भगवदाशयानुसरणभास्य · अध्याय 2
तान् समीक्ष्य ...... सीदमानो ऽब्रवीद् इदम् इत्य् अतः प्रभृति
एवं यथोक्तम् उक्त्वा अर्जुनः4 सङ्ख्ये युद्धभूमौ
धनुर् उत्सृज्य5 रथस्योपर्य् उपाविशत् । किं कारणम् ।
यतः स्वजनहननजनितशोकाकुल6 इति ॥ 46 ॥
अत्र सङ्ग्रहश्लोकाः ---
शूरसङ्ख्या परव्यूहे स्वबले शूरसङ्ग्रहः7 ।
तद्विवेको भीष्मरक्षा8 शङ्खवादित्रनिःस्वनाः ॥
दिदृक्षा सैन्ययोर् ज्ञातिगुरुमित्रानुदर्शनम्9 ।
तज्जानुकम्पा पार्थस्य परिदेवपरिभ्रमौ ॥
युद्धत्यागश् च शोकश् च10 पदार्थाः सारसङ्ग्रहः11 ॥
इति श्रीमद्भगवद्गीतासु भगवद्भास्करकृते
भगवदाशयानुसरणाभिधाने भाष्ये ऽर्जुनविषादो12 नाम
प्रथमो ऽध्यायः ॥ 1 ॥
नोतेस्:
1. मशस्त्रं
2. धृतराष्ट्रं
3. ^मुक्ता सेख्ये
4. यथोक्तमुत्त्कार्जुनः
5. धनुःन्सृज्य
6. यत सृवजनहनन^
7. श्लोकाऽपरव्यूहे शूरसङ्ख्यास्व^
8. ^रक्षां
9. दिदृशा सैन्ययोज्ञाति^
10. युद्धत्यागो दशैकश्च
11. सङ्ग्रहः । 46
12. भाषे^
प्. 36
अथ द्वितीयो ऽध्यायः
इत्थम् अन्तकवक्त्रकुहराभिमुखं जनं मित्रबन्धुवर्गं
प्रति जातघृणं अर्जुनं1 पृथिवीभारावतरणसम्पिपादयिषया
भगवान् स्वधर्मसहितसम्यग्दर्शनोपदेशेन युयोधयिषतीति
प्रतिपादयितुं द्वितीयाध्यायग्रन्थारम्भः2 ।
तं सञ्जयो धृतराष्ट्रं प्रति विवृण्वन्न् आह3 ---
तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम्4 ।
सीदमानम् इदं वाक्यम् उवाच मधुसूदनः
तम् अर्जुनं तेन प्रकारेण प्रथमाध्यायोक्तेन
गात्रावसादमुखशोषरोमहर्षादिलक्षणम् अवसीदन्तं5
कारुण्यपरवशम् अत एवाश्रुपूरव्याकुलत्वाल् लोहितेक्षणम्
अवसीदन्तं6 व्युपरतयुद्धोद्यमं भगवान् वक्ष्यमाणं
वाक्यम् उवाच ।
तं वाक्यम् उवाचेति द्विकर्मकता ॥ 1 ॥
कुतस् त्वा कश्मलम् इदं7 विषमे समुपस्थितम्8 ।
अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन
कुत इति संशयानः पृच्छति9 । कस्माद् इदं मोहलक्षणं
पापं कर्तृ त्वाम् उपगतम् आग(त)म् । अस्मिन् विषमे सङ्कटे
त्रैलोक्यसम्भावितपौरुषं त्वाम् असम्भाव्यमानो मोहः
कुतः सम्प्राप्त इति महान् संशयः । कीदृशं10 कश्मलम् ।
कुलशीलविद्यारहितैः सेवितम् अतश् चाकीर्तिकरं तत एव
चास्वर्ग्य नरकादिप्रापकं तस्मात् ॥ 2 ॥
नोतेस्:
1. ^कुहराभिमुखजनमित्रवुन्धुवर्गं प्रति तात^
2. ^ग्रन्थारंमः
3. प्रतिवृण्वन्नह
4. ^मस्त्रुपूर्णाकुलेक्षणम्
5. तमर्जुन तेन प्रकारण प्रथमाध्योङ्क्तेन गात्रावसादमुभांशोष^
6. कुरुण्व ... एवालुदू^
7. कश्प्रल^
8. समपस्थितम्
9. पूछति
10. कीवृशं
प्. 37
मा क्लैव्यं गच्छ कौन्तेय नैतत् त्वय्य् उपपद्यते1 ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ2 परन्तप
क्लैब्यम् अमनुष्यत्वं दीनभावं मोहान् मा गच्छ3 मा आश्रय
यतस् त्वयि4 खाण्डवानलतर्पणेन सङ्ग्रामाराधितत्र्यम्बकतया
निवातकवचवधपरितोषितपुरन्दरत्वादिभिर् उपादानैर् देवेष्व् अपि5
प्रख्यातपौरुषे नैतद् उपपद्यते न सम्भाव्यते6 ।
अतस् त्वं हृदयस्याल्पसारत्वं7 क्षुद्रम् अल्पवस्तुभूतं
न्यूनहृदयत्वं8 कापुरुषसेवितं त्यक्त्वा रथोपस्थाद् उत्तिष्ठ ।
उत्थाय च युद्धाय सज्जो भवेत्य् आशयः9 ।
परन्तपेत्य् अनेनार्जुनं प्रोत्साहयति ॥ 3 ॥
एवं भगवतोक्ते ऽर्जुन उवाच10 ---
कथं भीष्मम् अहं सङ्ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि11 पूजार्हाव् अरिसूदन
कथं केन प्रकारेण कया युक्त्या12 भीष्मादीन् माननीयान् अहं
प्रतियोत्स्यामि11 । मधुसूदनारिसूदनेति भक्तः पुनः पुनर् आस्थां
करोति समक्रमेण ॥ 4 ॥
किम् इति13 न च प्रतियोत्स्यामीत्य् आह14 ---
गुरून् अहत्वा15 हि महानुभावान् श्रेयश् चर्तुं भैष्क्यम् अपीह16 लोके ।
न त्व् अर्थकामस् तु गुरून् निहत्य भुञ्जीय भोगान् रुधिर् अप्रदिग्धान्17
नोतेस्:
1. गच्छ कौण्तवेय नैतत्वस्युपपद्यते
2. तङ्क्तोन्तिष्ट
3. गछ
4. त्वषि
5. ^भिरपादानैर^
6. नैतद्रुपपद्यत ना साभाव्यते
7. अत सत हृदयस्य^
8. ^मूतान्यूनहृदय^
9. त्यत्त्का रथोपस्थाः उत्तिष्ट । उस्याय च पुकृय सज्जया भवेत्याशयः
10. उवाच 3
11. प्रतियोत्सामि
12. युक्ता
13. ^नारियूदनेति भक्तापुनः पुनराछाना करोति । समत्रमेण
किमिति
14. च न प्रतियोत्स्याम इत्याह 4
15. ^हत्व
16. श्रेयश्चभुन्त्तुभैक्षमपीह
17. पतिग्घान्
प्. 38
हि यतः कारणात्1 । यस्माद् (इह लोके देशे) गुरून् भीष्मादीन्
प्रति युद्धवर्जनेन अहत्वा रक्षित्वा भैक्ष्यम् अपि चर्तुं2 श्रेयः ।
न तु धनाभिलाषी सन् गुरून् निहत्य भोगान् राज्यादीन्3
शोणितलेपबहुलान् भुञ्जीयेति कुत्सा ।
नैव भुञ्जीयेत्य् अर्थः । इह लोक इह क्षणिके जीवलोक इत्य् अर्थः ।
तुशब्दो गुरुहननव्यावृत्तिसू(च)नार्थः । पुनस् तुग्रहणाद्
भैक्ष्यम् अपि प्रशस्यतरम्4 । न त्व् एवंविधो विषयोपभोग इति ॥ 5 ॥
एतद्दशायाम् इदम् इव तावद् विचार्यताम्5 ---
न चैतद् विद्मः6 कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः ।
यान् एव7 हत्वा न जिजीविषामस्8 तेन स्थिताः प्रमुखे धार्तराष्ट्राः9
चशब्दः पूर्वापेक्षयाधिकाभ्युदययुक्तिद्योतनार्थः10 ।
एतद् इति वक्ष्यमाणावमर्शिना सर्वनाम्ना ---
यद् वा जयेम यदि वा नो जयेयुः ---
इत्य् एतद्वक्ष्यमाणवाक्यद्वयाभिधेयो ऽर्थः प्रत्यवमृश्यते11 ।
न त्य् आत्मीयपरवर्गाव् एकीकृत्य12 निर्देशः ।
स धार्तराष्ट्राणाम् अस्माकम् इत्य् अर्थो विवक्षितः13 ।
कतरद् इत्य् अनेन सामान्यवादिना तद्वाक्यद्वयाभिधेययोर् बलयोर्
एकतरं गरीयस्त्वेन विकल्पतो निर्णीयते14 ।
नोतेस्:
1. हिः कारणायदेशे
2. चर्तु
3. शब्दादीन्
4. ^र्थः । अग्रहणात्न्मैक्ष्यमपि प्रशंस्य^
5. एतदास्साभिदमेव तावद्विचार्यताम् 5
6. विड्मः
7. वानेव
8. जिजोविषामस्ते^
9. प्रमुस्तो धर्तराष्ट्राः
10. ^पेक्षयाभ्युपयुक्तिद्योतनार्थः
11. ^वमशिना सर्वनाम्ना पद्य जयेम यदि वा नो नयेयुरित्येतद्वाक्यत्वयाभिधेयोर्थः प्रत्यवमृष्यते
12. ^स्वर्गावकीकृत्य
13. ^मस्पाकमित्यर्थो विवक्षतः
14. तद्वाक्यद्वत्याभिधेययोर्वलयो^
15. निणोर्मते
प्. 39
यद्यदिशब्दौ वितर्के विकल्पे वा ।
तद् अयं वाक्यार्थः1 --- न चैतद् वयं जयपराजययोर् अनियमाज्
जानीमः2 कतरद् बलम् अस्माकं धार्तराष्ट्राणां
मध्याद् गरीयो3 गुरुतरं बलवत्तरम् इति ।
यद् वा वयं तान् जयेमाभिभवेम4 यदि वा ते नो ऽस्मान् जयेयुर्
अभिभवेयुर् इति5 । किं च6 यान् एव धार्तराष्ट्रान् हत्वा जीवितुं
नेच्छामः7 कृपालुतया त एवास्माकं प्रमुखे सम्मुखे स्थिता इति ।
एतच् चार्जुनस्य सम्भ्रमपरिदेवनं हस्ताद्यभिनयेन ॥ 6 ॥
एवं सकारणं स्वपरिदेवनं पुनर् अपि8 भगवन्तम् अर्जुन आह9 ---
कार्पण्यदोषोपहतस्वभावः पृच्छामि10 त्वां धर्मसम्मूढचेताः11 ।
यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे शिष्यस् ते ऽहं शाधि मां त्वां प्रपन्नम्12
एवम् अहं गुरुबन्धुमित्रस्वजनान् मृत्युना धृतान् दृष्ट्वा13
कार्पण्यदोषोपहतस्वभावः14 कार्पण्यम् औचित्यप्रतिपक्षभूतं
दैन्यम्15 तद् एव दोषस् तेनोपहतो दूषितः सत्त्वधैर्यात्मकः16
स्वभावो यस्य स तथोक्तः । तथा धर्मे सम्मूढम् अप्रतिपत्तिं
गतं चेतो यस्य सो ऽहं पृच्छामि त्वां परमेश्वरम् ।
यन् मे श्रेयः स्यात् तन् मे निश्चितम् असन्दिग्धं ब्रूहीति17 ।
धर्मविषयदैन्यदोषोपहतचित्तो ऽहम् इत्य् अर्थः ।
नोतेस्:
1. शब्दो वितर्क्ये वा विल्पे तदयुं वाकयार्थः
2. ने चैतद्वयं जयपराजययोनियमा जानीमः
3. मध्याद्भुरीयो
4. ताज्जयेम^
5. नोस्तां तपेपुरभिभवेयुरिति
6. किच
7. धार्तराष्ट्रान् हत्वा नीवितु नेछामः
8. सपरिदेवनरपि
9. आह 6
10. दाषो ... पृछामि
11. ^सम्मूवचेताः
12. यछेयस्स्यान् ... व्रूहि ... त्वां त्पपन्नम्
13. ^मित्ररवजनान् .... ध्रातां दष्ट्वा
14. ^दोशोपहत
15. कार्यणयमौर्तित्य प्रतिपक्षभूतदैत्यं
16. दोषरवेनोपहतो दुषितस्सत्त्व^
17. धर्मेस्समूढं अलवुप्रतिपत्ति चेतो पस्य सोहं पृच्छामि त्वा
पर्मेश्रेयस्यान्तन्म स्वन्तिस्सनृग्घं व्रूहीति ।
प्. 40
शास्त्रविहितो ऽनुष्ठेयः1 क्रियामार्गो धर्मः ।
तत्रैतत् स्यात्2 --- नाशिष्यायोपदेशो (देयः) इति ।
तन् न । शिष्यस् ते ऽहं3 निवेदितात्मा त्वां प्रपन्नः4
शरणागतश् च । अतो ऽनुशासनेनानुगृहाणेति ॥ 7 ॥
कस्मात् त्वत्तः श्रेयो ऽनुशासनं प्रार्थ्यत इति चेत् तद् आह5 ---
न हि प्रपश्यामि ममापनुद्याद् यच् छोकम् उच्छोषणम् इन्द्रियाणाम्6 ।
अवाप्य भूमाव् असपत्नम् ऋद्धं7 राज्यं सुराणाम् अपि चाधिपत्यम्8
हि9 (यतः) कारणाद्10 देशे । यस्माद् भूमौ11 निष्कण्टकं12
स्फीतं राज्यं ततो ऽपि चाधि(कं सुराणां स्वा)मित्वं13
प्राप्य अहन् न तत्14 तथाभूतं (प्रपश्यामि) बुद्ध्या15 निरीक्ष्ये
यो ममैवम्भूतस्य16 सर्वाधिपतेः
सम्भाव्यमानहितोपदेशसहायकस्यापि
मुमूर्षोर् ग्लानिसमुत्थं18 शोकं सर्वेन्द्रियाणाम् इन्द्रियवृत्तीनाम्
उच्छोषणं
सङ्कोचकरम्19 (अपनुद्यात्) निरस्येत् त्वां विनेत्य् अतस् त्वां
पृच्छामीति20 ॥ 8 ॥
अधुना सञ्जयः पार्थप्रतिज्ञाताम् उक्तिम् समापयं धृतराष्ट्रम्
आह21 ---
नोतेस्:
1. ^विहितोनुष्टेयः
2. स्थात्
3. इति तछिष्यः
4. त्वप्रपन्नः
5. कस्मात्वतः ... दाह 7
6. द्यशेकम्छोषणमिन्द्रियाणां
7. ^सपन्न^
8. चाधिपन्त्यम्
9. हिः
10. कारणाय
11. यस्माद्भूमौ
12. निष्कंठकम्
13. ततोपि चाधिमिन्त्वं
14. हन्न तं
15. वुद्धा
16. ... ममैवभूतस्य
17. सर्वाधियते
18. मुमृषुर्ज्लातिसमुत्थं
19. सर्वेन्द्रियाणामिन्द्रियवृत्तीतामुछोषणं सङ्कोचकरं
20. पृछामीति
21. अधुना ... सञ्जयः पार्थप्रतिज्ञाना^समापयं धतरार्ष्टमाह 8
प्. 41
एवम् उक्त्वा हृषीकेशं1 गुडाकेशः परन्तप ।
न योत्स्यामीति गोविन्दम् उक्त्वा तूष्णीं बभूव2 ह
हे परन्तप । कथं भीष्मम् अहं इत्य् अतः प्रभृति
भगवन्तम् उक्त्वा3 ततो ऽतिशोकाकुलमनाः4 पुनर् अपि गोविन्दम् आह5 ---
न योत्स्यामि6 इति ।
एवं परिच्छेदम् उत्साद्य7 तूष्णीं8 बभूवेत्य् अर्थः ।
हः पादपूरणे ॥ 9 ॥
इदानीं भगवत्प्रयुक्तिं वर्णयन्न् आह9 ---
तम् उवाच हृषीकेशः10 प्रहसन्न् इव भारत11 ।
सेनयोर् उभयोर् मध्ये12 सीदमानम् इदं वचः
तम् अर्जुनं13 सेनयोर् मध्ये यथोक्तेन प्रकारेण सीदमानं युद्धं
प्रति त्य्क्तोत्साहं हृषीकेशो14 हसन्न् इदं वक्ष्यमाणं वाक्यम्
आह15 ।
महात्मानः16 किल स्मितपूर्वाभिभाषिणो भवन्तीति ॥ 10 ॥
तत्र (न) योत्स्यामि इत्य् आत्मविषयमिथ्याज्ञानवशान् निश्चितसङ्कल्पम्
अर्जुनम् आत्मज्ञानोपदेशम् अन्तरेण तन्निवृत्तेर् असम्भवात् तदुपदेशाय
प्रसङ्गम् अवतारयितुं भगवान् उवाच17 ---
त्वं मानुषेणोपहतान्तरात्मा विषादमोहाभिभवाद् विसञ्ज्ञः ।
कृपागृहीतः समवेक्ष्य18 बन्धून् अभिप्रपन्नान् मुखम् अन्तकस्य
नोतेस्:
1. एवमुत्त्वा हषीकेशं
2. ... मुत्त्वा तूक्ष्मीं
3. भगवतमुत्त्का
4. ततो ते^
5. गोविन्दमाह
6. योत्स्य
7. परिछेयमुसाद्य
8. तूक्ष्मों
9. ... ^न्नाह 9
10. तृषीकेशः
11. भाइत
12. ... रुभयार्मध्ये
13. नमर्जुनं
14. सक्तोत्साहं तृषीकेशो
15. वक्ष्यमाण वाव्माह
16. महात्मान
17. अर्जुनमत्माज्ञानोपदेशमन्तरेण तन्निवृत्तो सम्भवा^
त्तदुपदेणय प्रसङ्ग^ ^वाच10
18. वीक्ष्य
प्. 42
त्वं मानुषेण माणुषजातिसुलभेनानुशयेन1 मलिनीकृतमनाः ।
अत एव मृत्योर् आस्यम् आभिमुख्येनागन्तुम् आरभमाणान् बन्धून्
अवेक्ष्य2 दयाभिभूतो मानुषजातिसुलभाभ्यां शोकमोहाभ्यां
ग्रहणाद् धेतोर् विसञ्ज्ञो3 व्यवहितदिव्यज्ञानः संवृत्त इति ।
इतश् चोपहासकारणम् । सञ्ज्ञानं सञ्ज्ञा4 विशिष्टा बुद्धिः ।
विगता व्यवहिता वा सञ्ज्ञा अस्येति5 विसञ्ज्ञः ।
उपहतान्तरात्मा ।
वृत्त्यप्रसङ्गात् समासो6 मानुषेणेत्य् अनेन सापेक्षत्वे ऽपि7
गमकत्वाद् युज्यत एवेति8 ॥ 11 ॥
कस्माद् विसञ्ज्ञो ऽसीत्य् आह9 ---
अशोच्यान् अन्वशोचस् त्वं10 प्रज्ञावादांश् च भाषसे ।
गतासूनगतासूंश् च नानुशोचन्ति पण्डिताः
(अशोच्यान् अशोचनीयान् भीष्मादीन्) अनुशोचितवान् असि11 ।
तेषां हि स्वधर्मानुष्ठानप्रवृत्तत्वेन12 त्रिवर्गासिद्धेर्
भाविनो ऽर्थस्य13 च नित्यत्वाद् अशोच्यत्वम् ।
अपि च प्रज्ञावादांश् च भाषसे ---
पापम् एवाश्रयेद् अस्मान्14 श्रेयश् चर्तुं भैक्ष्यम् अपीह15 लोके ---
इति16 ।
तद् एतद् उभयं तव (न) शोभते ।
यस्माद् गतप्राणानगतप्राणाम्श् च17 नानुशोचन्ति पण्डिताः ।
परिनिष्ठिततत्त्वज्ञानाः18 पण्डिताः ।
परिनिष्ठिततत्त्वज्ञानाः18
पण्डिता उच्यन्ते । अत्र पुनर् आत्मयाथात्म्यवादिनो ऽभिप्रेयन्ते19 ।
तेषां तावद् आत्मनो ऽविनाशित्वदर्शनाद् अशोकः20 ।
तद्वद् अविनासित्वं संपद्य मोहशोकौ21 त्यक्तुम् अर्हसीति
तात्पर्यार्थः ।
नोतेस्:
1. ^जात्या तुदाशयेन
2. ... गन्तुमारन्न्बधूनवेक्ष्य
3. ... मा व्रूमणाद्वेतो^
4. साज्ञा
5. सञ्ज्ञस्येति
6. वृत्त्यप्रंसमासासो
7. ^त्यनेम सापेक्षोपि
8. युज्यतरवेति
9. त्याह 11
10. ... ननु शो^
11. अशोचनीयान् .... अनुशोचितवासि
12. तेषां ... हि स्वधर्मानुष्टानप्रवृत्वेन
13. भाम्बिनोर्थस्य
14. ... दस्मात्छ्रेय^
15. भैदमपीह
16. दति
17. यस्माद्भूत प्रा^
18. परिनिष्टित्वज्ञा^
19. ... वादितोभिप्रर्यते
20. ... दात्मनो विनाशित्वाद्दर्शनादशोकः
21. तद्वदनविनाविनाशित्वं संपद्यन्मोह
प्. 43
न पुनर् अस्यायम् अर्थः1 --- पण्डिता न शोचन्ति त्वं तु मूढो ऽसीति
।
नेहातिविनीतस्य2 मौर्ख्यं3 सम्पाद्यं तदपनयार्थत्वात्4 (...)
प्रवृत्तेः ॥ 12 ॥
कथं पुनर् अस्याविनाशित्वम् इत्य् उत्साहयितुम् आह5 ---
न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयम् अतः परम्
चतुशब्दौ कदाचिद् इत्य् अस्मिन्न् अर्थे वर्त्तेते6 ।
नाहं7 कदाचिन् नासम् अपि
त्व् आसम् एव । न त्वं नासीर् असीर् एवेत्य् अर्थः ।
नेमे8 भीष्मादयो9 नासं किं त्व् आसन्न् एव ।
न च न भविष्यामः ।
अस्माच् छरीरात् परं10 शरीरान्तरे भविष्याम एव ।
अनेन त्रिष्व् अपि
कालेषु सत्ताख्यायते11 । प्रतिशरीरं क्षेत्रज्ञानां12
भेदात् तद्भेदव्यपदेशः ।
के पुनर् अमी क्षेत्रज्ञा नाम । परमात्मनो ऽंशाः13 ।
तथा च वक्ष्यति --- ममैवांशो जीवलोके14 जीवभूतः सनातन इति
।
अग्निविस्फुलिङ्गवन् महाकाशघटाकाशवज्
जीवपरयोर् भेदाभेदौ15 ।
तत्र स्वाभाविको ऽभेद औपाधिकस् तु भेद इति16 स्थितिः ।
एवम् उत्तरत्र क्वचिद् अभेदेन17 व्यपदेशः (क्वचिद्) भेदेन च भविष्यति
।
अनादिसिद्धाश् च जीवाः सनातना इति वचनान् न तेषां
सर्गादाव् उत्पादः प्रलयो वान्ते । (त)था च याज्ञवल्क्यः18 ---
नोतेस्:
1. न पुनरस्यमर्थः
2. न हानीतस्य
3. मौथं
4. तदपनपार्थत्वात्
5. कथं पुरविनाशित्वामेति उत्साधयितुमाह 12
6. शब्दः ... वर्तते
7. नात्कं
8. ते मे
9. भीष्मदयो
10. अस्माछरीरात्परं
11. समाख्यायते
12. ष्से त्र्यज्ञानां
13. परज्ञात्मनीशाः
14. जीवलेके
15. ... घटाकाशवत्र्यतीवपरयोर्भेदाभेदौ
16. स्वाभाविकोभेदाउपधिकस्तुभेदरिति
17. एवमत्युत्तरत्र काचिदभेदेन
18. इति तेथा च याज्ञवक्लः
प्. 44
अहङ्कारेण मनसा गत्या कर्मफलेन च ।
शरीरेण च नात्मायं मुक्तपूर्वः1 कदाचन ॥ इति ।
एवं चानादित्वे पूर्वकृतकर्मापेक्षया सर्गादौ
सुरनरतिर्यग्भेदेन2
सृष्टिवैचित्र्योपपत्तिः ।
धर्माधर्मव्यवस्था2 बन्धमोक्षव्यवस्था3
चास्मिन् पक्षे ऽवकल्पते4 ।
येषां पुनः परमात्मैव साक्षाद् अनुप्रविष्टः5
शरीरेषु तदंशो
जीवो नाम नास्तीति मतम् तेषाम् एकस्मिन् मुक्ते
सर्वमुक्तिप्रसङ्गो बद्धे
चैकस्मिन् सर्वस्यापि मुक्त्यभावाद् इति6 व्याससूनोः
शुकस्यापि मुक्त्यभावः स्यात्7 ।
न च परमात्मनः संसारित्वं
युज्यते । तस्य च विद्यायोगात् विज्ञानम् आनन्दं ब्रह्म इति च
नित्याकाशानन्दस्वरूपत्वात् ।
तस्माद् ईश्वरांशाः प्रतिशरीरं
परस्परं भिन्ना8 जीवा अभ्युपगन्तव्याः ।
एवं च घटधूमदृष्टान्तो ऽपि युज्यते ---
यथैकस्मिन् घटाकाशे रजोधूमादिभिर् वृते ।
न सर्वे संप्रयुज्यन्ते तद्वज् जीवाः सुखादिभिः9 ॥ इति ।
येषाम् अयम् ईश्वरो ऽत्यन्तभिन्नो10 जीवात्मानश् च बहवस् ते च
सर्वे सर्वगता इति तेषाम् अपि साङ्कर्यप्रसङ्गः ।
एकेनाग्निहोत्रे कृते सर्वेषां (तत्कृतं) स्याद् एकेन च मद्यपाने11
कृते सर्वैः कृतं स्यात् ।
अथ यस्य तच्छरीरं12 तस्यैव तद् इति चेत्
नोतेस्:
1. मुङ्क्तपूर्वः
2. तिर्यक्य्र्भेदेन
2. वैचिओपपतिः धर्मधर्मव्यवस्था
3. बन्धसोक्ष्यव्यवस्था
4. चास्मित्य पक्षेव कल्पते
5. साक्ष्यादनु^
6. वाद्वेचैकस्मिन्नेकस्यापि मुक्तभावदति
7. शुकस्य मुक्तभावः स्यात्
8. तस्याविघायोगा विज्ञानमानन्दं ब्राह्मेति नित्यकाशानन्दं ...
दीश्वरशाः प्रतिशरीरं परस्परभित्रा
9. ... सुखादिभिरिति
10. येषामयीश्वरोत्यन्त^
11. मध्यपाने
12. यस्यतछरीरं
प्. 45
कस्य तच् छरीरम्1 । सर्वेषां तत् सम्बन्धाविशेषाद्
अभिसन्ध्यादिवशात् स्याद् व्यवस्थेति2 चेत्
अभिसन्ध्यादिषु चैकतुल्यत्वाद् एकस्मिन् मनसि3
सर्वेषां समवायाः सङ्कल्पादयः समानास् तत्पूर्वकं कर्म
तन्निमित्तं च शरीरम् इति4 सर्वसाधारण्यान् न5 कदाचिद्
असाधारण्यहेतुः शक्यते केनचिद् दर्शयितुम् ।
अनादित्वस्यास्मत्पक्षे ऽप्य् अविशेषाद्
अणुपरिमाणाश् च जीवा इष्यन्ते6 । कस्मात् ।
उत्क्रान्तिगत्यागतिश्रुतेः ।
लिङ्गशरीरस्य च सङ्कोचविकासधर्मिणोर् अणुरूपत्वाद्
औपाधिकम् अणुत्वं7 जीवस्य गीयते ।
परमात्मरूपेण तु सर्वगतत्वं जीवस्येति
स्थितम्8 ॥ 13 ॥
(तस्य) नित्यत्वे लोकसिद्धं दृष्टान्तम् आचष्टे9
देहिनो ऽस्मिन् यथा देहो कौमारं10 यौवनं जरा ।
तथा देहान्तरप्राप्तिर् धीरस् तत्र न मुह्यति11
यथा बाल्ययौवनस्थाविरेषु12 सो ऽहम् अस्मीति प्रत्यभिज्ञानान्
नित्यत्वम् आत्मनः प्रत्यक्षप्रमाणसिद्धम् ।
देहस्यैवावस्थान्तरापत्तिर् नात्मन इति तथा नित्यस्यैव13
तत्रावस्थितस्य (आत्मनः) देहान्तरप्राप्तिः ।
तत्र धीरो धीमान् न मुह्यति । यदि तर्ह्य् अविनाशित्वम् आत्मनस् तद्
इदानीं वृथा ते शोकः14 समुपस्थितः कथम् ॥ 14 ॥
शीतोष्णादिकृतैः15 सुखदुःखैः संयोगा(त् तद)नुपरम इति ।
तच् च16 ---
नोतेस्:
1. कस्य तछरीरं
2. ... सन्ध्यादिवशात्साध्यवस्थेति
3. चैवतुल्य ^मतसि
4. तन्निमित्तव शरिरमिति
5. सर्वसाधारण्यन्नकेनचिद्वर्शपितुम्
6. द्रष्यन्ते
7. लिगशरीरस्य सङ्कोच च विकाश धर्मि णुत्वादौपाधिक^
8. स्वितम्
9. दष्टान्तमाचष्टे 13
10. कौमार
11. मुत्वति
12. बल्ययौवन
13. तथानित्यस्यैवाव^
14. ^दानीमन्यथा मे शोकः
15. कथं शतोक्ष्मादि कृतैः
16. तत्त्व 14
प्. 46
मात्रास्पर्शास् तु कौन्तेय1 श्रीतोष्णसुखदुःखदाः2 ।
आगमापयिनो ऽनित्यास् तांस् तितिक्षस्व3 भारत
मीयन्ते विषया आभिर् इति मात्रा इन्द्रियवृत्तयः ।
तासां स्पर्शा विषयैः संयोगाः4
शीतोष्णनिमित्तसुखदुःखहेतवः5 । ते चानित्याः ।
कस्मात् । आगमापायित्वात् । आगच्छन्ति अपगच्छन्ति च
न च नित्यसमवेताः पावकौष्ण्यवत्6 । शीतोष्णग्रहणं7
प्रदर्शनार्थम् । आध्यात्मिकम् आधिदैविकम् आधिभौतिकं8
त्रिविधं दुःखम् (तत्) च त्रिविधम् एवेति ।
यस्माद् अनित्यास् तेषाम् उपायेनोपरमः शक्यः कर्तुम्9 ।
को ऽसाव् उपायः । ज्ञानपूर्विका तितिक्षा ।
तद् आह तांस् तितिक्षस्व इति सहस्वेत्य् अर्थः10 ॥ 15 ॥
कथं तत्सहनं तदुपरमहेतुर् इत्य् आह11 ---
यं हि न व्यथयन्त्य् एते पुरुषं12 पुरुषर्षभ ।
समदुःखसुखं धीरं सो ऽमृतत्वाय कल्पते
न व्यथयन्ति न चालयन्ति13 स्वस्माद् आत्मस्वरूपात् ।
समे दुःखसुखे यस्य । यं समदुःखसुखं14 न चालयन्ति
सो ऽमृतत्वाय मोक्षाय कल्पते समर्थो योग्यो भवतीत्यथः15 ॥ 16 ॥
ननु चामृतत्वं न सम्भावयितुं शक्यते सुखदुःखलक्षणस्य
विकारस्य मुक्ते ऽप्य् आत्मनि सम्भवाद् आत्मनो वा कदाचिद् विनाशोपपत्तिर्
इत्य् आशङ्क्य आह16 ---
नोतेस्:
1. कौटेयः
2. शीतोक्ष्मसुखदुःखशं
3. आगमापायनोनित्यास्तां^
4. विषयैस्संप्रयोगाः
5. शातोक्ष्मनित्तसुख^
6. आगमापायित्वादागच्छंसपगच्छन्ति न च नित्यसमवेताः
पावकौस्म्यवत्
7. शीतोम^
8. आध्यात्मिकामाधिदैनिकंमाधिमौतिकं
9. कर्जु
10. सहस्वत्यर्थः
11. नदुपरभहेतुरित्याह 15
12. व्यथयन्त्ये पुरुष
13. न चालपन्ति
14. ममेसुख^ समुदुःखं
15. योग्येभिवतीत्य् अर्थः
16. वेनाशोपत्ति^ क्याह 16
प्. 47
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्वदर्शिभिः
आत्मन्य् अविद्यमानस्य सुखदुःखलक्षणस्य धर्मस्य न कदाचिद्
विद्यते2 भावः । भवनं भूतिर् उत्पत्तिर् इत्य् अर्थः3 ।
सिकतास्व् इव तैलस्य । उत्पद्यमानस्यैव हि (मानसः)
सुखदुःखलक्षणो विकारः शीतोष्णादिनिबन्धनो जायत इत्य्
अनन्तरम् उक्तम्4 ।
नन्व् अचेतनत्वाद् अन्तःकरणस्य संवेदनं नोपपद्यते ।
चेतनत्वात् क्षेत्रज्ञसमवेतस्यैवायं विकारः5 ।
यथा वैशेषिकाः प्राहुः ---
नैतद् एवम् अन्तःकरणस्थो ऽप्य् असौ जीवात्मा संवेद्यते ।
यथा च रूपादयो घटादिस्थाः7 (इति) ।
नायं क्षेत्रज्ञधर्म इति च वक्ष्यति ---
इच्छा द्वेषः सुखं दुःखम्8 --- इति ।
यद्य् अपि क्षेत्रज्ञसमवायित्वं सुखदुःखयोस् तथापि
तत्स्वरूपस्य न विक्रिया मणिस्वरूपवत् ।
नीलपीतादीनाम् एव9
मणिसमवायिनां परस्परविरोधाद् विक्रिया ।
विक्रिया हि नाम विनाश उपमर्दः10 । तथात्मन इति ।
नाभावो विनाशो विद्यते ।
सत आत्मनः सो ऽहम् इति प्रत्यभिज्ञानान्
नित्यत्वोपपत्तेर् अनित्यहेतोश् चाभावात्11 ।
अविनाशी वा अरे ऽयम् आत्मा इति श्रुतेः ।
उभयोः सदसतोर् दृष्टो निर्णीतो ऽन्तो मर्यादा
अन्त्यावस्थेति12 यावत् ।
अन्तशब्दो मर्यादावचनो ऽत्र ग्रामान्त इति13
यथा । यत् सत्
नोतेस्:
1. वियते
2. कदाचिद्विधते
3. भवनभूतिरुत्पत्रिरि^
4. तैलस्य मानसस्यैव हि सुखदुःखलक्षणो विकारः
शीतोक्ष्म्यादिनिबन्नो जायते इज्य नन्तरमुक्तम्
5. चेतनत्वाक्षेत्रज्ञसमवेतरावायं
6. यथोष्टत्वमग्नितमात्माना संवेद्यने
7. घटादिस्था
8. इच्छाद्वेषस्सुखदु^
9. लीलपीताशेनामेव
10. विक्रिया हि नासोपमेदस्^
11. सवितृमलवत् प्रत्यभिज्ञानान्नित्योपपत्तेरनित्यहेतोश्चाभावा
12. निर्णीतातः मर्यादात्ववस्था
13. ग्रामाता इति
प्. 48
तत् सद् एव । यद् असत् तद् असद् एवेति1 ।
कैर् अयं निश्चयः कृत इत्य् आह --- तत्त्वदर्शिभिः2 ।
तद्भावस् तत्त्वम् । तद् इति3 सर्वनाम्ना पदार्थमात्रं व्यपदिश्यते ।
वस्तुयाथात्म्यवेदिभिर् इत्य् अर्थः4 ।
अपरे तु मायावादिनो ऽन्यथावतार्य वर्णयन्ति5 ।
इतश् च6 शोकमोहाव् अकृत्वा शीतोष्णादेर् विद्यते8 भावः ।
भवनम् अस्तिता । कुतः । विकारत्वात्9 ।
विकारश् च (प्रत्यक्षादिभिः) प्रमाणैर् निरूप्यमाणो नास्तितां
प्रतिपद्यते ।
यथा घटादिः स्वकारणव्यतिरेकेणानुपलब्धेर् असन्
एवं सर्वो विकार इति10 ।
नन्व् एवं सर्वाभावे शून्यवादः
प्रसज्येत11 । नायं दोषः ।
द्वे बुद्धी12 सर्वप्राणिप्रसिद्धे
भवतः --- विशेष्यबुद्धिर् विशेषणबुद्धिश् च13 ।
सन् घटः सन्
पतः14 इति । तत्र विशेष्यविषया बुद्धिर्
घटादिविषया सत्पटादौ15
व्यभिचारान् मिथ्याबुद्धिः ।
या पुनर् विशेषणविषया सद्बुद्धिः
सा सर्वत्र वृत्तेर् अमिथ्या16 ।
तस्मात् सैव पारमार्थिको ।
सर्वो हि घटादिः शरीरादिश् च प्रपञ्चो
मायामात्रम् असद् इति मन्यन्ते ।
एतद् अन्ये17 प्रमाणकुशलाः प्रत्याचक्षते18 ।
यत् तावद् उक्तम् --- प्रत्यक्षादिभिः प्रमाणैर्
विकारो घटादिर्
निरूप्यमाणः स्वरूपं जहातीति तद् असत् ।
आलोकेन्द्रियमनःसंस्कारे19 सति घटो ऽयं पटो ऽयम् इति
प्रत्यक्षा बुद्धिर् उत्पद्यते ।
यया बुद्ध्या यो ऽर्थो प्रतीयते तयैव तदभावः
प्रतीयते20
नोतेस्:
1. युदसत्तदसदेवेति
2. तत्वदर्शिभिः
3. तदेति
4. वस्तुयाथात्मावेदिभिर्^
5. अबतारं वर्णयन्ति इति वा पाठः
6. मायावादिन्येन्यथावतार वर्णयन्तीतच्च
7. शीतोश्मस^ कत्तुं कर्स्मात्
8. शीतोक्ष्मादर्वि^
9. कुजो विकारत्वात्
10. घटादिस्स्वकारेव्यतिरेकेणानुपलभे रसन्नेवं सर्वोधिकार इति
11. प्रसज्यते
12. वुद्धि
13. विशेषबुद्धिर्विशेण^
14. घटस्सर्पट इति
15. विशेषवु^ सपटादौत्यभिचारान्मिथ्याबुद्धिर्षा^
16. ... विषयासंवुद्धिस्सा सर्वत्रावृ^
17. मायामात्रमत् मिति मन्यन्ते तानन्ये
18. प्रसाचक्षते
19. आलोकेन्द्रियमनस्कारे
20. जयैव तदभावः प्रतिपते
प्. 49
इति को वदेद् यो न तार्किकः । पञ्चभिः प्रमाणैः
प्रत्यक्षानुमानोपमानार्थापत्त्यागमैर्
वस्तुस्वरूपं परिच्छिद्यते1 ।
यत्र पञ्चापि निवृत्तानि तत्र प्रमाणनिवृत्त्या प्रमेयाभावो
निश्चीयते । यथा नात्र घट इति2 ।
न च व्यभिचाराद् एवावस्तुत्वं3 भवति ।
यथैव घटबुद्धेः पटादौ व्यभिचाराद्
अवस्तुत्वं तथा सद्बुद्धेर्
अपि4 शशविषाणादाव् अपि5 व्यभिचाराद् अवस्तुत्वं प्रसज्यते ।
भावबुद्धिर् अभावान् निवर्तते भावाभावयोः परस्परविरोधात् ।
अथ (यथा) सद्बुद्धिः सत्तां6 ज्ञापयति
तथा घटादिबुद्धिर् अपीन्द्रियजन्यत्वाविशेषाद्
अनुवृत्तिव्यावृत्तिप्रत्ययग्राह्यत्वाच् च7 ।
अवान्तरसामान्यम् अपि घटत्वगोत्वादि सर्वम् अभ्युपगन्तव्यम् ।
तथा च व्यक्तिः सामान्यस्य8 तद्धर्मत्वात् ।
परम् अपरं च द्विविधं सामान्यम् ।
परं सत्तालक्षणम् । अपरं गोत्वादिलक्षणम् ।
न ह्य् आश्रयस्य धर्मिणो भावस् तदाश्रितस्य9
सामान्यस्य वस्तुत्वम् अवकल्पते ।
सतो हि10 भावः सत्ता ।
न हि सा निर्दुष्टा11 स्वतन्त्रा
नाम केन(चि)द् इह घटाद्याश्रयनिरपेक्षा12 चक्षुषा गृह्यते ।
सत्सु द्रव्येषु पृथिव्यादिषु13 गृह्यमाणेषु
तत्समवेता तदव्यतिरिक्ता
सत्तापि गृह्यते ।
(अ)त एव सत्ता द्रव्यधर्मत्वाद् आत्मा न भवति ।
तत्र सत्तैवात्मा इति (यत्) कैश्चिद् उक्तम् (त)द् अपास्तं भवति ।
अत एव यद् उक्तं केनापि चातुर्विध्याच् च प्रत्यक्षं
न निग्राह्यं विपश्चिता14 इति सत्ताया15 एव ग्राहकं
प्रत्यक्षम् इत्य् अभिप्रेत्य तस्य तद् अप्य् अपाकृतं16
नोतेस्:
1. प्रत्याक्षानु^ परिछिद्यते
2. नात्रघ द्रढेति
3. चारादेवस्तु^
4. संवुद्धेरपि
5. ^विषणादावयि
6. वरस्पर ... सवुद्धि सत्तां
7. ^वुद्धिरपीद्रियजत्वाविशेषादनवृत्तिव्यावृत्तिप्रत्ययग्रात्वत्वाच्च
8. तथा च वाचव्यक्तिस्सामान्यस्य
9. नह्वाश्रयस्य धर्मिणो ...
10. सत्तो हि
11. निषूष्टा
12. ^टाघाश्रय^
13. पृथिव्यादिसु
14. आयुर्विधात् प्रत्यक्ष्यं न निद्धविपश्चितः
15. सत्राया
16. तदप्यपापकृतं
प्. 50
भवति । सतां हि भावः सत्ता इति1 पारतन्त्र्यवपदेशात् ।
न च घटादिबुद्धीनां घटत्वादाव् अवान्तरसामान्ये
तद्युक्तौ वा व्यभिचारः ।
कस्यां(चिद्)2 व्यक्तौ विनष्टौ विनष्टायां व्यक्त्यन्तराणाम्
आनन्त्याद् युगपद् उच्छेदनानुपपत्तेः3 ।
स्वविषयवभिचारो हि बुद्धीनां दोषो विषये तु पटादौ
नोत्पद्यत4 इति किम् अत्राश्चर्यम् ।
न हि विषयेन्द्रियालोकसंस्कारसामर्थ्यतायां सत्यां5
घटबुद्धिः कदाचित् कस्यचिन् नोत्पद्यते ।
किं च कार्यत्वाद् (घटत्व)बुद्धिः कारणम् अपेक्षते6 ।
घटज्ञानस्य घटः कारणं नान्यद् इति ।
यथा बीजाङ्कुरः7 कारणं बीजम् अपेक्षते धूमश् चाग्निम्
एवम् अन्यत्रापीति8 । तस्मान् न व्यभिचारो9 मिथ्याहेतुर्
इति दुरुपदेशो ऽयम् ।
कस् तर्हि मिथ्याहेतुः कारणदोषो ऽबाधकप्रत्ययो वा ।
तथा चोक्तम्10 ---
यस्य च दुष्टं करणं11 यत्र च मिथ्येति प्रत्ययः ।
स एवासमीचीनः प्रत्ययो12 नान्यः --- इति ।
तद् एवम् अनुवृत्तिप्रत्ययात् सामान्यं सिद्धं
व्यावृत्तिप्रत्ययाद् विशेष इति ।
सामान्यविशेषात्मकं वस्तु भिन्नाभिन्नरूपम् इति स्थितम् ।
किं च सन् घट इति घटत्ववस्तुत्वे सामानाधिकरण्यं
बुद्धौ नावकल्पते13 ।
ननु तच् चेदम् उदकम् इति14 मृगतृष्णिकायां
सामानाधिकरण्यं दृश्यते15 ।
तत्रापि विद्यमाना अभिमानिन16
नोतेस्:
1. भावस्सतेति
2. तद्युक्तौ वा व्यभिचार क्रस्यां^
3. विनिष्टायां ... युगपदुछेदेनानुपपत्ते
4. नोत्पद्यन्त इति
5. नहि वियद्रियालोकमनस्कारसामर्थ्यां सत्यां
6. कि च ... कारणमीक्षते
7. कारणं न पदिभि यथा भपाङ्कुरः
8. ^वंमन्यत्नत्रापीनि
9. ^न्नषभिचारो
10. ^व्याधकमप्र ... तथो चोक्तम्
11. करणो
12. ... चीनप्रत्ययो
13. वुड्योर्नाव^
14. ननु च्चेचेदमुदकमिति
15. दश्यते
16. विधमानाभिमानिन
प्. 51
एव सामानाधिकरण्यबुद्धिर् उत्पद्यते ।
यदा तु बाधकप्रत्ययो
जायते मृगतृष्णिकेयम् अत्र नोदकम् अस्तीति
तदा सामानाधिकरण्यबुद्धिर् अपैति ।
न चात्र बाधकप्रत्ययो ऽस्तीति
दृष्टान्तवैषम्यम्1 ।
अतो ऽपव्याख्यानम् एतद् इति स्थितम् ॥ 17 ॥
सतो भावो नास्तीति सामान्येनोक्तं
तद् इदानीं विशेषलक्षणेन
निवारयितुम् आह2 ---
अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् ।
विनाशम् अव्ययस्यास्य न कश्चिद् कर्तुम् अर्हति3
तुशब्दो ऽवधारणार्थः4 । अविनाशि तत् । न विनष्टुं शीलम्
अस्येत्य् अविनाशि5 । किं तत् । येन सर्वम् इदं ततं व्याप्तम्6 ।
स्वाभाविकेन परमात्मरूपेण क्षेत्रज्ञो7 व्यपदिश्यत इति ।
कस्माद् एवं8 व्याख्यायते ।
तद्विनाशाशङ्काअनिराकरणपरत्वाद्
अस्य प्रकरणस्य ।
न ह्य् अत्र ब्रह्मोपासनम् अकस्मात्9 प्रतिपाद्यते ।
ज्ञानस्वरूपस्योपासनं षष्टे (ऽध्याये)
विधा(प)यिष्यत इति
जीवस्वरूपम् एवेदानीं वक्तव्यम् ।
कस्माद् अविनाशीत्य् आह10 विनाशम् अव्ययस्यास्य इति ।
व्ययो विनाशः । निरवयवत्वान् नास्य विनाशम्
ईश्वरो ऽपि कर्तुम् अर्हतीति ॥ 18 ॥
यदि तर्ह्य् अयम् अविनाशी तत् कथं कृतो व्यपदेशः ---
विनष्टः पुरुष इति । अत आह11 ---
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
विनाशिनो ऽप्रमेयस्य तस्माद् युद्धस्व भारत
नोतेस्:
1. वाधकप्रत्ययोस्तित्तिदृष्टान्तवैषम्यम्
2. तदिदान्नीं ... आह^
3. कमर्हत्तुति
4. ... शब्दोवधारणार्प्यः
5. अविनाश्यवतन्न विनष्टे शीलमस्येत्यविनासि
6. व्यासं
7. क्षेत्रज्ञौ
8. त्फस्मादेव
9. ^मकक्ष्मात्
10. वक्रव्यकस्मादविना^
11. यदि तर्द्ययमविनाशं तत्किं कृमो त्र्यपदेशो विनष्टः पुरुष
इति
देकृत् इत्याह 18
प्. 52
नित्यस्य शरी(रि)णो ऽप्रमेयस्यान्तवन्तो विनाशिनो देहा उक्ता
नित्यानित्यविभागविद्भिः1 । अन्तवन्तो विनाशिन इति न पुनरुक्त(म्) ।
अन्तवन्त इत्य् अस्यार्थं2 स्वयम् एव भगवान् व्याचष्टे ---
विनाशिन इत्य् एके वर्णयन्ति ।
अन्ये तु वदन्ति कस्यचिद् अन्तवत्त्वं3 (न) भवति ।
यथा पृथिव्या
गन्धस् तिरोभूतो नात्यन्तं विनष्टो4 वृष्टिसंयोगाद् अभिव्यज्यते
तथा देहस्यान्तो भवेद् नात्यन्तं विनाश इति ।
तन् मा भूद् इति विशिनष्टि --- विनाशिन इति5 ।
अस्मिन्न् अपि व्याख्याने ऽन्तवद्ग्रहणम् अतिरिक्तम्6 ।
तद् अकृत्वा विनाशिन इत्य् एव वक्तव्यम् अभिप्रेताविनाशसिद्धेः ।
अपरे तु पाठान्तरं कुर्वन्ति --- अविनाशिनो ऽप्रमेयस्य इति ।
तेषाम् अपि नित्यस्याविनाशिन7 इति पुनरुक्तम् ।
न तु पृथिव्यादिवद्
आपेक्षिकं नित्यत्वं गौणं गृह्यते ।
अत्यन्तनित्यस्य मुख्यस्य
नित्यशब्दार्थस्यासम्भवाद् अविनाशिन8
इत्य् उक्ते ऽप्य् आपेक्षिकं
किन् न गृह्यते । तस्य व्याख्यान्तरकरणं9 व्यर्थम् ।
का10 तर्हि गतिः । विनाशिनो11 देहा इति प्रतिज्ञातम् ।
तत्रान्तवन्त इति12 हेत्वभिधानार्थम् अन्तवद्ग्रहणं देशतः
कालतश् च परिच्छिन्नत्वात् कूटादिवद् इति13
व्यतिरेकाद् धेतुवचनम् अप्रमेयस्येति ।
कस्माद् आत्मा नित्यः । अप्रमेयत्वाद् देशतः
(कालतश् चेति) स स्वधर्मे प्रवर्त(ते) इति14 भगवान् (आह) ।
नोतेस्:
1. ^विभागवद्भिः
2. पुनरुक्त अन्तवत इत्यस्यार्थं
3. ^चिदन्तवन्त्त्वं
4. नास्यन्तं विनष्टो
5. विनाशित इति
6. ^र्नेतवद्भहणमति तदतद्^
7. अविशिनत^
8. ^भवादनाशित^
9. व्यावान्तरकरणं
10. किं
11. विनाशो
12. तत्रान्तवत्वादिति
13. ... परिछिन्नत्वादूटादि^
14. रस्वधर्मे प्रवर्त इति
प्. 53
ननु शोकमोहादिसंसारकारणनिवृत्त्यर्थं गीताशास्त्रं न
प्रवर्तकम् ।
अत्रोच्यते --- न साधु तात्पर्यं1 भवता परामृष्टम् ।
युद्धं प्रक्रम्य शोकमोहापनयस्येदम् एव प्रयोजनम्
कथं नाम युद्धे प्रवर्तेतेति ।
इतरथा द्वारिकायां स्थित्वा गीताशास्त्रं
प्रणयेत्2 स्वधर्मपरित्यागेन ज्ञानमात्राद्
यदि मोक्षो ऽभिप्रेतो ऽभविष्यत्3 ।
इदानीं प्रणयनस्येदम् एव प्रयोजनम्4 अर्जुनस्यान्येषां च
ज्ञानसहितात् स्वधर्मानुष्ठानान् निःश्रेयसम् उपदेक्ष्यामीति5 ॥ 19
॥
एवं6 तावद् अविनाशित्वम् आत्मनः (प्र)तिपाद्य स्वयं च7 मन्यसे
हन्ताहम् एषाम् इमे मया हन्यन्त इति तच् च मृषा8 ।
कथम् ---
य एनं वेत्ति9 हन्तारं यश् चैनं मन्यते हतम् ।
उभौ तौ न (वि)जानीतो नायं हन्ति न हन्यते
नभस इवास्य हननक्रियया विनाशः कर्तुं10 न शक्यते
निरवयवत्वात् ।
सावयवस्यावयवविश्लेषादिना11 शक्यते विनाशः
सम्भावयितुम् ।
तस्माद् उभाव् अप्य् एताव् अज्ञौ12 हन्ताहम् इति यो मन्यते
यश् च हतो ऽहम् इति (मन्यते च) ॥ 20 ॥
इदं प्रतिज्ञामात्रेणोक्तम् । हेत्वपेक्षायां षण्णाम् अपि
भावविकाराणाम् आत्मन्य् अभावाद् इति हेतुम् आचष्टे13 --
न जायते म्रियते14 वा कदाचिन् नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतो ऽयं15 पुराणो न हन्यते हन्यमाने शरीरे
नोतेस्:
1. साधुर्तत्पर्य
2. प्रवर्तेते तीरथा द्वारीकायां स्थित्व गीताशास्त्रं मणयेत्
3. ज्ञातमात्राद्यदि मोक्षामीमेतोभविष्यत्
4. प्रणपतस्यैतव्यप्रयोजनम्
5. स्वधर्मातुष्टानान्नि^
6. दावं
7. स्वयश्च
8. मन्यसे हन्ताहमेषामिति न क्षमन्यसें हन्ताहमेषामिति तत्त्च
छ मृषा कथं 19
9. वेति
10. कर्तु
11. सावयुवस्यावपव^
12. तस्मादुभवप्येतावज्ञो
13. ... मात्रेणोत्त्क हेत्वपेक्षायां यस्मामपि
भावविकाराणामात्मन्युभावा ... । माचष्टे 20
14. म्नियते
15. शश्वतो
प्. 54
न जायत इति जन्मलक्षणो भावविकारः प्रतिषिध्यते ।
वाशब्दश् चार्थे । न चायं म्रियत इति विनाशलक्षणो1
भावविकारः प्रतिषिध्यते । कथम् एतत् ।
भूत्वा नायं न2 भविता । भूयः पुनः । किं तर्हि3 ।
भवितैव । भाविन्य् अपि काले सत्तां न हास्यतीत्य् अर्थः ।
वाशब्दाद् अभूत्वा भावः प्रतिषिद्ध्यते ।
नायम् अभूत्वा4 भवति । किं तर्हि । भूत्वैव भविता ।
भूतकाले ऽपि सत्तां न बभारेत्य् अर्थः ।
यस् त्व् अभूत्वा6 भवति भूत्वा च न भवति स
जन्मविनाशाभ्यां
युज्यते यथा घटादिर् इति ।
सत्तापि जन्मपूर्विका घटस्येवास्य
नेष्यते ।
निरवधिकैवास्य सत्तेति7 घटादि(भ्यो ऽस्य) वैलक्षण्यम् ।
उपसंहरति --- अजो नित्य इति ।
जन्मविनाशप्रतिषेधेनैव मध्यवर्त्तिनो
भावविकाराः प्रतिषिद्धा8 भवन्ति ।
तथापि मन्दबुद्ध्यनुग्रहार्थं9
स्वशब्देन प्रतिषेधति । शाश्वत इत्य् अपक्षयो निषिध्यते ।
स्वाङ्गापचयः साधनापचयो वास्य10 नास्तीति ।
यथा कृष्णो राजा हस्त्यश्वादिभिर् वा हीन इति11 ।
पुराण इति वृद्धिल(क्ष)णो भावविकारः प्रतिषिध्यते12 ।
नायं शशिवत् कलाभिर् उपविपचीयते13 ।
न हन्यते हन्यमाने शरीर
इति विपरिणामो निषिध्यते ।
विपरिणामो ऽवस्थान्तरापत्तिः यथा शशस्य मांसावस्था ।
अन्ये पुनर् अप्य् अन्यथा वर्णयन्ति ---
नायं भूतो भविता वा न भूय
इति पाठान्तरं कृत्वा परब्रह्मोपासनम् अनया गीतया लक्ष्यते ।
नोतेस्:
1. काशश्चार्थेन चायं स्तितये इति विना इति विनाश^
2. न न
3. कि तर्हि
4. नयमभूत्वा
5. न हास्यतीत्य् अर्थः
6. यो स्व भूत्वा
7. सत्तेति
8. प्रतिविष्ट्वा
9. मुन्दबुघनुग्रहार्थं
10. इत्यपक्षया निषिद्धाते स्वाङ्गायचपस्साधनापचयो वास्य
11. यथा कृशो राजाहस्सक्ष्वादिभिर्वाहीन इति
12. प्रतिषिद्यते
13. कालाभिरुप^
प्. 55
नायं भूत इति च मृत्पिण्डवत् कारणत्वं निषिध्यते ।
भविता वा इति1 घटा(दि)वद् उत्पाद्यत्वं निषिद्ध्यते2 ।
कार्यकारणभावो ब्रह्मण्य् औपाधिको न पारमार्थिक3
इत्य् उक्तं भवतीति । तद् इदं श्रधामात्रेण4 ब्रह्मोपासनम्
उत्प्रेक्षितं न श्रुतिलिङ्गप्रकरणगम्यम् ।
प्रकरणं हि यच् चोक्तम् उच्छोषणम् इन्द्रियाणाम् इति
पठनात्5 तदपनोदपरम्6 ।
षड्भावविकारनिवृत्तिपराणि न जायत इत्यादीन्य् अक्षराणि ।
लिङ्गं सामर्थ्यम् उच्यते ।
तच् च शब्दानां तावन्मात्रे
पर्यवस्यति7 ।
तन् नोपासनम् आक्षिपति ।
अज्ञानम् एव तावद् इदानीं निरसनीयम्8 ।
किम् अतित्वरया ब्रह्मोपासनं कल्प्यते ।
पाठान्तरकरणं चाहोपुरुषिकामात्रम् ।
ब्रह्मणो हि9 जगत्कारणत्वं श्रुतिसिद्धम् सद् एव10 सोम्येदम् इति ।
कार्यत्वं पुनर् न जायत इत्य् अनेनैव निषिध्यते11 ।
तस्माद् यत्किञ्चिद् एतद् एवं तु पाठान्तरं
कुर्वन्तो ऽर्थान्तरं12 स्वमतिपरिकल्पितं
वर्णयन्तो13 बहवो व्याख्यातारो ऽभियुक्ताश् चोच्यते ।
उक्तं च ---
शीलदोषाद् अगृह्णन्तं14 लोकम् आकुलीकुर्वन्तीति वा ॥ 21 ॥
प्रतिज्ञातम् अर्थम् अविक्रियात्वादिभिः प्रत्याख्यायोपसंहरति15 ---
वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम्16 ।
कथं स पुरुषः17 पार्थ कं घातयति हन्ति कम्
नोतेस्:
1. मविता वेति
2. तिषिद्ध्यते
3. ब्रह्मरायोपाधिको न पारर्थिक
4. श्रद्धामात्रैण
5. मुछोकम्छोषणमिन्द्रियाणामिति पटनात्
6. पनोपरं
7. पर्यवसति
8. अज्ञानम् एव तावदिदानीं निरसनीय
9. हे
10. सदेष
11. निषिर्द्ध
12. कुर्वतोर्थोन्तर
13. वर्णमन्त्रो
14. व्याख्यातारोमित्युक्तौश्चरन्तैरुक्तं ... गृहन्तं
15. कुर्वन्तीति ^मर्थवि ... प्रत्याध्योपसंहरति 21
16. परानमज^
17. कथ स पुरुः
प्. 56
वेद जानाति1 । य एनम् उक्तप्रकारकम् आत्मानम् अविनाशिनम्2 ।
कथं केन प्रकारेण3 । स पुरुषः । तं4 क्षेत्रज्ञं
कं5 घातयति । उपायविशेषो हेतुः कर्तृत्वं च निषिद्ध्यते ।
कथं वा हन्तीति स्वयं कर्तृत्वमपि पश्चान् निषिध्यते ।
न ह्य् अविनाशी च यो भावो ऽव्यभिचारादिना (स)
स्वयम् उद्यमेन (परकर्तृक)निपातनेन वा विनाशयितुं
शक्यो6 गगन(व)द् इति ।
अत्र क्लेशभीरवः केचित्7 स्वमतं भगवत्यारोप्य वर्णयन्ति
विदुषः सर्वकर्मप्रतिषेध एव प्रकरणार्थो ऽभिप्रेतो
भगवतः (इति) । हन्तिग्रहणम् उदाहरणार्थम्8 ।
यानि कर्माणि शास्त्रे विधीयन्ते9 तान्य् अविदुषो विहितानीति10
भगवतो निश्चयो निश्चय11 इत्य् अत्राभिधीयते ।
न हीदं पूर्वपदानुसन्धानरहितम् अभिप्रायवर्णनं12
लक्ष्यते ।
कथं युद्धे प्रवृत्त्यर्थम् आत्म(न)ः सत्त्वोपवर्णनम्
अत्र13 क्रियते ।
तस्माद् युद्धस्व भारत इति तम् अभिधाय
तत्सिद्ध्यर्थम् एव जायत इति ।
आरम्भाद् यदि च सर्वकर्मत्याग एवाभिप्रेतः स्याद् अयं
श्लोको ऽर्जुनाय न वक्तव्यः स्यात् ।
भगवतोक्तश् च
षड्भावविकाररहित आत्मा । यदि विदुषः कर्मासम्भवं चेद्
अस्तु14 । तस्यापि तत्समानम् इत्य् अप्रवृत्तिर् एव स्यात् ।
उत्तराश् च15 गीताः सर्वा न सङ्गच्छेरन्16 ।
अतो नेयं मृषाशा17 कर्तव्या ।
नोतेस्:
1. ज्ञानाति
2. परानुमुक्त^
3. प्रकारण
4. पुरुषस्तं
5. र्क
6. हतीति स्वयं कर्तृत्वमया पश्चातिषिध्यतेनन्द्यविनश्चये
भावोभिचारादिना स्वहोद्यमनतिपातनेन वा विनाशयितु शक्यः
7. केधित्^
8. हन्तिग्रहणानुदाहरणाथम्
9. विधीयते
10. तान्याविवदुष्येहितानीति
11. निश्चित
12. तहिदं पूर्वापदानुसङ्घातरहित^
13. ... प्रवृत्त्यर्थमात्मसतत्त्वोपवर्णनमत्र
14. श्लोकेर्जुनाय न वव्यस्याद्भगवतोक्तश्च ... रहितात्माविदो
विदुषः कर्मासम्भवश्चेदर्तु
15. स्यादत्तराश्च
16. सङ्गच्छेरन्
17. सृष्टाशा
प्. 57
स्वधर्मत्यागेनाकृष्टचेतसः सुखम् आसीना1 मोक्षं लोभेमहीति ।
उत्तरत्र च ज्ञानकर्मसमुच्चयं न्यायतो निपुणतरम्
उपपादयिष्यामः2 ॥ 22 ॥
हननासम्भवाद् अविनाशित्वम् उक्तं तत् क(थ)म् इवेत्य् आह3 ---
वासांसि जीर्णानि यथा विहाय नवानि गृःणाति नरोपराणि ।
तथा शरीराणि विहाय जीर्णान्य् अन्यानि4 संयाति नवानि देही
यथा जीर्णानां5 कार्याक्षमाणां वस्त्राणां परित्यागस् तथा
शरीराणाम् ।
अभिनवानां चोपादानम् । अन्यन् नवतरं कल्याणतरं
रूपं कुरुते6 इति च ब्राह्मणम् ॥ 23 ॥
यानि च विनाशकारणानि शस्त्रादीनि7 प्रसिद्धानि
तान्य् अप्य् एनं (न)
विनाशयन्तीत्य् आह8 ---
नैनं छिन्दन्ति9 शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्य् आपो न शोपयति मारुतः
नैनं छिन्दन्ति शास्त्राणि असिप्रभृतीनि10 निरवयवत्वाद् आकाशवत् ।
नैनम् अग्निर् भस्मीकरोति ।
नैनम् आपो ऽवयवविश्लेषणाय11
क्लेदयन्ति चर्मवत् ।
नैनं मारुतः शोषयति स्वेदापनयेन12 ॥ 24 ॥
तद् अस्याः प्रतिज्ञाया हेतुर् उच्यते ।
यस्माद् अयं13 छेदनाद्यर्हो
न भवति । कथम्14 ---
अच्छेद्यो ऽयम् अदोह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुर् अचलो ऽयं सनातनः
नित्यत्वात् (सर्वगतः) सर्वगतत्वात् स्थाणुः स्थाणुत्वाद् अचल
इत्य् अक्षरयोजना15 । सनातनश् चिरन्तनः ।
कुतश् चित् कारणान् नायं
नोतेस्:
1. स्वधर्मत्या^ ... चेतसत्सु^
2. न्यायनोनिपुणत्रमुप^
3. तत्किमिवेत्याह 22
4. जीणीनन्यानि
5. नीर्णानां
6. कुरेते
7. पानिचविनाशकाराणानिशास्त्रादीनि
8. तान्यस्येनं विनशंयन्तीत्याहं 23
9. र्छिदन्ति
10. ^प्रभृतीति
11. नेनम् आपोवषवविश्ले^
12. स्नेहापेणं
13. ... तुरुत्त्यते । तस्मादयं
14. मवति कथम् 24
15. ^क्षरायोजना
प्. 58
निष्पन्नो ऽभिनव1 इत्य् अर्थः । नात्र पुनरुक्तदोषश् चोदनीयः ।
दुर्बोधत्वाद् आत्मवस्तुनः पर्यायशब्दैः पुनः पुअस् तद् एवोच्यते
सुखप्रतिपत्तये ॥ 25 ॥
किं च2 ---
अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते ।
तस्माद् एवं वि(दि)त्वैनं नानुशोचितुम् अर्हसि3
इन्द्रियागोचरत्वाद् अव्यक्तो ऽत एवाचिन्त्यः ।
य इन्द्रियगोचरो गवादिः स व्यक्तश् चिन्तनीयः4 ।
यो हि व्यक्तः स विकार्यः ।
अयं त्व् अविकार्यः । तस्माद् इति निगमनम् ।
स्वरूपतस् तावद् आत्मनो ऽविनाशित्वं तथोक्तम्5 ॥ 26 ॥
अथ शरीरेन्द्रियोपाधिविनाशाद् विनाशं6 तदुत्पत्त्या चोत्पत्तिम्
आत्मनो मन्यसे तथापि7 शोको न युक्तः कर्तुम् इत्य् आह8 ---
अथ चैनं9 (नित्यजातं) नित्यं वा मन्यसे10 मृतम् ।
तथापि त्वं महावाहो नानुशोचितुम् अर्हसि11
कस्मात् । औपाधिकयोर् जन्मनाशयोर् अपरिहार्यत्वात् तद् आह12 ---
जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च ।
तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि
येन कर्मणा जन्मारम्भस् तस्य कर्मणः क्षये ध्रुवो भावी
मृत्युः । मृतस्य13 चावश्यम्भाविशरीरग्रहणम् ।
शरीरान्तरारम्भकारणानाम् अन्येषां14 विद्यमानत्वात्
पुनः शरीरं पुनः कर्मेति
नोतेस्:
1. निष्पन्नोभितव
2. किञ्च25
3. नानुशोचिन्नतुमर्हसि
4. ... चिंस^ योन्द्रियगोचरोगवादिस्म ... चिन्ततीयश्च
5. तवोत्क्नम्
6. शरीरैद्रियोपाधि^
7. नथापि
8. कर्तुमित्याह 26
9. अथच्चैनं
10. मत्यसे
11. नानुशोचित्नुमर्हति
12. कस्मादौयाधिकयोर्जुन्मनाशयोरपरिहार्य्यत्वान्नदाह 27
13. जन्मारव्रन्तस्य कर्मणः क्षेपे ध्रुव भावीमृत्युर्मृतस्य
14. भाविशरीरप्रहणं ततीरान्तरारम्भकारणामन्येषां
प्. 59
संसारचक्रस्यानादित्वात्1 । एवं व्याख्यायमाने ध्रुवं जन्म
मृतस्य (च) इति श्लोकार्थो ऽवकल्पते2 ।
नैरात्म्यवादिदर्शनाभ्युपगमेन व्याख्याने मृतस्य
पुनर्जन्माभावाद्
अनुपपत्तिः स्यात्3 ॥ 28 ॥
इतश् च शोककरणम् अयुक्तम्4 ---
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत5 ।
अव्यक्तनिधानान्य् एव6 तत्र का परिदेवना
अव्यक्तं पञ्चभूतानां सूक्ष्मावस्था प्रकृतिः
तदादिर् येषां
भूतानां तानीमानि अव्यक्तादीनि7 ।
व्यक्तं मध्यं येषां तानि
व्यक्तमध्यानि । व्यक्तं स्थूलावस्थोच्यते ।
कारणे प्रचरत्वात् ।
अव्यक्ते निधनं विनाशः9 प्रलयो येषां
तान्य् अव्यक्तनिधनानि स्वकारेण प्रलीनानि
कार्यकारणसङ्घातात्मकानि । तत्र का परिदेवना10 ।
शोकनिमित्तः11 प्रलापः परिदेवनोच्यते ।
सत्कार्यवादिनां त्व् औपनिषदानां साङ्ख्यानां12 च त्रिष्व् अपि
कालेषु सर्वे भावाः सन्ति आविर्भावतिरोभावमात्रत्वाद्
उत्पत्तिविनाशयोः13 ।
यथा घटश् चूर्णरूपेण स्वकारेण विद्यमानः
कुम्भकारव्यापारेणाविर्भवति मुद्गतादियोगेन14 तिरोभूतः
शक्त्यात्मना पुनर् अपि कारणं प्रविशति ।
अपरे त्य् आहुः --- अव्यक्तम् अदर्शनम् । तदादिर् येषां
तान्य् अव्यक्तादीनि इति ।
अत्रोच्यते --- यदि स्वदर्श(ना)भावो ऽदर्शनं
तस्याद्यन्तता15 नोपपद्यते अभावस्य भावोत्पत्तिहेतुत्वनिराकरणात्16
।
कथम्
1. संसारनक्रुस्यानादि^
2. श्लोकार्धो^
3. नैरात्म्यवादि ... भावादमुपपत्ति स्यात्
4. ... युक्तं 28
5. ष्यक्तमध्यानि भारन
6. अव्यक्तनिधनानेव
7. तानीमान्यव्यक्तादानि
8. स्थुलावस्थोच्यते
9. निधानंविनाश
10. परिदेवता
11. शोकनिमिन्नः
12. स्वौपनिषदानां संस्यानां
13. भावस्सन्त्याविवेतिरोभाव^
14. स्वकारेण मुदरादियोगेन तिरोभूतः
15. तस्यादित्यन्ता
16. भावोक्षत्ति हेतु^
प्. 60
असतः सज् जायत इति ।
तिरोहितं हि द्रव्यं द्रव्यान्तरस्योत्पादकम् ।
मृत्सुवर्णादौ अतिप्रसिद्धम् एतल्लोके1 ।
अथादर्शनम्
इन्द्रियागोचरत्वाद् अव्यक्तम् अभिप्रेतं
ततो नास्ति विसंवाद इति2 ।
एवं तावद् आत्मनः स्वरूपाविनाशत्वान् न युक्तः शोकः
कर्तुम् इत्य् उक्तम्3 ॥ 29 ॥
दुर्विज्ञेयश् चायम् आत्मा यस्माद् भूतसङ्घाते4 सत्य् उपलभ्यते
त (तस्माद्) एव बहवो मोमुह्यन्ते ।
केचिद् भूतचैतन्यं5 प्रतिजानते
व्यतिरिक्तम् आत्मानं6 पश्यन्ति अपरे विज्ञानसन्तानं
क्षणिकम् इच्छन्तीति7 । तद् एतद् अत्र8 ---
आश्चर्य(व)त् पश्यति कश्चिद् एनम्9 आश्चर्यवद् वदति तथैवम् अन्यः ।
आश्चर्यवच् चैनम् अन्यः10 शृणोति श्रुत्वाप्य् एनं वेद न चैव कश्चित्
यथाश्चर्यम् अद्भुतं11 कश्चित् कदाचित् पश्यति
तद्वद् एनम् आत्मानं
तथाश्चर्यम् इव (पश्यति कश्चित्) ।
यदैनं12 कश्चिद् वदति रूपादिरहितम्
अमूर्तं स्वसंवेद्यं चेतनस्वभावम् आश्चर्यम्
इव कश्चिद् एनं13 शृणोति ।
आत्मश्रवणपराङ्मुख एव हि प्रायेण जन्तुः14 ।
श्रुत्वाप्य् एनं न च वेद कश्चित् । तद् अप्य् आश्चर्यम् एवेति15 ।
तस्माद् आत्मतत्त्वमुक्तलक्षणं16 सम्यगवधार्यं
तन् न विस्मरणीयम् इत्यभिप्रायः ।
केचिद् अस्य श्लोकस्यार्थं17 स्वमतिकल्पनया वर्णयन्ति ---
नोतेस्:
1. निहतं ... द्रव्यातरस्योत्पादकं मृत्सुवर्णादीन्यति^
2. ... दर्शनमिन्द्रिषागोचर^
3. तावदात्मनरूपाविनाशत्वार्न्न युक्तःशोकर्तुं जित्युक्तम्
4. ... संषाते
5. वहोवो^ केनिद्भूत^
6. ... मात्मां न
7. क्षणिकमिच्छति
8. तदेतत्र 29
9. कश्चदेनं
10. च्चैनमभ्यः
11. यथाश्चर्यमद्भुतं
12. तथश्चर्य^
13. यदेनं ... वदतिं ... ममूंर्त स्वसंर्वधं ... कश्चिदोनं
14. प्रापेण जः तः
15. त च कश्चिन्नदप्याश्चर्य^
16. तस्मादात्मतत्त्यमु^
17. केविदस्य श्लोकस्यार्थ
प्. 61
आत्मा वा अरे द्रष्टव्यः श्रोतव्य इत्य् अस्याः श्रुतेर् अर्थः
प्रतिनिर्दिश्यत1 इति । तद् एतद् व्याख्यानं श्रोत्रियेष्व् एव शोभते2 ।
न हि तदर्थप्रत्यभिज्ञानम् इह3 विद्यते । विधिप्रत्ययस् तत्र
श्रूयते । वर्तमानो ऽपदेशश् चायम्4 । न च तत्राश्चर्यवद्
द्रष्टव्य5 इत्य् अर्थो ऽभिधीयते । न चाक्षरमात्र(सा)दृश्यात्
प्रदेशान्तरगतो ऽर्थः शक्यः कल्पयितुम्6 ।
न च प्रकृतार्थोपयोगित्वम् अस्याः7 कल्पनायाः । किं च ---
श्रवणायापि बहुभिर् यो न लभ्यः
शृण्वन्तो ऽपि बहवो यं न विद्युः8 ।
आश्चर्यो वक्ता कुशलो ऽस्य लब्धा9
आश्चर्यो ध्याता कुशलो ऽनुशिष्टः10 ॥
इत्य् अस्य मन्त्रस्य यो ऽर्थः सो ऽत्र कथ्यते ॥ 30
दुर्लभो ऽयम् आत्मोपदेश इति वर्णयितुम् अथेदानीं
प्रकरणार्थोपसंहारः क्रियते11 ---
देही नित्यम् अवध्यो ऽयं12 देहे सर्वस्य भारत ।
तस्मात् सर्वाणि13 भूतानि नानुशोचितुम् अर्हसि
यत एवं तस्माद् भीष्मादीन् अनुचिन्त्य14 न त्वं शोचितुम् अर्हसि ॥ 31
॥
आत्मविषयम् अनात्मधर्मपरिकल्पितम् अपनीय15 अशोच्यान् ---
नोतेस्:
1. श्रुतेरर्थोप्रतिनिदेश्यते
2. तदेदतध्याख्यानं श्रोत्रियेधेव शोमते
3. ... प्रतिभिजान^
4. वर्तमानापदेशश्चायं
5. द्रष्टव्यं
6. चाक्षरमात्रदश्यात् ... काल्पयितुं
7. प्रकृतार्थेपयोगित्वमस्याः
8. शृंरावतो वहवोपं न विधुः
9. लधा
10. आश्चार्यो ताता कुशलेनानुशिष्ट इति
11. दुलभो ... वर्णषितुं अथेदाना प्रकरणार्थोपसंहारः
क्रियते 30
12. नित्यमवध्योय
13. तस्मा सर्वाणि
14. तस्माद् भीष्मादिनि अनुचिन्त्य
15. परिकल्पत
प्. 62
इत्यादि यद् उक्तं तद् उपसंहृतम् ।
अधुना1 धर्मविषयम् अधर्माध्यारोपणम् ।
तन्निरासाय प्रज्ञावादांश् च इत्य् उक्तं
(यत्) तत् प्रस्तूयते2 --
स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि ।
धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत्3 क्षत्रियस्य न विद्यते
धर्माद् अनपेतं4 धर्म्यं युद्धम् । ततो ऽन्यन् न5 विद्यते श्रेयस्करम् ।
क्षत्रियग्रहणं प्रदर्शनार्थम्6 ।
अन्येषाम् अपि स्वधर्मानुष्ठानं7
श्रेयस्करम्8 । तद् अनेन9 प्रकारेण श्रेयस्करे ज्ञानं कर्म च
समुच्चिनोति10 ॥ 32 ॥
इतश् च युद्धं कर्तव्यम्11 ---
यदृच्छया चोपपन्नं12 स्वर्गद्वारम् अपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते13 युद्धम् ईदृशम्
अयत्नोपनीतं स्वर्गस्य द्वारम् अपावृतम् उद्घाटितम् ।
सुखिनः सुखभागिनो हि लभन्ते युद्धम् ईदृशं नेतरे14 ।
अथ वा किं सुखिनः क्लेशभीरवो लभन्ते ।
मन्दभाग्या इत्यभिप्रायः ॥ 33 ॥
यदि चेत्थं कर्तव्यं प्राप्तम्15 ---
अथ चेत् त्वम् इमं धर्म्यं16 सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं17 च हित्वा पापम् अवाप्स्यसि
ततः स्वधर्मं कीर्तिं18 च महादेवादियुद्धनिमित्तां19
हित्वा पापं प्रतिपद्यसे ॥ 34 ॥
नोतेस्:
1. ^याशोच्यामित्यादि ... सन्दतमधुना
2. तत्मस्ते 31
3. युद्राछ्रेषो^
4. ^देनेपते
5. ततोन्यत्र
6. प्रदर्शनार्थम्
7. ^मातुषातं
8. श्रयस्करं
9. तदतेन
10. समश्चिनोति
11. कर्तव्य 31
12. यदछया चोपपन्न
13. क्षत्रियाः पार्थ लभन्तो
14. अयलीपनन्तं ^मुद्वाटितं सुखिनस्सुवाभागिवो
हि लभन्ते ... । नेनरे
15. चेत्यं कर्तव्यं प्राप्तम् 33
16. अथ चेत्त्वं धर्म्यमिम
17. स्वधर्मकिर्ति
18. कीर्ति
19. ... निमितां
प्. 63
न केवलम् एतावद् एवेति शेषः1 ---
अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽव्ययाम्2 ।
सम्भावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते3
अव्ययां सन्ततां दीर्घकालाम् इत्य् अर्थः । शौर्यादिभिश् च
गुणैः सम्भावितस्याकीर्तिर् मरणाद् अतिरिच्यते4 ।
ततो मरणं वरम् इत्य् अर्थः5 ॥ 35 ॥
किं च6 ---
भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः ।
येषां7 च त्वं बहुमतो भूत्वा यास्यसि लाघवम्
कर्णादिभ्यो भयाद् उपरतं मंस्यन्ते8 त्वाम्
अश्वत्थामप्रभृतयो महारथाः ।
बहुभिर् गुणैः धर्माशयस् त्वम् अञ्जसा9
शूर इत्यादिभिः (गुणैः बहु)मतो यास्यसि लघुभावम् ।
तद् अपि कष्टतरम् ॥ 36 ॥
किं च10 ---
अवाच्यवादांश् च बहून् वदिष्यन्ति तवाहिताः11 ।
निन्दन्तस् तव12 सामर्थ्यं ततो दुःखतरं नु किम्
अहिताः शत्रवः । ततो दुःखतरं नु किम् । न्व् इति वितर्के ।
ततो नान्यद् दुःखतरम् अस्तीत्य् अर्थः ॥ 37 ॥
युद्धे तु क्रियमाणे गुणा एवोभयत्रेत्य् आह13 ---
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्14 ।
तस्माद् उत्तिष्ठ15 कौन्तेय युद्धाय कृतनिश्चयः
मोहं त्यक्त्वोत्तिष्ठ17 । यद् वा (म)यावश्यं कर्तव्यं हि
युद्धम् इत्य् एवं कृतनिश्चयः ॥ 38 ॥
नोतेस्:
1. ... मेतावदेवशेषः 33
2. चपि ... कथयिष्यन्ति तेव्ययां
3. कीर्तिंर्मरणा^
4. सन्तन्तां ... गुनसम्भावितस्यचा कीर्तिंर्मरणादतिरिच्यते
5. मरर्णंवमित्य् अर्थः
6. किञ्च 35
7. येसां
8. मन्यन्ते
9. गुनै धर्माशय स्तमञ्जसः
10. किञ्च 36
11. तताहिनाः
12. निदन्तस्तव
13. ... त्याह 37
14. महीमृ
15. ^दुत्तिष्ठ
16. कोन्तेय
17. मोहं त्यत्कोत्तिष्ठ
प्. 64
तत्र च युद्धप्रवृत्तस्य बुद्धिसाम्यम् उपदेष्टुम् आह1 ---
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि
सुखे हर्षो दुःखे विषादः2 । ताव् अकृत्वा ।
तयोः किन्निमित्तम् इत्य् आह3 ---
लाभालाभौ (समौ कृत्वा) लाभे सुखम् अलाभे
दुःखम् उत्पद्यते । तयोः पुनः को हेतुर् इत्य् आह4 ---
जयाजयौ । जये लाभो विपर्य(ये) अलाभ इति ।
(इ)दम् उक्तं कुर्वन् न पापं5 प्रत्यवायम् अवाप्स्यसीसि ।
तद् एवोपसंहृतम्6 । अन्यथा पपशङ्कानुपपत्तेर् इह स्वधर्मं7
कुर्वतो यत् पापं8 भवति तन् निषिध्यते9 ।
अथ वा पापम् इति संसारव्यसनम् । तन् नैवम् अवाप्स्यसि ।
ज्ञानकर्मसमुच्चयानुष्ठानम् एवम् इति10 व्यपदिश्यते
साम्यपर्यन्तम् ॥ 39 ॥
इदानीं ज्ञानप्रकरणम् उपसंहरति कर्मण्य् उपायविशेषो
वक्तव्य इति विभागज्ञापनाय11 ---
एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं12 प्रहास्यसि
यद्य् अपि साङ्ख्यशब्दः कापिलतन्त्रे रूढः13
गुणपुरुषविवेकज्ञानं14 यत्रोपदिश्यते
तथापि तद् इह न गृह्यते ।
न तत्सादृश्याद् आत्मयाथात्म्यविवेकः15 साङ्ख्यशब्देनात्र
व्यपदिश्यते16 । तद्विषया बुद्धिर् उक्तेत्य् अर्थः ।
योगः कर्मानुष्ठानोपायः । फलसङ्कल्परहितत्वं17
समत्वम् ।
कृतस्य क्रियमाणस्य वा (कर्मणः) ईश्वरार्पणम् इति ।
त्वम् इमां बुद्धिं18 शृणु ।
तां विशिनष्टि श्रोतुश् चित्तसमाधानाय19 ।
नोतेस्:
1. युद्धप्रवृन्तस्य बुद्धिसाम्यमुपदेष्टमाह 38
2. सुस्वहषों दुःखे विषादः
3. किन्निमित्त्र^
4. हितुरित्याह
5. पाप
6. ... सन्तृतम्
7. पापा ... खधर्म
8. कुर्वतः पार्प
9. यन्निषिद्धते
10. मेवेमिति
11. ^णमुपर्सदरतं 39
12. कर्मबन्धं
13. ^तन्त्रेगूत
14. ... वकेकनानं
15. गृह्यतेतत्सावृश्यात्
16. शब्देनात्र व्ययदिश्यते
17. कल^
18. वाद्रेश्वरायणामिति तयां बुद्धिं
19. श्रोतुश्चितुसमा^
प्. 65
यया बुद्ध्या युक्तः कर्मबन्धं कर्मैव बन्धः
कर्मानेकजन्मसञ्चितं प्रहास्यसि त्यक्ष्यसि ।
केचिद् अत्र साङ्ख्यशब्देनोद्गीथाद्युपासनानाम् अतिमोक्षस्य
सम्पदश् च विधायकं2 शास्त्रम् एतत् सर्वं व्यपदिश्यत इति ब्रुवते ।
अत्रोच्यते । तद् एतद् अप्रस्तुतम् अनुपयोग्यम् आकस्मिकम् उपन्यस्तम् इति
नः प्रतिभाति । कुतः3 । पुरुषविशेषविषयास् तूपासनासम्पदो
ऽतिमोक्षश् च4 । न च ता आत्मोपासनाः ।
अत्र च शोकमोहाकुलितचेतसस्
तदपनयनायात्मयाथात्म्यवर्णनार्थं5 प्रकरणम् ।
एवं च क्वोद्गीथादयः क्वेदं6 प्रकरणम् ।
न च साङ्ख्यशब्दः परिभाषया विनातिमोक्षादिषु वर्तेत ।
तस्मात् पौर्वापर्यपर्यालोचनया7 सम्बन्ध्यमानो
यो ऽर्थः स साङ्ख्यशब्दयोग्यो8 व्याख्येयः ।
स चास्माभिर् उक्त इति ।
योगशब्दो ऽप्य् अत्र --- समत्वं योग उच्यते ---
इत्य् उपसंहारवचनाद्
अनुष्ःआनोपायवचनो10 नान्यत्र योजनीय इति ॥ 40 ॥
बुद्धियुक्तस्य11 कर्मणो गुणान्तरम् उच्यते12 ---
नेहातिक्रमनाशो ऽस्ति13 प्रत्यवायो न विद्यते ।
स्वल्पम् अप्य् अस्य14 धर्मस्य त्रायते महतो भयात्
अतिक्रामति संसारदुःखं येन बुद्धियुक्तेन15 कर्मणा
सो ऽतिक्रमः । अभिक्रम इति केचित् पठन्ति16 ।
अर्थस् तु स एव ।
नोतेस्:
1. बुध्या कर्मबन्धं कर्मैवन्धः
2. उद्गीथा घुपासनान्यतिमोक्षास्संपदश्च धायकं
3. कृत
4. विषयास्तु उपासासंपदोतिमोक्षाश्च
5. ... कुलितचितसस्तदपनपनायात्म याथात्म्य वर्णनार्थ
6. त्क्वोद्रीथादयः केदं
7.वर्तते ... पूर्वपर्यालोचनया
8. साङ्ख्यशब्दोयोग्योव्व्याख्येय
9. स चस्माभिरुक्त इति
10. इत्युषसंहारवचनादनुष्टानो पापवाचनो
11. ... युक्षस्य
12. ... मुच्यते 41
13. नेहातिक्रम^
14. स्पल्पमप्यत्य
15. बुद्धियुक्तौन
16. पवन्ति
प्. 66
नाशो निष्फलत्वम् । इह मोक्षमार्गे ऽवस्थाय क्रियमाणस्य1
कर्मणो निष्फलत्वं नास्ति यथा कृष्णादेर्
अनेकान्तिकफलत्वं
नापि चिकित्सककृतधर्मवत्2 प्रत्यवायो विद्यते ।
प्रत्युत स्वल्पम् अपि
यथाशक्त्यनुष्ठितस्य3 धर्मस्य सम्बन्धि
त्रायते4 रक्षत्य् अनुष्ठातारं
महतः संसारभयात् ॥ 41 ॥
आत्मविषया कर्मविषया बुद्धिर् एकैवैकफलत्वाद् इति
दर्शयितुम् आह4 ---
व्यवसायात्मिका बुद्धिर् एकैव कुरुनन्दन ।
बहुशाखा ह्य् अनन्ताश् च बुद्धयो ऽव्यवसायिनाम्
समुच्चिताभ्यां6 ज्ञानकर्मभ्याम् अपवर्गो ऽवाप्यते
यथाग्नेयादिभिर्
इतरेतरं युक्तैर् यागैः स्वर्गः7 ।
सा चेयं व्यवसायात्मिका बुद्धिर् एका ।
अव्यवसायिनां तु केवलकर्मिणां केवलज्ञानवादिनां
च कर्माकरणे प्रयतमानानां बहुशाखा8
बहुप्रभेदा असङ्ख्येयाश्
च बुद्धयो भवन्ति ॥ 42 ॥
तत्र केवलकर्मिणो ऽधिकृत्याह9 ---
याम् इमां पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः ।
वेदवादरताः पार्थ नान्यद् अस्तीति वादिनः
याम् इमां वक्ष्यमाणां पुष्पितां फलप्रसवित्रीं1
वाक्यलक्षणां वाचम् अनात्मविदो विपश्चितो वेदवाक्येषु ---
अग्निहोत्रं जुहुयात् स्वर्गकामः -- इत्यादिषु रताः
कर्मणा निरतिशयसुखं
नोतेस्:
1. क्रिषमाणस्य
2. ... कृताहर्मवत्प्रत्युवायो
3. यथाशक्तनुष्टितस्य
4. नायते
5. दृअर्शयितुमाह 42
6. समुश्चिताभ्याम्
7. युक्तैर्यागस्वर्गः
8. बहुणखा
9. ... कर्मिणैधिकृत्याह 43
10. ... सवित्री
प्. 67
स्वर्गशब्दवाच्यं1 प्राप्यते ।
ततो ऽन्यद् अपवर्गाख्यं सुखं नास्तीति2
वादिनो वदनशीलाश्
च (प्रवदन्ति) ॥ 43 ॥
इतः ---
कामात्मानः3 स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति
अप्राप्तस्य प्राप्तीच्छा कामः ।
तदनुरक्तचेतस इत्य् अर्थः4 ।
स्वर्गः परः पुरुषार्थो येषां ते
स्वर्गपराः स्वर्गप्रधानाः । जन्मकर्मफलप्रदाम् ।
कर्मणः फलं कर्मफलं ।
जन्मयुक्तं कर्मफलं प्रददातीति जन्मकर्मफलप्रदाम् ।
वाचम् इत्य् अधिक्रियते । पुनर् अपि किंविशिष्टाम् ।
क्रियाविशेषबहुलाम् । क्रियाणां विशेषा (अ)तिबहुला
बहुप्रकारा यस्यां वाचि ताम् ।
किं5 प्रति प्रवृत्ताम् इत्य् आह ---
भोगैश्वर्यगतिं प्रति ।
भोगश् चैश्वर्यं च6 तयोर् गतिः प्राप्तिस् ताम्
उद्दिश्य7 । भोगः सुखवेदना । (अह)म् एषां पतिः स्वामीति
यत्राभिमानो जायते तदाइश्वर्यम् । अथवा गतेर् एवोभयं8 विशेषणम्
।
कीदृशगतिं9 प्रति ।
जन्मकर्मफलप्रदां क्रियाविशेषबहुलां प्रति ।
पुष्पितां वाचं (प्र)तीत्य् अर्थः ॥ 44 ॥
तेषां चैवं वदताम्10 ---
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्11 ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते
तया पूर्वोक्तया वाचापहृतविवेकज्ञानानां12
(ज्ञान)कर्मसमुच्चयलक्षणा व्यवसायात्मिका13 बुद्धिः (समाधौ) ।
समाधीयते ऽस्मिन्
नोतेस्:
1. सुखं गशब्दः वाच्यं प्राप्येते
2. ... न्यदय वर्गाख्यसुखं नास्तिति
3. ... शीलाः चेतः कामा^
4. प्राप्तेछा कामंस्तदनुरकवेतस इत्य् अर्थः
5. विशेषाइ ... वाचितो किं
6. गतं भोगश्चैर्य
7. तामुदिश्य
8. कीदशं गतिं
9. गते वोभयं
10. वदतां 45
11. तयापहतचेतसां
12. ... पतृविवेकज्ञानाना
13. व्यत्सायात्मिका वुद्धिः
प्. 68
चित्तम् इति1 समाधिर् आत्मा । तस्मिन्न् आत्मनि न विधीयते न
सम्भवतीत्य् अर्थः ।
अथवा समाधानं समाधिस् तद्विषया बुद्धिः ।
अपरे पुनर् युक्तं व्याख्यानम् अननुसरन्तस्
तत्प्रतिमानं कल्पयन्तो वदन्ति ।
सर्वेषां किल कर्मकाण्डगतानां वाक्यानां हि
(द्वि)विधं फलम् अन्वयनिबन्धनं तात्पर्यसमधिगम्यं च2 ।
तत्रान्वयिकं स्वर्गब्रह्मवर्चसादिफलम् अन्वयनिबन्धनम् ।
शमदमादिहेतुतयानुष्ठातॄणां व्यवसायात्मिकायां बुद्धौ
योग्यतापादनं तत्रान्वयफलम् एव स्वर्गादि
ये वदन्त्य् अविपश्चितस् ते
तात्पर्यफलम् अजानन्त इति योजयन्ति3 ।
अत्राभिधीयते । तद् एतच्छब्दप्रमाणबाह्यं
पुरुषबुद्धिप्रभवं
न्यायविद्भ्यो4 नातिरोचते ।
न हि स्वर्गकामो यजेत --- इत्य् अस्य वाक्यस्य द्वाव् अर्थौ5 ---
तत्र यागेन स्वर्गं प्राप्नुयाद् इत्य् अयम् एवैको ऽर्थो विधीयते6 ।
पदार्थसंसर्गो हि वाक्यार्थः ।
न पुनर् यागानुष्ठानेन7 ज्ञानयोग्यतां कुर्याद् इति8
कस्यचित् पदस्य तात्पर्यो दृश्यते9 ।
पदार्थपूर्वकश् च वाक्यार्थो ज्ञाने निमित्तम् इति स्थितिः ।
न च पुरुषेच्छावशाद्10 वाक्यस्य नार्थान्तरम् आक्षिपति ।
ये हि श्रूयमाणम् अर्थम् अनादृत्य12 वाक्यस्यार्थान्तरं कल्पयन्ति13
त एव सुतराम् अविपश्चितो न मीमांसका14
ये शब्दप्रमाणवृत्तं15
ब्रुवते शमदमादयो यागानुष्ठानसाध्या इति16 ।
किं तर्हि । शान्तो दान्त उपरतः17
नोतेस्:
1. समाधीयेतस्मिशिन्नमिति
2. ^निबन्धनं तात्पर्यं समाधिराम्यं च तात्रान्वियकं
3. तौतात्पर्यफलमजामन्तः इनि योजयन्ति
4. न्यायविम्द्योतेरुरोवच्यते
5. द्वावर्थो
6. प्राप्नुयदित्ययमेवैकोथो विधियते
7. संसर्गे ... यागानुष्टानेन
8. कुपीदिति
9. त्पायारो दश्यते
10. पुरुषेच्छवशाद्वाक्यस्य
11. ... निराकाक्ष्यं
12. श्रूयमाणमर्थनामनादत्य
13. कल्पनीयन्ति
14. मीमो एका
15. शाब्द^
16. समदमादयगानुष्.आनसाध्याः
17. शान्ता दान्ता उपरत
प्. 69
इत्यादिवचनगम्याः संसारदोषदर्शनेन चित्तवृत्तिनिरोधात्
साधनाग्रन्थगौरवभयाद् उपरम्यते1 ।
प्रतिश्लोकं चैवम् अन्ये चान्ये व्याख्यातारो
पूर्वम् अर्थम् उत्प्रेक्षमाणा2
आहोपुरुषिकां लोके प्रथयन्ति ।
तत्र यत् प्रामाण्यवृत्तम् उक्तं
तद् अत्र भवन्तो विदां कुर्वन्तु3 ।
आत्मज्ञानेन तु नित्यकर्मणां समुच्चयो4 वचनान्तरेण ---
तम् एवं वेदानुवच(ने)न ---
इति नियतस्य तु सन्न्यासः कर्मणो5
नोपपद्यते --- इति च त्यागप्रतिषेधात् तेषाम्
एवात्मनाम्6 ॥ 45 ॥
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो7 निर्योगक्षेम आत्मवान्
त्रयाणां सत्त्वरजस्तमसां गुणानां कर्म
त(त्) त्रैगुण्यम् ।
स विषयः प्रकाशयितव्यो8 येषां
वेदानां ते त्रैगुण्यविषयाः ।
गुणानां च संसारप्रवर्तनं कर्म ।
तद्विषया वेदाः । तत्र सत्त्वम् उपसर्जनम् ।
रजस्तमसी तूत्कटे9 । ताभ्यां वशीकृतः पुरुषः
इहामुत्रफलेषु
कर्मसु प्रवर्तमानः संसारचक्रं नातिवर्तत इति
तात्पर्यार्थः10 ।
त्वं तु11 निस्त्रैगुण्यो भव ।
त्रैगुण्यम् अतिवर्तस्व । कथम् ।
निर्द्वन्द्वः नित्यसत्त्वस्थः12 ।
कामक्रोधौ13 रागद्वेषौ सुखदुःखे शीतोष्णे14
इति द्वन्द्वानि15 तानि सहस्वेत्य् अर्थः ।
सत्त्वगुणस्थो भूत्वा धैर्यम्
अवलम्ब्य । निर्योगक्षेमश् च ।
अप्राप्तस्य स्वीकरणं योगः
प्राप्तस्य परि(रक्षणं) क्षेमः ।
तयोर् यतमानस्य16 न
व्यवसायात्मिका17 बुद्धिः ।
आत्मवान् अप्रमत्त इत्य् अर्थः18 ॥ 46 ॥
नोतेस्:
1. चिन्नवृत्तिनिरोधात् साधतदति ग्रन्थगौरवभयादुपम्यते
2. पूर्वमथनमुत्प्रेक्षमाणा
3. प्रमाणवृन्तमुक्तं तन्त्रभवन्तो विदाङ्कुर्वन्तु
4. समुच्चये
5. कर्मणा
6. मेवमात्मनाम् 46
7. निर्द्वष्ट्वो ... सत्वस्थो
8. प्रकाशयितत्यो
9. रजस्तमसोतूत्काटे
10. तत्पर्यार्थः
11. त्वं मुनिस्त्रैगुण्यो भव
12. नित्त्यसत्त्यस्थः
13. क्रोधो
14. ... शीतोस्से
15. द्वन्द्वानि
16. तषोर्यतमानस्य
17. नव्यस्तयात्मिका बुद्धिः
18. आत्मवान प्रमन्नमन्न इत्य् अर्थः 47
प्. 70
न च त्रैगुण्यविषयेषु वेदेष्व्
अध्ययनश्रवणव्याख्यानादिपरेण
त्वया कृत्स्नम् आयुः पर्युपयोक्तव्यम्1 ।
किं कारणम् इत्य् आह ---
यावद् अर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान् सर्वेषु वेदे(षु) ब्राह्मणस्य विजानतः
कूपतडागादौ यावान् अर्थः स्नानपानादिः2
पुरुषस्य तावान् अर्थः
सलिलपूर्णे देशे प्रावृट्समये3 नाधिको विद्यते ।
यथायं दृष्टान्तस् तथा4 ज्ञानकर्मसमुच्चयप्रतिपादनपरे
वेदभागे5 यावान् अर्थस् तावान् एकाहाहीनसत्रप्रतिपादके6
कृत्स्नवेदे । अतः काम्यकर्माभियोगं7 विहाय
ज्ञानकर्मनित्यकर्मप्रतिपादनपरभोगे
ऽभियोगवता भवितव्यम् इति ।
अपरेषां व्याख्या --- यावान् अर्थः सर्वतः संप्लुतोदके
तावान् उदपाने तत्कार्ये तत्रैवान्तर्भवतीत्य् अर्थः ।
तथा विजानतः सन्न्यासिनो ज्ञाने सर्वतः
संप्लुतोदकस्थानीये(षु9)
सर्वेषु वेदेषु तावान् अर्थः ।
तत्रैव समस्तकर्मप्रयोजनम्
अन्तर्भवतीत्य् अर्थः10 इति ।
तद् अस्मिन् व्याख्याने11 यदि ज्ञानम् आहात्म्यं तदानीम्
अभ्यनुज्ञातं ज्ञानस्यैतन्माहात्म्यं
यत्कामात्मनां12 कर्म
संसारहेतुर् भवति तदात्मीयस्वभावं
विहाय तत्सम्पर्काद्
उत्कर्षहेतुत्वं13 प्रतिपद्यते ।
यथा रसस्पृष्टताम्रवर्णता14 सुवर्णतां प्रतिपद्यते ।
रसो ऽपि ताम्रसम्पर्कात् पुरुषार्थसाधनम्15 ।
एवम् अन्योन्यसमुच्चितम् अपवर्गार्थम् इत्य् उक्तम्16 ।
तथा च वसिष्ठेनोक्तम्17 ---
नोतेस्:
1. पर्यपयो क्तव्यं
2. ... तादुकोदौपावर्थस्त्रानयानादिः
3. प्राबृट समये
4. यथां यं वृष्टान्तात् तथा
5. ... पादनं परे वेटभाग
6. ... सत्त ... प्रतिपादके
7. कास्यकर्म^
8. यावनर्थस्सर्वतस्तंस्तुदके
तावानुदयानेतत्कार्य तेत्रेवान्तर्भवति
9. संस्तुतोदक^
10. प्रयोजनमन्तर्भवतित्य् अर्थः
11. व्याख्याते
12. कामात्मन्नां
13. ... संयार्कादुत्कषहेतुत्वं
14. रसस्पृष्टं ताम्रवर्णता
15. ... संपार्कात्पुरुषार्थसाधतम्
16. ... समुश्चितमप^
17. वसिष्टेनोक्तम्
प्. 71
यथान्नं मधुसंयुक्तं मधु चान्नेन संयुतम्1 ।
एवं तपश् च विद्या च संयुक्ता भेषजं महत् ॥ इति ।
अथैतद् व्याख्याने2 कर्म निष्प्रयोजनं वक्तव्यं3 ।
ज्ञानाद् एव केवलाद् अपवर्गं इत्य् अभिप्रायेण ।
तद् असद् इत्य् उच्यते4 ।
शाब्दप्रमाणबाह्यत्वाद् अस्यार्थस्येत्य् उक्तम् अन्यत्र5 च निपुणतरं
वक्ष्यते । ब्राह्मणस्येति च सामान्यश्रवणं न सन्यासिन इति
विशिष्टम् ।
तस्मात् सर्वाश्रमाणां सर्वद्विजानां च मुक्तिः ।
तथा च जनकादयः स्मर्यन्ते ।
तस्माद् व्यवसायात्मिकायां6 बुद्धो स्थातव्यम् इति स्थितम् ॥ 47 ॥
तत्र यद् उक्तम् --- योगे त्व् इमाम् --- इति को ऽसौ योग इत्य् आह7 ---
कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर् भूर्मा ते सङ्गो ऽस्त्व् अकर्मणि
स्वाश्रमविहितेषु कर्मस्व् अधिकारः । फलेषु चानधिकारः8 ।
मेति(शब्दः) प्रतिषेधवाची । नास्त्य् अधिकारः9 ।
कर्मण्य् एवेत्य् एवकारः फलव्यवच्छेदार्थो न
ज्ञानव्यवच्छेदार्थः10 ।
तस्य --- एषा ते ऽभिहिता -- इत्याद्युपदिष्टत्वात्11 ।
ननु कर्मण्य् ए(व)कारः फलं हि क्रियासाध्यम् ।
न तत्रापि प्रसक्तो ऽसौ येन प्रतिषिध्येत इत्य् आशङ्क्याह14 ---
मा ते सङ्गो ऽस्त्व् अकर्मणि ॥ 48 ॥
नोतेस्:
1. संयुतं
2. अथैतद्यारत्यानं
3. निष्पयोजनं वक्रव्यं
4. तदानमृष्यते
5. ...^मन्नरत्र
6. ... स्मंर्यते तस्मादवस्थायात्मिकां
7. इत्याह 49
8. फले सुवातिकारो
9. नात्स्यधिकारः
10. कर्मण्येद्येत्येवकारः फलव्यवछेदार्थो न
ज्ञानव्यवछेदार्थः
11. ... हितोत्युपदिष्ट^
12. ... व्यवच्छेद्यर्थो व
13. ... कारस्वत्यापारत्वात्
14. प्रसक्तो येन प्रतिसिद्धते इत्याशक्याह
प्. 72
अकरणे सक्तिर् न कर्तव्या । कथं तर्हि कर्तव्येत्य् आह1 ---
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते2
यानि नित्यानि कर्माणि सन्ध्याराधनसङ्ग्रामादीनि3 तानि
योगस्थः4 कुरु ।
फलसङ्गं त्यक्त्वा । फलसङ्गेन हि क्रियमाणे5 कर्मणि
सिद्ध्यसिद्ध्योर् वैषम्यम्6 । सिद्धौ हर्षः फलसिद्धौ विषाद
इति । ईश्वराराधनार्थे7 तु क्रियमाणे नास्ति वैषम्यम् ।
स एव8 कर्ता । तदात्मकं च कर्मेति क्रियमाणं तत्सि(द्धि)हेतुत्वं
प्रतिपद्यत इत्य् अर्थः ।
तद् इदं समत्वं योग उच्यते ॥ 49 ॥
समत्वबुद्धित्वाद् अस्मात्9 कर्मणः केवलम्10 ---
दूरेण ह्य् अवरं11 कर्म बुद्धियोगाद् धनञ्जय12
बुद्धौ शरणम् अन्विच्छ13 कृपणाः फलहेतवः
हिशब्दो हेतौ । ज्ञानरहितं कर्म दूरेणातिविप्रकर्षेणावरं14
जघन्यम् । युज्यत इति योगः कर्म ।
बुद्ध्युक्तात् कर्मणः सकाशाद् इत्य् अर्थः ।
यत एवं15 तस्माद् बुद्धौ16
शरणम् अन्विच्छ बुद्धिम् आश्रयेत्य् अर्थः17 ।
कर्मप्रवृत्तिकाले18 । (यतः कृष्णाः फल)हेतवः ।
केवलं कर्मणः फलं प्रवृत्तिहेतुर् येषां19 ते
फलहेतवः20 ॥ 50 ॥
बुद्धियुक्तः कुर्वन्न् एव21 किन्नु फलं प्राप्नोतीति
तद् उच्यते ---
बुद्धियुक्तो जहातीमे उभे सुकृतदुष्कृते ।
तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम्
नोतेस्:
1. कर्तव्यार्नात्याह 49
2. सिद्धासिःधोस्समोभूत्वा समत्व योग उच्यते
3. ... सग्रामादीनि
4. योगस्यः
5. क्रिसमाणे
6. कर्माणिसिद्धांसिद्धेर्वैषम्यम्
7. ईश्वरागुधनार्थो
8. राव
9. त्वबुद्धिक्ताद^
10. केवलं 50
11. रेणत्द्यवरं
12. धनञ्जप
13. ... न्विछ
14. द्वरेणतिप्रकर्षे^
15. रावं
16. वद्धौ
17. न्विछवुद्धमाश्रय^
18. कर्मनिवृत्तकाले
19. येयां
20. फलदेवत 51
21. कुवन्नेव
प्. 73
ईश्वराराधनार्थं1 कर्मेत्य् अनया बुद्ध्या
युक्तः कर्म कुर्वन् परित्यजत्य् अनारब्धफले
जन्मान्तरकृते2 शुभाशुभकर्मणी ।
ये त्व् आरब्धफले तयोर् भोगेनैव क्षयः3 ।
अस्मिन् शरीरे तयोर् भोगरूपेण4 परिणतत्वात् ।
तथा च श्रुतिः ---
तस्य तावद् एव चिरं याव(द् अस्माच् छरीरा)न् न
विमोक्ष्ये ऽथ सम्पत्स्य इति ।
यावद् अस्माच् छरीरान् न विमोक्ष्यते5
तावद् अस्य विदुषश् चिरम् इत्य् अवधिकरणात् ।
तस्मात् समत्वयोगाय6 युज्यस्व ।
कः पुनर् योगः । (योगः) कर्मसु कौशलम् ।
इदं तावद् ब्रह्मणि7 समर्पणं कर्मणः
फलसङ्कल्परहितता च ॥ 51 ॥
किं पुनर् एवं कृते स्यात्8 ---
कर्मजं9 बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः10 ।
जन्मबन्धविनिर्मुक्ताः11 पदं गच्छन्त्य् अनापयम्12
शुभेतरकर्मजं फलं त्यक्त्वा13 मनीषिणो मनस ईषिणो14
ब्रह्मभावापादितमनोवृत्तयो15 जन्मैव बन्धस् ततो
विनिर्मुक्ताः16 पदं विष्णोः स्थानं गच्छन्त्य् अनामयं
सर्वोपद्रवरहितम् ॥ 52 ॥
कदा पुनर् एवं क्रमस् त्वं शुद्धतरबुद्धिर् निर्वेदं
प्रतिपद्यसे । तद् आह17 ---
यदा ते मोहकलिलं बुद्धिर् व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च
नोतेस्:
1. इश्वराराधनार्थं
2. ... नारव्रकले जन्मान्तरकृते
3. भोगेनेव क्षया
4. तयार्भोगतूपेण
5. यावदस्माछरीरन्न विमोक्ष्यत
6. समत्वं योगाय
7. तद्यद्वद्नणि
8. पुनरंवोकृते स्यात् 12
9. कर्मज
10. त्यत्त्का
11. अन्मबन्धविनिमुक्ताः
12. गञ्छत्यना^
13. त्यत्त्का
14. इषिणो
15. ... वृतयी
16. ... मुक्तः
17. ... पुनरेवङ्कमः स्त्वन्तरबुद्धिनिर्वेदं प्रतिपद्यने तदाह 16
प्. 74
कलिलं गहनम् उच्यते । तथा चाभिधानकोशे ---
कलिलं गहनं विदुः --- इति ।
मोह एव कलिलम् । मोहो ऽज्ञानम् । एतद् उक्तं
भवति --- अज्ञानं दुर्गं यदा व्यतिक्रमिष्यसि
तदा गन्तासि निर्वेदं
श्रोतव्यस्य3 शास्त्रस्य श्रुतस्य च ।
तदा च मोहदुर्गं व्यतितीर्य ते
बुद्धिः स्थिरम् अवस्थास्यत2 इति ॥ 53 ॥
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि
अचला इति पुनर् विवक्ष्यते3 । तदा परमात्मयोगम् अवाप्स्यसि ।
ततः4 पूर्वोक्तम् उपपन्नम् --- पदं गच्छन्त्य् अनामयम् ---
इति ॥ 54 ॥
अनन्तरवृत्तेन श्लोकद्वयेन बुद्धेर् निश्चलत्वे प्रतिपादिते
परमात्मनो ऽभिमुखीकरणायावसरं लब्ध्वार्जुन उवाच5 ---
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत6 किम् आसीत व्रजेत किम्7
स्थितप्रज्ञः केन लक्षणेन भाष्यते व्यपदिश्यत इत्य् अर्थः ।
स च स्थि(त)धीः किं प्रभाषेत किम् असौ वक्तीत्य् अर्थः ।
किम्परो भूत्वासीतेत्य् अर्थः9 ।
(अ)कर्मकत्वाद् अस्य धातोर् एवं10 योज्यते ।
किं वा व्रजेत गच्छेत् प्राप्नुयाद् इति11 ।
व्यत्ययेनात्मनेपदम् ॥ 55 ॥
तत्र --- का भाषा --- इत्य् एतत् प्रथमं निरुच्यते12 ---
नोतेस्:
1. श्रुतव्यस्य
2. व्यतिधिरमवस्थास्यते
3. विवक्ष्यते
4. ततो
5. अनन्तरवृतेन श्लोकदयेन परमात्माभिमुखाया बुद्धेनिश्चलत्वे
प्रतिपादिते वसरलध्यार्तुन उवाच 55
6. प्रभासेत
7. व्रजोत किम्
8. वक्रत्यर्थः
9. किं परा भूत्वासीतित्य् अर्थ
10. ध्येतोरेवं
11. व्रजेतराछेत्प्राप्नु^
12. इत्यतत्प्र ... निरुच्यते 56
प्. 75
श्रीभगवान् उवाच ---
ऐश्वर्यस्य स(म)ग्रस्य धर्मस्य (य)शसः श्रियः ।
वैराग्यस्याथ मोक्षस्य षण्णां1 भग इति ध्वनिः ॥
प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्मन्य् एवात्मना तुष्टः2 स्थितप्रज्ञस् तदोच्यते
बाह्यार्थविषयान्3 नानासाङ्कल्पान् यदा त्यजति (तदा)
बाह्यविषयसङ्कल्पाभावे क्वायं वर्तते4 ।
केन तुष्टश् चरतीत्य्
आह ---
आत्मन्य् एवानन्दस्वरूपे ऽमोहितेनात्मनान्तःकरणेन5
जन्ममरणजमोहादिविषादेन
महौषधब्रह्मामृतपानास्वादजनितप्रेमप्रबन्धनिश्चलवृत्तिना
परितुष्टः6 स्थितप्रज्ञस् तदोच्यते ।
यानीह स्थितप्रज्ञलक्षणानि वक्ष्यन्ते
(तान्य् एव) साधनानि
प्रयत्नतो ऽनुष्ठेयानीति ।
न ह्य् अननुष्ठीयमानानि सत्तां
लभमानानि7 लक्षणानि भवन्तीति ।
तत्र यद् एतद् उच्यते8 पूर्वावस्थायां लक्षणम्9 ---
इति तद् अनुपपन्नम् ।
तस्मिन्न् एव काले साधनत्वं तस्मि(न्न् एव च काले)
लक्षण(त्व)म् --- इति तद् अनुपपन्नम्10 ।
(न) तस्मि(न्) यौगपद्यं साधनत्वलक्षणत्वयोः ॥ 56 ॥
किं च ---
दुःखेष्व् अनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधी मुनिर् उच्यते
नोतेस्:
1. षस्मां
2. आत्मनस्तुष्ट
3. वाल्लार्थविषयान्
4. त्क्वायं वर्तनः
5. ^स्वरूपेमाहितेमात्मानान्तकरणेन
6. जन्मजमरणमहाराविषादेन महोषधी निश्चलबृत्तीनः परितुष्ट
7. ... प्रपत्नतोनुष्टेपानि । नह्यनुष्टीयनि सत्तां लभधमानानि
8. यत्त्वेतदुच्यते
9. पूर्वावस्थायां वस्थायां
10. तदनुपपन्नं
प्. 76
यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता
यदा संहरते चायं कूर्मो ऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यः स्थितप्रज्ञस् तदोच्यते
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते
यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः
तानि संयम्य मनसा युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता
ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते ।
सङ्गात् सञ्जायते कामः कामात् क्रोधो ऽभिजायते
क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति
रागद्वेषवियुक्तैस् तु विषयान् इन्द्रियैश् चरन् ।
आत्मवश्यैर् विधेयात्मा प्रसादम् अधिगच्छति
प्रसादे सर्वदुःखानां हानिर् अस्योपजायते ।
प्रसन्नचेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते
नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम्
इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते ।
तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि
प्. 77
तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः
आपूर्यमाणम् अचलप्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् ।
तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न कामकामी
विहाय कामन् यः सर्वान् पुमांश् चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिम् अधिगच्छति
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्याम् अन्तककाले ऽपि ब्रह्मनिर्वाणम् ऋच्छति
मूल पाठ: Bhagavadāśayānusaraṇabhāsya · Edition: D. Subhadropadhyaya, Varanasi, 1965 (Sarasvati Bhavana Granthamala, 94) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0