति तच्च नेत्याह
प्. 84
तुर्याश्रमग्रहणात् सिद्धिं मोक्षं नाधिगच्छति1 ।
कर्मसहितम् एव ज्ञानं सिद्धिसाधनम् ।
आश्रमपारतन्त्र्यान् मनसः ।
सर्वेषाम् आश्रमाणां2 समुच्चयात् सिद्धिर् इति
भागवतं मतं सुनिश्चितम् ।
यथेदम् एव3 साङ्ख्यदर्शनम् आश्रित्य सर्वधर्मत्यागम् एकवैणविनो
वदन्ति । ते ऽपि ह्य् एतेनापास्ता वेदितव्याः4
निराकरणन्यायस्याविशेषात्5 ।
अत्र ते प्रत्यवतिष्ठन्ते ---
अस्मद्दर्शने ऽपीयं6 गीता घटते ।
कथं कर्मारम्भाद् एव नैष्कर्म्यम् अश्नुते7
ज्ञानोत्पत्त्युपायत्वात्8 कर्मणां ।
तस्मात् कर्म कर्तव्यम् । ततो ज्ञानोत्पत्तिः । ततो मोक्ष इति9 ।
न च सन्न्यसनाद् एव ज्ञानरहितात् सिद्धिं समधिगच्छतीति10 ।
तद् इदम् अपव्याख्यानम् अन्ये प्रत्याचक्षते ।
यदि तावद् अयम् अर्थो
नैष्कर्म्यं निष्कर्मता11 कर्माभाव इति स्यात्12
तदा विरोधो ऽत्र13 ।
न कर्मारम्भात् कर्माभावः । किं तर्ह्य् अनारम्भाद् एव14 ।
अथ नैष्कर्म्यशब्देन ज्ञाननिष्ठतोच्यते15 कर्माकृत्वा
ज्ञानोत्पत्त्यसम्भवाद् इति16 ।
तथाप्य् अविदुषं सर्वकर्मत्यागोपदेशो भवतो विरुद्ध्येत ।
तथा चोक्तम् उपदेशग्रन्थे ---
त्वंपदार्थविवेकाय सन्न्यासः
सर्वकर्मणाम्17 --- इति ।
अस्यायम् अर्थः ---
नैष्कर्म्यं18 मोक्षः ।
कर्मारम्भान् मोक्षं19 प्राप्नोतीति ।
एवम् अपि
नोतेस्:
1. तुमाश्रमग्रहणात्सिद्धिर्मोक्षं नाधिगछति
2. आश्रमप्रतियातेरतन्त्रमनस्सर्वेषामाश्र^
3. भागवतं मन्तं मुद्रितं ययीदमेव
4. तेप्यपदस्तेनापास्ता वेदितथा
5. निराकारण^
6. ... अत्त ते प्रत्यवतिष्ठन्तेऽस्मवर्शनेपीयं
7. कर्मरम्भादेवैनैष्क^
8. ज्ञानोत्पक्षुपायत्वात्
9. मोक्ष्यरति
10. ... गछतीति
11. निघुर्मता
12. यात्
13. विरोचोत्र
14. किंर्ह्यनारम्भात्
15. ... निष्टतो^
16. ज्ञानोत्पत्यत्त्यासम्भवादिति
17. अथापमर्थः नैष्कर्म्य
18. कर्मारम्भात्मोक्षं
प्. 85
केवलकर्मणां मोक्षः प्रसज्यत इति ज्ञानोपदेशानर्थक्यम्1 ।
अथ ज्ञानसहितात् कर्मणस् तत्प्राप्तिर् इत्य् एवं सत्य् अङ्गीकृतो
ऽस्मत्पक्षो2 भवता भद्रमुखेन3 ।
एवं च पूर्वार्धे व्याख्याते4 ---
न च सन्न्यसनाद् एव --- इत्य् अतिरिच्यते ।
कर्मत्यागम् आशङ्क्य --- न5 कर्मणाम् अनारम्भात् ---
इत्य् उक्तम् ।
सन्न्या(स)शब्देनापि कर्मत्याग एव त्वत्पक्षे ऽभिधीयते ।
न च ज्ञानरहितात् कर्मत्यागान् मोक्षः6 केनचित् प्रतिज्ञातो7
येनेदं निराकरणार्थं स्यात् ।
यदि चाविद्वांसः कर्माकुर्वाणा8 मुच्येरन्
युगपद् एव कृत्स्नं2 जगन् मुच्येत ।
न च ज्ञानकर्मणोर् विरोधात्
कर्मत्यागो (वरम्) विरोधस्यासिद्धत्वात् ।
किन् न पश्यति भगवन्तम्10 --- वर्त एव च कर्मणि --- इति वदन्तम् ।
साक्षाद् ब्रह्मैव स्वयम् एवार्जुनस्य सारथ्यं गतवत्11 ।
किं चायं विद्वान् ब्रह्मीभूतो ऽभेदम् एकान्तेन न पश्यति ।
तस्याम् अवस्थायां न कर्म कर्तव्यम् इति ब्रूमः ।
यदि तु व्युत्थितचित्तो ऽशनयानादिषु कर्तृत्वम् अनुभवति तस्यैव
सन्ध्योपासनादि12 कर्तव्यं स्यात् ।
विशेषहेतुर् वा वक्तव्यः ।
यच् चोक्तम् आत्मोपदेशीयो ऽयं ग्रन्थः ।
तत्राशङ्क्ये किलोत्तङ्केन गृहीतम् अमृतम्13 ।
यथा कर्मनाशभयाज् जन्तोर् आत्मज्ञानाग्रहस्
तथेति तथ्यपर्यालोचनम् उक्तम् ।
उत्तरङ्कस्य युक्तसूत्रद्वारविनिर्गतत्वाद् अमृतधारायाः14
सूत्रभ्रान्त्यात्मज्ञानाग्रहणम् ।
नोतेस्:
1. ज्ञानापदेशानर्थक्यं
2. सत्यङ्गीधुतोस्मत्पक्षो
3. भद्रसुखेन
4. पूर्वार्द्धव्याख्याते
5. ... परित्यागमाशङ्क्ये न^
6. ^धियते ... जीनरहितात्^
7. प्रतिज्ञातं
8. चांविद्वंसः कर्म कुर्वाणा
9. युगपदकत्मञ्जग^
10. भगवतं
11. वदृतं साक्षाद्ब्रह्मैवमंस्वयमेवार्जुनस्य सारथ्यं गतवान्
12. व्युत्थितचितोशनयानादिसु कर्तत्वमनुभवति तानेवसन्ध्योपासनदि
13. यश्चोक्तमात्मीयोपदेशग्रथसत्राशङ्कः किलोतं कोनाग्रहोदमृतं
14. भयाडन्तोरात्म ... तथेतितप्यपर्य्या ... क्तं उतं कष्ययुक्त
सूत्रद्वारविनिर्गतत्वात् अमत^ धारायासूत्र ... भ्रान्त्या
उरुग्रहणम् ।
प्. 86
इह त्व् आत्मज्ञानान् मुक्तिम् इच्छतां1 कथम्
आत्मज्ञानाग्रहः । यदि च कर्म मुक्तिकारणं स्यात् ततस्
तत्परिरक्षणे प्रयतेरन् ।
अत्र2 यदि समुच्चयान् मोक्षावाप्तिस्
तदोभयत्र प्रवृत्तिः ।
अथ केवलाज् ज्ञानाद् अपवर्गः स्यात् (इति) त्वत्पक्षो वर्तते3
कर्माश्रेयस्करत्वाद् विषवत् परित्याज्यं श्रेयस्कामैर् इति4 ।
यत् किं चिद् एतत् ।
कर्मणश् च यथा बन्धहेतुत्वं5 नास्ति तथा वक्ष्यामः ॥ 4 ॥
कर्माकुर्वतः केवलाद् एव ज्ञानात् सिद्धिर् इत्य्
अयम् अर्थो न6 केनचिद्
अनुन्मत्तेन शक्यते प्रतिज्ञातुम् इति7 ।
तत्र हेतुम् आह ---
न हि कश्चित् क्षणम् अपि8 जातु तिष्ठत्य् अकर्मकृत् ।
कार्यते ह्य् अवशः9 कर्म सर्वः प्रकृतिजैर् गुणैः10

3.6

हीति हेतौ । नेति प्रतिषेधे11 । यस्मात् कश्चिद् अपि पुरुषः
क्षणमात्रं जातु12 न कदाचित् तिष्ठत्य् अकर्मकृत्13 ।
तस्मात् कर्मयोग(प्रतिषेध)प्रतिज्ञानुपपन्ना ।
कथं पुनर् अकर्मकृन् नास्तीत्य् आह ।
कार्यते ह्य् अवशः कर्म ।
अवशो ऽस्वतन्त्रः पुमां कर्म कार्यते बलात् कर्मणि प्रवर्त्यते14 ।
केन । प्रकृतिजैर् गुणैः । प्रकृतिर् महाभूतानां
सूक्ष्मावस्था14 ।
ततो जातैः कार्यकारणैः सत्त्वादिगुणाधिष्ठितै(र् गुणैः) ।
त्रिविधं कर्म --- कायिकं वाचिकं मानसं चेति ।
तत्रावश्यम् अन्यतमेन16 भवितव्यम् ।
कर्म त्यक्तव्यम् इत्य् उक्तिमात्रे(ण)
नोतेस्:
1. ^ज्ञानात्मुक्तिमिछतां
2. तत्परिरक्षणं प्रयतेरंस्तत्र
3. केवलाज्ञानादपवर्गस्त्वात्पक्षवर्त्ततः
4. श्रेयस्कमैरिति
5. ... श्चयावन्धहेतुत्वानास्ति
6. केवलादिवज्ञानासिद्धिरित्य^
7. ... ^चिदनुत्पत्तेन ... ज्ञातुमिमित
8. किञ्चित्तक्षणमपि
9. कर्यते त्यवशः
10. प्रकृतिजेर्गुणैः
11. हीति हेतेति प्रति^
12. ज्ञातुं
13. तिष्टत्प^
14. कमकार्यते वलात्कर्तणिप्रवर्तते
15. सूक्ष्मवस्था
16. तत्रावश्यंमन्यतमेन
प्. 87
वाचिकं1 कर्म कृतम् एव भवति । मौनावस्थाने ऽपि2 मानसं
(कर्म) दुष्परिहरं विद्युल्लतावच् चञ्चलत्वात् तस्य3 ।
अशनशयनसङ्क्रमणादीनि4 छायेवानुगतानि ॥ 5 ॥
यस् तु चोदितं कर्म करोति मनसा च
विषयान् भोजनादीन् अभिलषति
स केन शब्देनोच्यत इत्य् आह5 ---
कर्मेन्द्रियाणि6 संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा7 मिथ्याचारः स उच्यते

3.7

यस् तु चोदितम् अनुतिष्ठति8 स यथोक्तकारित्वान् मार्गस्थ9
इत्य् आह ---
यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽर्जुन10 ।
कर्मेन्द्रियैः.11 कर्मयोगम् असक्तः स विशिष्यते

3.8

फलासङ्गरहितः12 ॥ 7 ॥
यत एवम् अतः ---
नियतं कुरु कर्म त्वं कर्म ज्यायो13 ह्य् अकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येद् अकर्मणः

3.9

नियतं14 नित्यं सन्ध्योपासनादि । सामान्ये आसङ्गादि15
विशेषे कर्म कुरु यस्मात् कर्म ज्यायो ऽधिकतरम् अकर्मणः ।
अकरणात् सकाशा(द् अ)दृष्टे विषये मन्दकरणम् अपि श्रेयस्करम्16 ।
कथम् । शरीरयात्रा शरीरस्थितिर् अपि न ते प्रसिद्ध्येद् अकर्मणो
निर्व्यापारस्य ।
नोतेस्:
1. याचिकं
2. सौनावस्थानेपि
3. लक्तचञ्चलत्वातस्य
4. ... ^श्षनचङ्क्रमणादीनि
5. विषयान्मोजनादीतभिलाषति स कोब्दश उच्यते रत्याह
6. कर्मद्रियाणि
7. विमूमात्मा
8. ... तिष्टति
9. पथोक्त ... मार्गस्था
10. ... यम्याभरर्तेर्जुन
11. कर्माद्रियैः
12. कलासङ्ग^
13. न्यायो
14. विगतं
15. सामान्येसङ्गादि
16. विषपेथकरणमप्प्रेयस्करं
प्. 88
यद् अत्र केचिद् अश्रुतं विशेषणं स्वमनीषिकया प्रक्षिपन्त्य्
अज्ञेनाधिकृतेन1 कर्म कर्तव्यम् इति तद् असत् ।
शरीरस्थितिर् न सिद्ध्यतीति2 विदुषो ऽविदुषश् च
समानं हेत्वभिधानम् ।
विद्वान् अपि परिव्राजको3 भोजनकाले भिक्षाटनादौ प्रवर्तत एव4
अन्यथा शरीरस्थित्यभावात् ॥ 8 ॥
यच् च मन्यन्ते साङ्ख्याः
सर्वं6 कर्म बन्धात्मकम् इति तद् असद् इत्य् आह ---
यज्ञार्थात् कर्मणो ऽन्यत्र लोको ऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर

3.10

यज्ञशब्देनात्र कालान्तरस्थायी धर्मो ऽभिधीयते यम्
अपूर्वम् इति मीमांसका ब्रुवते ।
तस्य चाधिदेवता विष्णुः ।
यज्ञो वै विष्णुः --- इति श्रुतेः ।
तयोर् अभेदेन व्यपदिश्यते7 ।
एतद् उक्तं भवति --- ईश्वराराधनार्थत्वात्8
कर्मणः श्रुतिस्मृतिविहितः9 पुरुषव्यापारः कर्मशब्देनोच्यते ।
ततो ऽन्यत्र तं वर्जयित्वा10 लोको ऽयं कर्मबन्धनः ।
फलार्थं यत् क्रियते तेन बध्यते जन्तुः ।
तदर्थं11 यज्ञार्थं केवलधर्मसिद्ध्यर्थं
कर्म मुक्तसङ्गः12 फलासक्तिरहितः समाचर ।
इतीदम् एवं धारयेन् मोक्षायेति ।
शास्त्रम् एवात्र प्रमाणम्13 ।
यथायं धर्मो ऽयम् अधर्म इति ॥ 9 ॥
प्रजापतिवचनाच् च श्रेयस्करं कर्म ।
अतो ऽनुष्ठेयम् इति14 दर्शयन्न् आह ---
नोतेस्:
1. प्रक्षिय्प्त्पाज्ञेनाधिकृतेन
2. सिधतीति
3. परिव्रातको
4. प्रचतन्त एव
5. यश्च
6. साख्याः सर्व
7. यजो वै ... व्यापादिश्यते
8. ईश्वराराधनार्थात्
9. ... विहतः
10. व्रजियित्वा
11. यत्कियते तेन वद्यतेजंलुस्तदर्थं
12. मुक्रसङ्गः
13. ^चरेतिद्रेवन्धायेदे मोक्षायेति शास्त्रमेवाप्रत्रमाणं
14. रप्रजापतिवचनाश्चश्रेपरकरङ्कर्मातोनुष्टेयमिति
प्. 89
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच1 प्रजापतिः ।
अनेन प्रसविष्यध्वम् एष वो ऽस्त्व् इष्टकामधुक्2

3.11

सह यज्ञेन वर्तन्त इति सहयज्ञा ब्राह्मणाद्याः प्रजाः3
सर्गादौ सृष्ट्वा ताः पुरोवाच4 --- अनेन प्रसविष्यध्वम् ।
प्रसवो वृद्धिः । तां प्राप्नुत ।
एष वो युष्माकम् इष्टकामधुग् अस्तु5 ।
कामान् दोग्धीति कामधुक् ॥ 10 ॥
कथं पुनः कामधुग् इत्य् आह6 ---
देवान् भावयतानेन ते देवा7 भावयन्तु वः ।
परस्परं भावयन्तः8 श्रेयः परम् अवाप्स्यथ

3.12

अनेन देवान् भावयत विभूत्या योजयत9 । ते चेन्द्रादयो
देवा10 भावयन्तु युष्मान् विभूत्या योजयन्तु11 वृष्टिप्रदानादिना ।
एवम् अन्योन्यं भावयन्तः श्रेयः परं स्वर्गार्थिनः स्वर्गम्
अपवर्गार्थिनोपवर्गं प्राप्स्य(थ)12 ॥ 11 ॥
प्रत्युपकारम् अकुर्वतो ऽनिष्टार्थप्राप्तिम् आह13 ---
इष्टान् कामान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर् दत्तानप्रदायैभ्यो यो भुङ्क्ते14 स्तेन एव सः

3.13

इष्टान् कामान् इति । पूर्वार्धेन पूर्वश्लोकानुवादः15 ।
तैर् देवैर् दत्तात् भोगान् यो भुङ्क्ते16 तेभ्यो ऽदत्त्वा
तान् उद्दिश्य यागम् अकृत्वा स्तेन एव सः ।
कर्तव्यम् अकुर्वन्17 प्रत्यवैतीत्य् अर्थः ॥ 12 ॥
नोतेस्:
1. पुरीवाच
2. प्रसाष्यधमेषवोस्तिष्टकामधुक्
3. प्रजा
4. सृष्ट्र्वेवाच
5. वै पुष्माकमिष्ट^
6. कामां ... कमधुगित्याह
7. भूता
8. भावयन्त
9. विधूत्पायोतयत
10. देवान्
11. योनयन्तु
12. ^मवर्गर्थेनोपवंर्गप्राप्स्य
13. ... कुर्वतोनिप्रार्थमाह
14. तेर्दत्तानप्रदाषेभ्यो ये भूङ्क्ते
15. पूर्वार्द्धेनुवादैस्तेर्देवदत्तान्
16. भुक्ते
17. ... मकुर्वत्पत्प्रवेतीत्पर्थः
प्. 90
ये तु पुनः ---
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्मकारणात्

3.14

यज्ञार्थं निरुप्तं द्रव्यम् । तेन यज्ञे निर्वर्तिते1 यद्
अवशिष्टं (द्रव्यं) तद् अशितुं शीलं येषां ते
यज्ञशिष्टाशिनः2
(सन्तो सर्वकिल्बिषैर् मुच्यते) ।
ये पुनर् आत्मार्थं केवलं पचन्ति
ते ऽघं पापम् एव भुञ्जते3 ॥ 13 ॥
जगच्चक्रवृत्तिहेतुत्वाच् चावश्यं4 कर्म कर्तव्यम् इत्य् आह ---
अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्नसम्भवः ।
यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः5

3.15

अन्नाद् उपभुक्ताद् रोतो ऽभूद् भूतानि6 जायन्ते ।
तस्य च समुद्भवः पर्जन्यात्7 । स च यज्ञाद् भवति8 ।
यज्ञश् च कर्मसम्भवः । यजमानर्त्विग्व्यापारः9 कर्म ।
तदभिव्यङ्ग्यम् अपूर्वं धर्मशब्दवाच्यं जगद्वैचित्र्यकारणम् ॥ 14
॥
तच् च ---
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्10 ।
तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्

3.16

कर्म ब्रह्मोद्भवम् । ब्रह्म वेदः । तत्प्रकाशितम् ।
ब्रह्म चाक्षरसमुद्भवम्11 । अक्षरम् इति परमात्माख्या ---
तस्य महतो भूतस्य निःश्वासितम् एतद् यद् ऋग्वेदो यजुर्वेदः12 ---
इत्य् श्रुतेः ।
यत एवं तस्मात् सर्वगतं ब्रह्माक्षराख्यं13 सर्वगतम् इति
विशेषणात् ।
इतरत्
नोतेस्:
1. निरुप्तं द्रव्य तेन यज्ञे निवर्तते पद^
2. यज्ञशिष्यशिने
3. पापमवं भुजते
4. ... त्वाच्चावधकर्म
5. ... समुद्भवः
6. अन्नादुपयुक्ता ... द्भूतानि
7. समुद्भवात्यजन्न्यान्
8. यज्ञाद्भवति
9. यजमानद्विग्व्यापारः
10. समुद्भवं
11. वाक्षप्समुद्भव
12. मतद्यद्ग्वेदो यजुर्वैद
13. ब्रह्माक्ष्यराक्यं
प्. 91
पुनर् ब्रह्म वेदाख्यं विकारत्वाद् असर्वगतं तदक्षराख्यं
ब्रह्म नित्यं1 सर्वदा यज्ञे प्रतिष्ठितम्2 ।
यज्ञेनोपायभूतेन
प्रख्यातम् इति तत्प्रतिष्ठम् उच्यते ।
यथोपायक्रियायां प्रतिष्ठाशब्दः3 (वेदाः साङ्गाः
सत्यम् आयतनं प्रतिष्ठा) --- इति ॥ 15 ॥
उक्तेन प्रकारेण कर्ममूलं जगच्चक्रम् ।
अतस् तद् अकुर्वतो जीवनं व्यर्थम् इत्य् आह ---
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति

3.17

एवम् इत्य् उक्तपरामर्शः । प्रवर्तितं मयाजातिना4 चक्रम् इव
जगच्चक्रम्5 । कर्मभ्यो भूतानि भूतेभ्यः कर्मेति ।
तत्र यः कर्म न करोति तेन जगच्चक्रं नानुवर्तितं भवति ।
निमित्ताकरणान् नैमित्तिकम् एव6 नाशितं भवतीत्य् अर्थः ।
सो ऽयम् अघायुः पापायुर् इन्द्रियैर् आराम आक्रीडा विषयेषु7
यस्यासौ इन्द्रियारामाः8 । मोघं वृथैव
हे पार्थ9 स जीवति ॥ 16 ॥
किं काचिद् अवस्थास्ति यस्यां कर्मत्याग इष्ट इति10 ।
अस्ति लोकव्यवहारः । अतस् तस्य ब्रह्मभूतस्य तत्प्रागवस्थायाम्
इत्य् आह11 ---
यस् त्व् आत्मरतिर् एव स्याद् आत्मतृप्तश् च12 मानवः ।
आत्मन्य् एव च सन्तुष्टस् तस्य कार्यं न विद्यते

3.18

यस् त्व् आत्मरतिर् एव स्यात् । तुशब्दो ऽवधारणार्थः ।
अस्याम् एवावस्थायाम् अधिकारहेत्वभावात् कर्मत्यागो भवति13 ।
आत्मन्य् एव
नोतेस्:
1. तित्यं
2. प्रतिष्टितं
3. यथापायक्रियायां प्रतिडोदव इति
4. मजायतिना
5. चक्रमिव चकृं
6. निमित्ताकरणान्नेनिमित्तिकमेव
7. सोपमद्यायुः पार्ययुरिन्द्रियैराराम^
8. ईद्रियारामः
9. वृएर्थेवहपार्थ
10. ^त्यागा इत्यस्ति
11. लोकव्यवहारातो तस्य ब्रह्मभूतस्य न प्रागवस्थायामित्याद
12. ^दयस्त्वात्मरतिरेव स्यादात्मतृसश्च
13. हेत्वाभावात् कर्मत्यागो न भवति
प्. 92
रतिर् यस्य न विषयेष्व् असाव् आत्मरतिः ।
एवशब्दो ऽवधारणार्थः ।
मनाग् अपि विषयेषु रतिर् नास्ति ।
आत्मनैव1 च तृप्तो नान्नरसादिना ।
आत्मन्य् एव च सन्तुष्टो नान्यार्थलाभेन ।
तद् एवं त्रिविधेन
विशेषणेन2 विशिष्टस्य
शरीरेन्द्रियविषयव्यवहारातीतस्य3 परं
ज्योतीरूपसम्पन्नस्य4 कार्यं 5 न विद्यते ।
किम् अतः परं साध्यं स्यात् ।
इयं हि फलावस्था ज्ञानकर्मसमुच्चयानुष्ठानस्य ॥ 17 ॥
कार्यं न विद्यत इतीदं6 स्पष्टीकर्तुम् आह ---
नैव तस्य कृतेनार्थो नाकृतेनेह कश्च(न) ।
न चास्य सर्वभूतेषु कश्चिद् अर्थव्यपाश्रयः7

3.19

कृतेन8 यागादिनास्य प्रयोजनं नास्ति । नाकृतेनेह9 कश्चन
प्रत्यवायपरिहारलक्षणो ऽर्थः10 ।
न च तस्य सर्वभूतेषु11
ब्रमादिषु कश्चिद् अर्थव्यपाश्रयः प्रयोजनम् अपेक्षा12
स एव तद् भवतीति श्रुतेः13 ।
यस् तु शरीरेन्द्रियधर्मैर् अनुरुध्यते
शयनादींश् च करोति14 व्यापारान् कथम्
असाव् आत्मरतिर् आत्मतृप्त एव वा स्यात् ।
इयं चावस्था कर्मत्यागस्य भगवता वियता ताम् एतां15
स्वयम् एवालोच्य कर्म हातव्यम् अनुष्ठेयं (वा) ।
नान्यस्येदानीन्तनस्य
दुरुपदेशः क्रोतव्यः प्रमाणीकर्तव्यो (वा)
व्यामुह्यमानत्वाद् आलस्यात्16 ।
नोतेस्:
1. विषयेसु रतिर्नास्मात्मनैव
2. तदवं त्रिविधेन विशेषणोन
3. शरीरेन्द्रिय^
4. ज्योतिरुप^
5. कार्य
6. विष्वत इत्येदं
7. कश्चदर्थव्यपाश्रयः
8. कृतेमः यागा^
9. रुचाकृतेन
10. प्रत्यवाहपरि^
11. ... भूतेसु
12. कश्चिदयोजनापेक्षा
13. सखाद्भवतीति श्रतेः
14. शरीरेन्द्रियधर्माननुरुत्यते शनयनादीं च करोति
15. तामतां
16. व्यागृह्यमालत्वादालस्यात्
प्. 93
तथा चाहुः ---
केचिद् अज्ञानतो नष्टाः केचिन् नष्टाः प्रमादतः ।
केचिज् ज्ञानावलेपेन केचिन् नष्टैस् तु1 नाशिताः ॥ इति ॥ 18 ॥
यतो जीवतः कर्मत्यागानुपपत्तिः ---
तस्माद् असक्तः सततं कार्यं3 कर्म समाचर ।
असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः4

3.20

फलेष्व् असक्तः कार्यं कर्म यद् अवश्यं कर्तव्यं तत् समाचर5 ।
किम्प्रयोजनम् । (य)स्माद् असक्तो ह्य् आचरन् कर्म परं परमात्मानम्
आप्नोति पूरुषः6 ॥ 19 ॥
आत्मज्ञैश् च राजर्षिभिर् आसेवितो ऽयं7 (मार्गो) यस्मात् त्वयापि
निर्विशङ्केनास्थेयम्8 इति दर्शयन्न् आह ---
कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः ।
लोकसङ्ग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि

3.21

कर्मणैव9 हि संसिद्धिं मोक्षम् आस्थिताः प्राप्ता10
जनकाश्वपतिप्रभृतयः । हिशब्दो हेत्वर्थे ।
एवकारो ऽवधारणार्थो निपातितः ।
कर्माभावव्यवच्छेदः11 क्रियते न ज्ञानपर्युदासः ।
यद्य् अपि12 कृतकृत्यम् आत्मानं मन्यसे13
लोकसङ्ग्रहम् एव (तथा)पि सम्पश्यन् कर्तुम् अर्हसि ।
लोकसङ्ग्रहो लोकपरिपालनम् उक्तेन14 न्यायेन ।
परमार्थतस् तु स्वार्थम् एव कर्म कर्तव्यम् ।
केवलस्य ज्ञानस्यापवर्गं प्रति
नोतेस्:
1. केनचिन्नष्टैस्तु नाशिता इति
2. यता
3. कार्य
4. कर्म परं परमात्मनमप्नोतिपुरुषः
5. समाचरः
6. प्रयोजनमस्मादसक्तो ह्याचरङ्कर्मं ... माप्नोति पुरुषः
7. अत्मज्ञैश्च
8. युष्पास्त्वपापिनिर्विशङ्केनास्थेप
9. कर्मणेव
10. प्रास्ता
11. कर्मभावयुवछेदः
12. यवपि
13. मन्यसो
14. लाकपरिपालिनक्तेन
प्. 94
साधनभूतस्यापि (ज्ञानस्य) कर्तव्यस्थानीयं1
कर्म सहकारित्वेनापेक्षणीयम् ।
तस्माल् लोकपरिपालनम् आनुषङ्गिकं प्रयोजनम् ।
अत्र केचिद् अङ्गुलिभङ्गं2 कुर्वन्तो व्याचक्षते ---
यदि जनकादयः प्राप्तसम्यग्ज्ञानास् ततो3
लोकसङ्ग्रहणार्थं कर्मणैव संसिद्धिम्
आस्थिताः4 कर्मसन्न्यासे प्राप्ते ऽप्य् असन्न्यस्यैव प्रवृत्तकर्मत्वाद्
इति ।
अथाप्राप्तज्ञानाः कर्मणा सत्त्वशुद्धिद्वारेण5
ज्ञानोत्पत्तिम् आसाद्य6
मुक्ताः --- इति व्याख्येयः श्लोक इति ।
तद् एतद् असदर्थोत्प्रेक्षणम्7 ।
जनकादयो हि ब्रह्मविदः स्मर्यन्ते8 ।
मोक्षधर्मेषु9 विष्णुधर्मेषु जनकानां
षट्सप्ततिर् मोक्षं10 गता स्मर्यते11 ।
अत्र च कर्मणा मोक्षं गता इत्य् उच्यते ।
न पुनः कर्मणा लोकसङ्ग्रहं कृतवन्त इति ।
श्रुतहानिर् अश्रुतपरिकल्पना चैवं स्यात् ।
न च तेषां कर्म(सु) प्रवृत्तत्वाद् इति कर्मप्रवृत्तौ हेतुः ।
उत्पन्नायां (कर्मप्रवृत्तौ) ऊर्द्ध्वं12 सर्वो हि प्रवृत्तकर्मैव ।
यदि सम्यग्दर्शने13 समुत्पन्ने कर्माकर्मसन्न्यासो14 जनकादिभिर् अप्य्
अवश्यं कर्म कर्तव्यं प्राप्तम् ।
न हि खण्डमोदकभक्षणात्15
प्रीत्या कश्चित् कर्मणि प्रवर्तते क्लेशात्मकत्वा(त्) ।
तस्मात् कर्मणा विना संसिद्धेर् असम्भवात् कर्म कुर्व् इति
गीतार्थः16 ॥ 20 ॥
अवश्यं लोकसङ्ग्रहार्थम् अपि17 भवता कर्मणि य(ति)तव्यम् ।
कुतः18 । श्रेष्ठत्वात् तद् आह ---
नोतेस्:
1षाधितृभूतस्यापि इति कर्तव्य स्थानीयं सह
कर्मकारित्वेनापेक्षणीयं
2. केचिगुलिभङ्गं
3. ... सम्यग्शनोस्ततो
4. संस्थिसिद्धिमास्थिताः
5. ^शुद्धित्वारेण
6. ज्ञानोत्पन्तिमासाद्य
7. तदेतदसर्थोत्प्रक्षणे
8. स्मर्येने
9. साक्षधर्मेषु
10. धसप्ततिर्मोक्ष^
11. गते स्मयन्ते
12. ... हेतुरुत्पनया दुर्ध्वसर्वो
13. ... दर्शने
14. ... सल्पासो
15. खंडमोदकरक्ष्यणवत्^
16. संसिद्धिरसम्भवात् कर्मकृत् इति गीतार्थः 19
17. ... सग्रहार्थ^
18. कुरुतः
प्. 95
यद्यद् आचरति श्रेष्ठस् तत्तद् एवेतरो जनः1 ।
स यत्प्रमाणं कुरुते लोकस् तद् अनुवर्तते2

3.22

गुणाधिकः श्रेष्ठ3 उच्यते । तेन यद् अनुष्ठितं4 तत्तद् इतरः
प्राकृतो जनो ऽनुतिष्ठति5 ।
स यत्प्रमाणं कुरुते6 लौकिकं वैदिकं
वा करोति तद् एव प्रमाणीकृत्य लोको ऽनुवर्तते7 ॥ 21 ॥
मां च किं न पश्यसि ---
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तम् अवाप्तव्यं वर्ताम्य् एव च कर्मणि

3.23

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु साध्यम् । यतो10
नानवाप्तम् अप्राप्तं प्राप्तव्यं वास्ति11 अथ च वर्ताम्य् एव
च (कर्मणि) ।
वर्त एवेति12 केचित् पठन्ति आत्मनेपदित्वाद् (वृत)धातोः ।
तेषां इतिहासपुराणवद् गीताया पञ्चम् अवेदत्वाच्
छान्दसप्रयोगबाहुल्याद् आर्षपाठविनाशनम्
एव प्रसज्यते सर्वत्र पाठान्तरं कुर्वताम्13 ॥ 22 ॥
यदि पुनर् अहम् एव कर्म न करोम्य् अन्यो ऽपि14 न कुर्याद् इत्य् आह ---
यद्य् अहं प्रवर्तेय जातु कर्मण्य् अतन्द्रितः ।
मम वर्त्मानुवर्तेरन् मनुष्याः पार्थ स(र्व)शः

3.24

यदि त्व् अहं15 न वर्तेय । जातु कदाचित् । अतन्द्रितो ऽनलसः16 ।
ततो मम वर्त्म मदीयं मार्गम् अकरणलक्षणम् अनुवर्तेरन्17
(मनुष्याः सर्वशः) ॥ 23 ॥
नोतेस्:
1. यघदाचरतिश्रेष्टस्तत्र देवेतरो जनः
2. लोकसदनुवर्तते
3. श्रेष्ट
4. यदनुष्टितं
5. ततेदः प्राकृतोजनोनुतिटति
6. प्रमाणभ्कृतं
7. लोकेनुवर्तते 20
8. पार्षस्ति ... किचन
9. ... मवामव्यं
10. रुतो
11. नानावाप्तमप्राप्तं प्राप्तव्यमस्ति
12. वर्ज्ञाम्येव कर्त एवेति
13. पवन्ति । आत्मनेपदिताद्धातोस्त्रेषामितिहासपुराणयः
पञ्चचवेदत्त्वाछान्दस प्रयोगवादुल्पादार्षयागविनाशनमेव
प्रसज्यते सवत्र यावान्तर कुर्वताम्21
14. पुनरहे कर्मतकरोम्यन्यायिन
15. स्वहं
16. कदाचितद्रितो^
17. ... मनुवर्तते
प्. 96
ततः को दोष इत्य् आह ---
उत्सीदेयुर् इमे लोकाः न कुर्यां कर्म1 चेद् अहम् ।
सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः

3.25

उत्सीदेयुर् विनश्येयुर् लोका यदि (अहं कर्म) न कुर्याम् ।
सङ्करस्य च कर्ता स्याम् अर्थाद्यभावात्2 । ततश् चोपहन्याम्
इमाः प्रजाः ।
तस्मान् मयापीश्वरेण3 सता लोकसङ्ग्रहणार्थं कर्म क्रियते ।
सो ऽयम् उभयतः शास्त्रानुसारेणात्मार्थं परार्थं वा4
कर्म कर्तव्यम् एव ।
न ज्ञानित्वाभिमानेन कर्म त्यक्तव्यम्5 ।
मनुष्यस्याधिकारित्वाच् छास्त्रस्य6 भगवतो ऽपि मनुष्यशरीरे7
(व)र्तमानस्य धर्माधिकारात् कर्मसन्न्यासानुपपत्तेः8 ।
कर्मणि प्रवृत्तो9 हि मनुष्यशरीरं विहाय
देवो वा परमात्मा वा
संवृत्तो यदा तदा तस्याधिकाराभावः ।
तद् उक्तम्10 --- यस् त्व् आत्मरतिर् एव स्यात् --- इति ।
अतो यावद् भेदविज्ञानम् अनुवर्तते तावत् कर्माधिकारः स्वार्थं
परार्थं वेति भागवतं मतं मुद्रितम्11 ॥ 24 ॥
तत्र च12 कर्मणि प्रवृत्तस्य विदुषो ऽविदुषश् चायं13 विशेषः ---
सक्ताः कर्मण्य् अविद्वांसो14 यथा कुर्वन्ति भारत ।
कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोकसङ्ग्रहम्15

3.26

फलाभिलिप्सया कर्मणि सक्ता अविद्वांसो यथा कुर्वन्ति16 भारत
तथा महतोत्साहेन वित् कुर्यात् सदसदर्थोपवर्गार्थम्17 ।
नोतेस्:
1. लोकात् कुर्यं किर्म
2. स्याम्मर्थादाभावात्
3. तस्पान्मया^
4. सोयमुभयतस्माशारज्ररात्मार्थपरार्थवा
5. त्यक्त्त्कंलभ्य
6. मनुष्यादिकारित्वाछास्त्रस्य
7. ... शरीर
8. ... सन्न्यासानुपन्तेः
9. प्रवृत्तोर्हि
10. संवृन्तस्यस्याधिकाराभवस्तदुक्तं
11. मुद्रितम् 23
12. तन्व च
13. विदोषोविदुषश्चायं
14. सक्तः कर्मण्यविद्वंसो
15. विद्वंस्तथा^ ... र्लोमसङ्ग्रहम्
16. कुर्वंर्ति
17. वित्कुर्यादसदसहथोपवगार्थं
प्. 97
किञ्चैतद् अपरम् आनन्तरीयकं प्रयोजनम्1 ।
चिकीर्षुः कर्तुम् इच्छुर्
लोकसङ्ग्रहम्2 ॥ 25 ॥
यदि चायं कर्म न कुर्याद् अज्ञानां3 बुद्धिभेदः स्याद् इत्य् आह ---
न बुद्धिभेदं4 जनयेद् अज्ञानां कर्मसङ्गिनाम् ।
जोषयेत् सर्वकर्माणि विद्वान् युक्तः5 समाचरन्

3.27

न बुद्धिभेदं जनयेद् अज्ञानाम् इत्य् अज्ञग्रहणं ज्ञापकम्6 ---
तत्र तत्र पूर्वत्र ज्ञस्यैव7 कर्मकर्तव्यता भगवतोपदिष्टेति ।
जोषयेद् इत्य् उत्साहयेत्8 ।
सर्वकर्माणि स्वयं युक्तः समाचरन्9 ॥ 26 ॥
अविद्वान् केन प्रकारेण कर्मणि सज्जत इत्य् आह10 ---
प्रकृतेः क्रियमाणानि गुणैः कर्माणि भागशः ।
अहङ्कारविमूढात्मा कर्ताहम् इति11 मन्यते

3.28

प्रकृतेस् तेजोऽबन्नलक्षणायाः12 कार्यकारणरूपैर् गुणैर्
अचेतनैः13 ।
क्रियमाणानि । शरीरेन्द्रियमनःसु हि सर्वाणि लौकिकानि
वैदिकानि च कर्माणि वर्तन्ते14 नात्मनि ।
आत्मनस् तु सन्निधिमात्रेणायस्कान्तवद् अयसः15 प्रवृत्तौ औपाधिकम्
एव
कर्तृत्वं न स्वाभाविकम्16 ।
यथेन्धनसंयोगे धूमजनकत्वम् अग्नेस् तथा शरीरेन्द्रियसंयोगे
आत्मनः कर्तृत्वम् । (तस्य) कर्तृत्वं स्वेन
निरतिशयानन्दरूपेणावस्थितस्य17 नास्तीति निर्णयः ।
तत्रायम् अज्ञो ऽहङ्कारविमूढात्मा स्वभावत
नोतेस्:
1. चेदसपंरन्नान्तरीकयं प्रयोजनं
2. कर्तुमिछुर्नाकसङ्ग्रहम्
3. कुयाद्^
4. बुद्धिभेदे
5. विद्वात्युक्तः
6. जनयेजानामित्याज्ञम्नहणं ज्ञापकं
7. जस्यैव
8. जाषयेत्मीत्साहतेत्
9. समाचरन् 25
10. कर्मणि सजुत इत्याहं
11. विमूगात्मा कतहिमिति
12. प्रकृति तेजो^
13. ... करणरवैगु^
14. वर्तते
15. आत्मा तु सन्निधि ... मात्रेणाधस्कान्तवदपसाः
16. प्रवृत्तौ तु रौपाधिकमेव क्रर्तृत्वान्नरवाभाविकं
17. यथेन्धनसंयुगेधूमतनङ्कत्त्वमग्नेस्तथाशरीरेन्द्रियसंयोगे
प्रादुर्भवन्ति कर्तृत्वे स्वेन निरतिशयानन्दरूरूपेणाव^
प्. 98
एवाहं कर्तेति मन्यते ।
सो ऽयम् अनेन मिथ्याभिमानेन बध्यते2 ॥ 27 ॥
यः पुनस् तत्त्वविन् नासौ बध्यत इत्य् आह ---
तत्त्ववित् तु3 महाबाहो गुणकर्मविभागयोः4 ।
गुणा गुणेषु वर्तन्त5 इति मत्वा न सज्जते

3.29

गुणविभागस्य कर्मविभागस्य च यस् तत्त्वं वेत्ति (स तत्त्ववित्) ।
कः6 पुनर् विभागो गुणानां देहेन्द्रियाणां
कर्मणा(म्) आत्मन इति ।
कर्मविभागश् च फलोद्देशेन क्रियमाणः फलार्थः
ईश्वरार्थः क्रियमाणोपवर्गार्थ इति7 ।
सो ऽयं गुणा8 देहादयो गुणेषु स्वव्यापारेषु9
स्वभावतः प्रवृत्ता
इति मत्वा न सज्जते सक्तिं न10 करोति ॥ 28 ॥
ये पुनस् ते ---
प्रकृतेर् गुणसम्मूढाः सज्जन्ते11 गुणकर्मसु ।
तान् अकृत्स्नविदो मन्दान् कृत्स्नविन् न विचालयेत्12

3.30

प्रकृतेर् गुणसम्मूढा इत्य् उक्तस्यानुवादः13 कञ्चिद् विशेषं वक्तुम्
।
तान् अकृत्स्नविदो14 मन्दान् इत्य् अकृत्स्नविदः केवलकर्मविदो याज्ञिकान्15
कृत्स्नविज् ज्ञानकर्मसमुच्चयकारी16 न विचालयेन् न बुद्धिचालनं17
सम्पादयेत् ।
तेषां गुणकृतेषु हि कर्मसु तेषां
नोतेस्:
1. एव हि
2. वध्यते 26
3. तत्त्वविन्नु
4. गणकर्म^
5. गुणागुणेपु वर्तत
6. यत्तत्वंवेभिकः
7. कर्मविभागं चफलोदेशेन क्रियमांणं वलार्थमी श्वरार्थङ्क्रियमा^ ... णमपर्गार्यमिति
8. गुणो
9. रवव्थापारेषु
10. सक्तिर्न
11. गुणस्सं जूढास्सज्जन्ते
12. कृत्सविन्न विधालपेत्
13. ^सम्पूटा इत्युक्ता अनुवादः
14. मदा
15. यातिकान्
16. कत्स्रविज्ञानकर्मविमुश्चकारी
17. युद्विचालन्नं
प्. 99
सक्तत्वाच् छरीरपातेनापि न ते बोधयितुं शक्यन्ते1 ।
यत् पुनर् आगत्य पृच्छेयुस् ततो बोधयितव्या इति ॥ 29 ॥2
कञ्चिद् विशेषम् उपदर्शयन् प्रकरणार्थम् उपसंहरति ---
मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा3 ।
निराशीर् निर्ममो भूत्वा युद्ध्यस्व4 विगतज्वरः

3.31

मयि परमेश्वरे ब्रह्मणि सर्वाणि (कर्माणि) कृत्वा (तानि)
सन्न्यस्य निक्षिप्य सर्व एवायं क्रियाकलापो ब्रह्मणो ऽधिकारश्
चेतनत्वात्5 ।
कार्यकारणयोश् चानन्यत्वात् तदात्मकत्वं6
प्रतिपद्य तत्प्राप्तये कल्पत इत्य् अध्यात्मचेतसा फलप्रार्थनरहितः
।
निर्गतं ममत्वं यस्यासौ निर्ममः । नास्ति मे कर्म ब्रह्मण एव
तत् कृतं मयि ।
एवं7 सङ्कल्पो भूत्वा युद्ध्यस्व विगतशोक इति ॥ 30 ॥8
ये विद्वांसः स्वार्थं लोकसङ्ग्रहार्थं च कर्म
न त्यजन्ति9 तेषाम् अयं गुण इत्य् आह ---
ये मे मतम् इदं नित्यम् अनुवर्तन्ति मानवाः ।
श्रद्धावन्तो ऽनसूयन्तस् ते10 विमुच्यन्ति कर्मभिः

3.32

ये11 पुनर् एतन् नाभिनन्दन्ति 12साङ्ख्यादिदर्शनविभ्रान्तचेतसस्
तेषाम् अधःपातं दर्शयन्न् आह ---
(ये त्व् एतद् अभ्यसूयन्तो नानुवर्तन्ति मे मतम् ।
सर्वज्ञानविमूढांस् तान् विद्धि नष्टान् अचेतसः

3.33

)
नोतेस्:
1. कर्मसु ते सक्तात्तानमरीचतेनापि न ते वाधयितुं शक्यन्ते
2. यदि पुनरागत्पृछेयुस्नतो वोधयितव्या इति 28
3. ^चेतसा
4. निराशोर्निममो भूत्वा युड्यस्व
5. ब्रह्मणोधिकारो चेतनत्वात्
6. ... करणयोश्वानन्यत्वान्नदात्मकत्वं
7. मयीवं
8. इति 29
9. य विद्वांसंस्स्वार्थ लोकसङ्ग्रहार्थं च कर्मणत्यजन्ति
10. श्रद्धावन्तीनसूय^
11. थे
12. साख्यादिदर्शनविभ्रात^
प्. 100
ये त्व् इति । ये पुनर् मे मतं नानुवर्तन्ते तान् सर्वेभ्यो1
ज्ञानेभ्यो विमूढान् विद्धि नष्टान् स्वर्गापवर्गप्राप्त्यभावान्
निरयगामित्वात्2 ॥ 32 ॥
कस्मात् पुनर् विद्वांसो ऽपि सन्तः केचिद् भगवतो मतं नानुवर्तन्त
इत्य् आशङ्क्याह3 ---
(सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति

3.34

)
सदृशम् इति5 । ज्ञानवान् अपि प्रकृतेर् अनुरूपं चेष्टते ।
प्रकृतिर् जन्मान्तरकृतं6 कर्म वासनारूपेण7 चेतस्य् अवस्थितं
वाससीव रागः ।
तत्र प्रकृतिम् एव यान्ति भूतानि ।
निग्रहः शास्त्रकृतो नियमो ऽनुशासनम् इदं कर्तव्यम् इदं नेति ।
स तेषां किं8 करिष्यति ।
अतो युक्तं केचिन् मे मतं नानुवर्तन्त इति9 ॥ 33 ॥
ये पुनर् मदीयं मतम् अनुवर्तन्ते जन्मान्तरकृतपुण्योपचयवशात्
तेषाम् अयम् उपदेशः10 ---
(इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर् न वशम् आगच्छेतौ ह्य् अस्य परिपन्थिनौ

3.35

)
इन्द्रियस्येति । इन्द्रियस्यार्थे चक्षुषः श्रोतस्यार्थे11 स्वे स्वे
विषये ऽनुकूले12 रागः प्रतिकूले13 द्वेषः ।
तयोर् न वशम् आगच्छेत् ।
नोतेस्:
1. नानुवंर्तते तान् सार्वेभ्यो
2. स्वगायवर्गप्राप्तमावान्निरयगामित्वात् 31
3. कस्यात्पुनीर्वद्वांसोपि सन्तः
4. मतां नानुवंर्तत् इत्याशक्याह
5. सदशमिति
6. ^तिजेन्मान्तरकृतं
7. वासनानुपेण
8. कि
9. अतोयुक्तञ्चित्मेमतांवान्नानुवर्तत इति 32
10. पुनर्मदिंयं मतमनुवर्तते
जन्मान्तरकृत्पुण्योपचयवशाव्रषाममुर्देशः
11. इद्रियस्येति इद्रियस्येन्द्रियस्यार्थे श्रीत्त्रस्यार्थे
12. वियपनुकुले
13. प्रतिकुले
प्. 101
यतस् तौ हि मुमुक्षोः परिपन्थिनाव् अन्तरायौ विध्नकारिणौ1 ।
तस्मात् तस्कराव् इव तौ दूरतः परित्यजेत् ॥ 34 ॥2
न च परधर्मे रागात् प्रवर्तितव्यम् । स्वधर्मे च युद्धादौ
प्राणापहारितया द्वेषान् निवर्तितव्यम् इत्य् आह3 ---
श्रेयश् चर्तुम् इत्य् अर्जुनोक्तम् अनुस्मरन् ---
(श्रेयान् स्वधर्मो ऽधिगुणः परधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मोदयाद् अपि

3.36

)
श्रेयान् इति4 । स्वधर्मो ऽधिगुण इति कर्तव्यताहीनो ऽपि
यथाकथञ्चिद् अनुष्ठितो ऽपि5 श्रेयान् प्रशस्ततरः6 ।
कुतः । परधर्मात् स्वनुष्ठात्7 । 8सम्पूर्णेतिकर्तव्यताकात् ।
कस्माद् एतद् एवम्9 । यतः स्वधर्मे वर्तमानस्य सङ्ग्रामादौ निधनं
मरणं श्रेयः परधर्मकृताद् उदयाज् जीवनाद् इत्य् अर्थः ।
अपिर् अभ्युपगमे । यद्य् अपि10 स्वधर्मे निधनम् अनभ्युदयः (वरम्)
परधर्मकृतो ऽभ्युदयो (न) वरम्11 ।
न पुनर् एतद् एवम्12 । किं तु स्वधर्माद् अभ्युदयः परधर्माश्रयाद्
अनभ्युदय13 इति । स्वधर्मः कर्तव्यः14 । अर्थवादो ऽयम् ॥ 35 ॥
जानन्न् अपि15 तत्परित्यागे न केनायं प्रेरितः ।
पापम् एवानुधावतीत्य् अर्जुन उवाच ---
(अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः ।
अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः

3.37

)
नोतेस्:
1. ... र्नघश्यमागछेधतस्त्यौ हि मुमुक्षोषरियथिनावन्तरायोविघकारिणै
2. तस्मान्तस्कराविर्वतो हरतः परित्यजेत् 33
3. प्राणाद्विहारितया द्वेषात्त्वर्थब्दतो इत्याह
4. श्रेयान्निति
5. ... चिदनुतिष्टतोपि
6. पशस्तरतः
7. परधर्मान्स्वनुष्टितात्
8. संपूर्णेनिक
9. कस्मादितदेवं
10. यधापि
11. परधर्मकृतो नभ्युदयो वरं
12. न पुनरेतद्वेदं
13. परधर्माश्रानभ्युदय
14. कर्तषो
15. जानन्तपि
प्. 102
अथ केनेति । केनायं प्रयुक्तः प्रेरितः पापम् आचरति ।
अनिच्छन्न् अपि1 बलाद् इवाक्रम्य गले पादुकया2 प्रयोजितः
प्रेरित इति ॥ 36 ॥
भगवान् उवाच ---
(काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्य् एनम् इह वैरिणम्

3.38

)
काम एषेति । कामः सूक्ष्मः3 । स एव केनचित् प्रतिहतः क्रोधः
संपद्यते । प्रार्थितवस्त्वप्रतिपद्यतो4 हि क्रोधो जायते ।
रजोगुणः समुद्भव उत्पत्तिस्थानं5 यस्य सो ऽयं
रजोगुणसमुद्भवः ।
महदशनं यस्यासौ महा(श)नस् त्रैलोक्यम् अपि ग्रसते ।
महांश् चासौ पाप्मा समस्तव्यसनहेतुर् इत्य् अर्थः । विद्धि जानीहि ।
इह मोक्षमार्गे वैरिणम् एतम् ॥ 37 ॥6
अर्जुन7 उवाच ---
(भवत्य् एष कथं कृष्ण कथं चैव विवर्धते ।
किम् आत्मकः किम् आचारस् तन् ममाचक्ष्व पृच्छतः

3.39

)
भवतीति ॥ 38 ॥
(श्रीभगवान् उवाच ---)
(एष सूक्ष्मः परः शत्रुर् देहिनाम् इन्द्रियैः सह ।
सुखतन्त्र इवासीनो मोहयन् पार्थ तिष्ठति

3.40

)
एष सूक्ष्म(ः) परः शत्रुर् देहिनाम् इन्द्रियैः सहेति सुखतन्त्र
इवासीनो8 मोहयन् पार्थ तिष्ठति ॥ 39 ॥
नोतेस्:
1. श्निछन्नपि
2. पादकया
3. सृक्ष्मा
4. पतीधतो
5. उत्पतिस्थानं
6. वेरिणतेतम् 35
7. अर्जुन
8. मुखतन्त्र द्रवासानो
प्. 103
स एव कलुषः1 क्षुद्रश् छिद्रप्रेक्षी2 धनञ्जय ।
रजःप्रवृत्तो3 मोहात्मा मानुषाणाम् उपद्रवः

3.41

कामक्रोधमयो घोर(ः) स्तम्भहर्षसमुद्भवः4 ।
अहङ्काराभिमानात्मा5 दुस्तरः पापकर्मभिः

3.42

हर्षम् अस्य निवर्त्त्यैष शोकम् अस्य ददाति च ।
भयं चास्य करोत्य् एष मोहयंस् तु मुहुर्मुहुः

3.43

इति साङ्ख्यमतानुसारिणः6 केचनाधीयते । ते (च) पञ्च
श्लोका न व्याख्याताः ॥ 40-42 ॥
कथं वैरित्वम् इति दृष्टान्तेन दर्शयति ---
(धूमेनाव्रियते वह्निर् यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम्

3.44

)
धूमेनेति । यथोल्बेन गर्भवेष्ट(ने)नावृतो गर्भस् तथा तेनेदम्
आवृतं दृष्टम् ॥ 43 ॥
शब्देन किम् उच्यत इति विवृणोति7 ---
(आवृतं ज्ञानम् एतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन वा

3.45

)
आवृतम् इति । एतेन8 ज्ञानम् आवृत(म्) । कस्य (केन) ।
ज्ञानिनो9 नित्यवैरिणा कामरूपेण नानारूपेण ।
ज्ञानिनो ह्य् असौ नित्यवैरी । कथम् । काम्ं दूरतः10 कृत्वापवर्गम्
अधिगन्तुम् इच्छति11 ज्ञानी । कामश् च12 तदीयं ज्ञानं तिरस्कृत्य
संसारे क्षेप्तुं13 यतते ।
नोतेस्:
1. धनुष
2. क्षुद्रद्रपेक्षी
3. ^प्रवृतो
4. स्तम्भहर्षक्षुमुद्भवः
5. अहङ्कारीभिमानात्मा
6. साङ्खसतानुसारिणः
7. दष्टं ... विवृणोति 36
8. एतेत
9. ज्ञानीनो
10. हरतः
11. ... मधिगछतुमिछति
12. कामतश्च
13. क्षेप्तु
प्. 104
पुनर् अज्ञो यत्नं1 कृत्वा कामम् एवानुवर्तते । न तस्य विरोधस् तेन2
।
ज्ञानम् इत्य् उपपन्नं विशेषणं नित्यवैरिणेति । दुष्पूरेण
दुःखेन पूर्यते दुष्पूरः ।
न विद्यते अलं पर्याप्तिर् अस्येत्य् अनलः ॥ 44 ॥
किम् अधिष्ठानो ऽसौ ज्ञानम् आवृणोतीत्य् आह3 ---
(इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते ।
एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम्

3.46

)
इन्द्रियाणीति4 । इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् आश्रयः5 ।
तैर् इन्द्रियादिभिर् ज्ञानम् आवृत्य देहिनं मोहयति मोहयित्वा कार्येषु
वर्तयति ॥ 45 ॥6
यत एवम् ---
(तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहीह्य् एनं ज्ञानविज्ञाननाशनम्

3.47

)
तस्माद् इति । इन्द्रियं7 मनो बुद्धिं8 (च) नियम्यादौ प्रथमम् एव
पाप्मानम् एनं9 शत्रुं जहि विनाशय । ज्ञानविज्ञाननाशनम् ।
ज्ञानम् आत्मयाथात्म्यपरिज्ञानम्10 ।
विज्ञानम् (विशिष्टं तज्ज्ञानम्) ।
तदुभयनाशनम्11 । तद् अपि पृथक्कर्तव्यतया विधीयते श्रुतौ ---
विज्ञाय प्रज्ञां कुर्वीत --- इति ।
अन्यथा ज्ञानविज्ञानशब्दयोर्
अर्थे भेदो न स्यात्12 ॥ 46 ॥
कस्य सन्निधौ कामस् तिष्ठतीति साक्षाद् दर्शयितुम् आह स्थूलं
शरीरम् अपेक्ष्य ---
नोतेस्:
1. जत्मिं
2. ... वर्तते न तस्य विरोधे न बोधवे
3. ^त्याह 37
4. इन्द्रियाणिति
5. ... माश्रेयः
6. वर्तयति 38
7. इन्द्रियम्
8. बुद्धिनि^
9. प्रथमतेस्याक्ष्मतमेनं
10. ज्ञानमत्मयथात्पपरिज्ञानं
11. तदुयासिनं
12. ... शदृयोरर्थेभेदो न स्पात् 39
प्. 105
(इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः ।
मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः

3.48

)
इन्द्रियाणीति । इन्द्रियाणि पराण्य् आहुर्
विषयग्राहकत्वेनोत्कृष्टत्वाच्
च परस्त्वम् । इन्द्रियेभ्यः1 परं मनः सौक्ष्म्यात् प्राधान्याच् च2 ।
मनसस् तु परा बुद्धिः3 । स एव हेतुः । अथ बुद्धिमनसोः4 को भेदः
।
सङ्कल्पविकल्पवृत्तिहेतुर् मनः । बुद्धिर् अध्यवसायात्मिका ।
यथा स्थाणुर् वा पुरुषो5 वेति संशये स्थाणुर्
एवायम् इत्य् अध्यवसायः6 ।
यो बुद्धेः परतः स कामः परामृश्यते7 तस्य प्रकृतत्वात् ।
न पुनर् आत्मा स इति निर्दिश्यते पूर्वत्रासङ्कीर्तनात् ॥ 47 ॥
इदानीम् उपसंहरति ---
(एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम्

मूल पाठ: Bhagavadāśayānusaraṇabhāsya · Edition: D. Subhadropadhyaya, Varanasi, 1965 (Sarasvati Bhavana Granthamala, 94) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc