भाषा

ENहिગુ
ग्रंथ पाठ

भगवदाशयानुसरणभास्य · अध्याय 1

1.1

भास्कर: भगवदाशयानुसरणभास्य
अद्दितिओनल् रेमर्क्
भास्करभाष्यस्य प्रथमपृष्ठस्य द्वे वाक्ये
आनन्दजयतीर्थकृतगीताटीकाया उद्धृते ।
तयोः साहाय्येन भास्करकृतगीताभाष्यस्य
लुप्तप्रथमपृष्ठस्य विषयोनुमातुं शक्यते ।
ते वाक्ये
1. शास्त्रप्रयोजनाभिधाने प्रस्तुते ऽवतारप्रयोजनाभिधानम् असंगतम् ।
2. ज्ञानकर्मसमुच्चयसाध्यत्वान् मोक्षस्य तत्प्रतिपादनाय गीतारम्भे न धर्मादिप्रतिपादनार्थम् ।
तदर्थानां मन्वादिधर्मशास्त्राणां सनकादियोगशास्त्राणां च प्रतिकालं विद्यमानत्वात् ।
जयतीर्थटीकायाम् यद् आह भास्कर इति वाक्याद् अनन्तरम् उपलभेते इमे वाक्ये । तत्र प्रथमं वाक्यं षष्ठे पृष्ठे द्वितीयं वाक्यं नवमे पृष्ठे ।
प्. 1
श्रीभगवद्गीताया
भगवद्भास्करकृतभगवदाशयानुसरणाभिधानभाष्यम् ।
(इदं हि त्रिषु लोकेषु महज्ज्ञानं) प्रतिष्टितम्1 ।
विस्तरैश् च समासैश् च धार्यते यद् द्विजातिभिः2 ॥
योधीते भारत पुण्यं ब्राह्मणो नियतव्रतः ।
श्रावयेच् च महापुण्यं तस्य धर्मः सनातनः ॥
तपोनियमम् आस्थाय3 कृतम् एतन् महर्षिणा ।
तस्मान् नियमसंयुक्तैर् अध्येयं4 ब्राह्मणैर् इदम् ।
कृष्णप्रोक्तम् इमां5 पुण्यां भारतीम् उत्तमां6 कथाम् ।
श्रावयिष्यन्ति ये7 विप्रा ये च श्रोष्यन्ति मानवाः ॥
इत्येवमादौ8 श्रावयिष्यन्ति9 इत्यत्र विप्रग्रहणाद्
द्विजातीनाम् एवाध्ययने10 श्रवणे चाधिकारो दर्शितः ।
इतरेषां तु ये तु श्रोश्यन्ति मानवा इति मानवग्रहणाच् छ्रवण
एवाधिकारः शास्त्रविरोधाच् चाध्ययने नाधिकारः11 ।
तथा चोक्तं शुकोत्पत्तौ12
सर्वस् तरतु दुर्गाणि13 सर्वो भद्राणि पश्यतु14 ।
श्रावयेच् चतुरो वर्णान् कृत्वा ब्राह्मणम् अग्रतः ॥
नोतेस्:
1. प्रतिष्टितम्
2. यद्विजातिभिः
3. तयोर्नियममास्थाय
4. ^नियम^
5. कृक्ष्म^
6. ^तीसुन्नमां
7. श्रावयन्ति चरेः
8. द्रवमादौ
9. श्रावयन्तीत्यत्र
10. ^णाद्विजातीनामध्ययने
11. ^च्छ्रवण एवेति अधिकार शास्त्रविरोधाच्च नाधिकारः
12. तथा च शुकोत्पन्तौ
13. दुर्गाण
14. पश्यनु
प्. 2
इति चातुर्वर्ण्यमध्यपातिनः1 शूद्रस्य श्रवणमात्रं
विधीयते2 ।
रामायणे ह्य् अयम् एवार्थो3 विशेषेण प्रतिपादितः4
पठं द्विजो वागृषभत्वम् ईयात्5
स्यात् क्षत्रियो6 भूमिपतित्वम् अमीयात् ।
वैश्यस् तथा सर्वधनत्वम् ईयाच्
छृण्वन् हि शूद्रोपि7 महत्त्वम् ईयात् ॥
इत्य् अत्रेतिहासश्रवणमात्रम् एव शूद्रादेर् निर्णीतम्8 ।
तत्रापि चाख्यायिकामात्रश्रवणे9 न तु
रहस्यवेदान्तार्थप्रतिपादनप्रदेशेषु
सनत्सुजातीयगीतामोक्षधर्मादिषु10 तस्य
वेदाध्ययनश्रवणतदर्थपरिज्ञानतदनुष्टानानां11
प्रतिषेधस्मरणात् ।
तथा च मनुस्मृतौ
न शूद्राय मतिं दद्यान् नोच्चिष्टं12 न हविष्कृतम् ।
न चास्योपदिशेद् धर्मं न चास्य13 व्रतम् आदिशेत् ॥
इति चादृष्टार्थमतिदानधर्मोपदेशादिनिषेधात्14 ।
न च स्वमनीषिकया ब्राह्मणोपदेशम् अनपेक्ष्य पुस्तकादेस्
तद्विवरणाद् वा तदर्थम् अधिगम्य कर्मानुतिष्ठतः15
फलाय तद् भवति16 प्रत्युत17 शास्त्रनिषिद्धेनानुपनीतेन18
गृहीतं (शास्त्रज्ञान)म् अनर्थोत्पादकम् ।
यतो न्यायस्मृत्याचाराविरोधी यः पदार्थः19 स शास्त्रार्थः ।
तत्र न्यायः
यथोत्कृष्टनिकृष्टवर्णयोर् न (कर्म) तुल्य(ता) तथा न
सदृशधर्मता युक्ता । तद् उक्तम्
नोतेस्:
1. वर्णान ..... इतिवर्णमध्य^
2. श्रवणमात्रविधानात्
3. ^णो धायमेवार्थो^
4. प्रतिपादिनः
5. वाग्वृषभत्व^
6. ^त्कृता तथा त्वया भूमिपतिपतित्व^
7. ^याछण्वन् हि शूद्रोपि
8. निर्णातम्
9. ^कामत्र^
10. सनत्सुतातगीना^
11. वेदाध्ययनं
12. ^न्नोछ्चिष्टं^
13. ^दिशेम्दं र्मन्नचा^
14. चावृष्टार्थ^
15. ^द्वादिगम्यास्यान्नतिष्टतः
16. तभ्दवति
17. प्रच्युत्
18. ^निषद्धेनानुपेयेन गृ^
19. पदार्थस्म
प्. 3
अपवर्गे ऽधिकारस् तु स्त्रीशूद्राणां भवेद् यदि ।
जात्युत्कर्षो द्विजातीनाम् अनर्थाय1 ततो भवेत्2 ॥ इति ।
स्मृतिर् अपि
विदुषा ब्राह्मणेनेदम् अध्येतव्यं3 प्रयत्नतः ।
शिष्येभ्यश् च प्रवक्तव्यं4 सम्यङ् नान्येन केनचित् ॥ इति5 ।
आचारश् चार्य्यदेशे ज्ञानशास्त्रश्रवणे तस्याप्रवृत्त्यैवावेदितः
यः शास्त्रविधिम् उत्सृज्य इत्यादिना चेहापि प्रत्ययस्य
प्रतिपादयिष्यमाणत्वात् । अत एवोक्तम्6
अधिकारं विना यस् तु गृःणाति शास्त्रम् अन्यथा7 ।
तत् त्यक्त्वा8 पावनं कृत्वा स्वधर्मं पुनर् आश्रयेत् ॥
पावनं प्रायश्चित्तम् ।
मनुना चाध्ययनश्रवणतदर्थानुष्ठानयुक्तस्यैव9
द्विजातेर् ज्ञानेधिकारो दर्शितः10
अधीत्य विधिवद् वेदान् पुत्रान् उत्पाद्य11 धर्मतः ।
इष्ट्वा12 च शक्तितो यज्ञैर् मनो मोक्षे निवेशयेत्13 ॥
तद्रहितस्य द्विजातेर् अपि मोक्षेधिकारो14 नोक्तः
अनधीत्य द्विजो वेदम् अनुत्पाद्य तथा प्रजाम्15 ।
अनिष्ट्वा चैव16 यज्ञैश् च मोक्षम् इच्छन् व्रजत्य् अधः ॥
शूद्रस्य च वसिष्टमुनिनाप्य् उपनयनादिभिर् असंस्कार्यत्वं17
प्रतिपादितम् ।
नोतेस्:
1. ^नथाय
2. ^वेधदि
3. ^नेद्दमध्ये^
4. प्रकर्तव्यम्
5. ^चिदिनि
6. ^प्रतिपादियिष्यमानत्वाद्दतरावोक्तम्
7. गृहीतं शास्त्रमन्युथा
8. तत्त्वत्त्का
9. ^नुष्टान्युक्तस्येव
10. द्विजाती ज्ञानोधिकारो दर्शितः
11. ^नुत्रातुत्पाध^
12. दृष्ट्वा
13. निवेषयेत्
14. ^क्षेरधिरौक्तः
15. प्रज्ञाम्
16. अन्विष्वा
17. पत्तैश्चा
18. पसिष्ट ... संस्कारयत्वं^
प्. 4
तथा च तत्रोक्तम्
गायत्र्या ब्राह्मणम् असृजत त्रिष्टुभा राजन्यं1
जगत्या2 वैश्यं न केनचिच् छन्दसा3 शूद्रम् इत्य् असंस्कार्यो4
विज्ञायत इति ।
किं च भगवता साक्षाद् धर्मेणापि शापवशाद्
विदुराख्यशूद्रजन्मनात्मज्ञानविषये धृतराष्ट्रपृष्टेन
शूद्रयोनिस्थत्वाद् अनधिकारित्वं5 मन्यमानेन वेदार्थोपदेशार्थं
सनत्सुजातम् आनयता6 तत्रानधिकारो दर्शितः7 ।
तथा च तेनैव तत्रोक्तम्
शूद्रयोनाव् अहंआतो नातो ऽन्यद् वक्तुम् उत्सहे ।
ब्राह्मीं8 हि योनिम् आपन्नः सुगुह्यम् अपि यो वदेत्9 ॥
न ते(न) गर्ह्यो देवानां तस्माद् एतद् ब्रवीमि10 ते ॥
एवं च ब्राह्मणयोनिव्यतिरिक्तान्ययोनिजो11 यदि गुह्यं वेदार्थं
वदति तदा देवादिभिर् असौ गर्ह्यते12 निषिद्धसेवनेन13
पापयोगान् नरकादौ प्रक्षिप्यत इत्य् अर्थः ।
कुमारस्य तु या बुद्धिर् वेद तां14 शाश्वतीम् अहम् ।
कुमारस्यानुज्झितब्रह्मचर्यस्य15 सनत्सुजातस्य16 या बुद्धिर्
यज् ज्ञानम्17 बोधनं बुद्धिः ताम् अहं वेद ।
निरतिशयज्ञानयुक्तो ऽसाव् इति जातिस् मरत्वाज् जानामि18 ।
किं तु निकृष्टजातिस्थत्वेनानधिकाराद् वक्तुं न शक्नोमि19 ।
नोतेस्:
1. त्रिष्ट्भा राजन्य
2. जगता
3. ^चिच्छन्दश्रा
4. ^संस्कारो
5. ^दन्ततधिकारि^
6. सनत्सजातमानयत्र
7. अधिकारि दर्शितः
8. ^वकुमुत्सहे ब्राह्मो
9. ^पत्रस्सुगुत्वमपि यो वधवेत्
10. ^द्वृवीमि
11. ब्राह्मणयोनिव्यतिरिक्तोन्ययोनिजो
12. गत्वते
13. निषिद्वासे^
14. ^स्य त्वया वुद्भिर्वेदतां
15. ^नुजित^
16. ^तथ्या
17. वुद्धिर्यक्षानं
18. ^जानाग्मि
19. वक्नु न शक्नोमि
प्. 5
यस् ते गुह्यान् प्रकाशांश् च सर्वान् हृदयसंश्रयान्1 ।
प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥

किं बहुना2 साङ्ख्यादिशास्त्रेष्व् अपि ब्राह्मणानाम्
एवासुरिप्रभृतीनां3 भगवद्भिः4 कपिलमुनिप्रमुखैर् महात्मभिर्
ज्ञानोपदेशः5 कृतो नान्यस्य ।
इत्य् अतो ऽपि6 न शूद्रादेर् ज्ञाने ऽधिकारो ऽस्ति7 ।
तस्मात् सकलेतिहासपुराणधर्मशास्त्रादिपौर्वापर्यपर्यालोचनेनायम्
एव8 वाक्यार्थ इति स्थितम् ।
शास्त्रैकसमधिगम्या9 किलाधिकारव्यवस्था धर्माधर्मव्यवस्थावन्
न
प्रमाणान्तरगम्या ।
को हि नाम भगवतो धर्मस्य हेतुतो निश्चयम् अवधारितुं शक्तः10 ।
हेतुतश् च धर्मव्यवस्थायां (करिष्यमाणायां) हेत्वनवस्थानाद्
धर्मानवस्थानम् अपि प्रसज्येतेति ।
अतश् च
स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् ।
इतीदम् अपि लिङ्गम् ।
किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा ।
इत्य् अपि
कृतब्राह्मणराजर्षिविषयकप्रवर्तकविधिप्ररोचनार्थवादत्वेन11
द्रष्टव्यम्12 न तु स्वार्थप्रतिपादनपरम् ।
लिं गं हि प्रमाणान्तरतः प्राप्तस्यैवार्थस्य13 द्योतकं भवति
नाप्राप्तस्याप्रापकम्14,15 ते ऽपि यान्ति इत्य्
अभिधायकवर्तमानकालवाचिप्रत्ययान्तशब्दनिर्देशात्16
पूर्वोक्तविधिसापेक्षत्वेन साकाङ्क्षत्वाच् च ।
वास्तवेन17 रूपेणान्यपरं यद्वाक्यं18 शब्देन
चान्यार्थप्रतिपादकं
तल्लिं गम् ।
नोतेस्:
1. अतस्सते गुह्यकात् प्रकाशांश्च सर्वां त्वदसंश्रयान्
2. बहुता
3. ^नामोवासुरि
4. भगवद्भिः
5. ^प्रसुखैर्म^
6. ^स्येत्यातो^
7. ^करोस्ति
8. ^र्वायर्यपर्यालोचनपापमेव
9. शास्त्वकैसम^
10. शक्रः
11. ^वादत्येन
12. द्रष्टव्यं
13. ^घोनक
14. नाप्रप्तस्य
15. प्रायकं
16. ^लर्वचिप्र^
17. ^वेन तुपेण
18. यद्यवांशेब्दे^
प्. 6
विधिनिषेधशेषतया त्व् अर्थवादानां1 प्रवृत्तिः
न तु स्वार्थप्रतिपादकतया विषभक्षणादिवाक्यवद्2
अर्थवादवाक्यानां परार्थत्वात् स्वार्थे3 तात्पर्याभावाद्4
अन्यपरत्वाद् विधिविहितार्थस्तावकतया5 निषिद्धार्थनिन्दितृतया6
च प्रवृत्तेर् इति7 ।
एतच् च8 निपुणतरम् अत्रैव9 नवमे ऽध्याये वक्ष्यामः ।
अन्यच् च
ज्ञानं विज्ञानम् आस्तिक्यं10 ब्राह्मं कर्म स्वभावजम्11 ।
इति ब्राह्मणस्यैव भगवान् धर्मः12 श्रेयःसाधनम् इति
दर्शयिष्यति13 ।
यतो ऽदिकृतानाम् आर्य्याणां द्विजातीनाम् एव
श्रुतिविहितनित्यनैमित्तिककर्मक्षपितकल्मषमोहभयायासानाम्
उपास्यमान14 एष परमात्मातिग्रहनः संसारोपप्लवरहितो
ऽनन्तो ऽक्षयो ऽनादिर् अजो ऽमनोमयो15 निर्विकल्पो ऽपापः
सर्वलोकेश16 एक17 एव सर्वशरीरावस्थितः सर्वपदार्थावस्थितः
सतता(सा)दितविमलभावः सर्वशक्तिः
स्वशक्तिविभवजनितसकलाद्वैतसद्रूपः18 प्र(त्यक्षो) भवति ।
साधनवीर्यात् तेषाम् एव19 हि
श्रुतिस्मृत्युक्तप्रशस्तयमनियमप्रमुखयोगाङ्गादिसम्भवाद्
उपासकत्वेन च तेषाम् एव नियमात् त एव च20
तम् आत्मानं पश्यन्ति21 ।
तथा चानुक्रमण्यादाव् अपि22 भगवता व्यासेनो(क्तम्)
यत् तद् यतिवरा23 मुक्ता24 ध्यानयोगबलान्विताः ।
प्रतिबिम्बम् इवादर्शे25 पश्यन्त्य् आत्मन्य् अवस्थितम् ॥
नोतेस्:
1. स्वर्थवादा^
2. बिवभ^
3. पदार्थत्वात् स्वार्थो
4. ^भाषाद्^
5. ^र्थास्ताषकतया
6. निदितृतया
7. मवृत्तेरिति
8. एत च
9. तत्रेवेन^
10. ^मास्तिकं
11. ब्राह्मकर्मरखभा^
12. धर्म
13. दृशयि^
14. ^नैमित्रिक^ .... ^मोहमपायासानाम्^
15. संसारायप्लवरहितो^ ... ^नाधिरजो
16. ^नाविकलोनापासस्सर्व^
17. एकएक
18. ^सकलद्वैत^
19. ^वीर्यते^
20. ^षामवनियमात् नरावच
21. पश्यति
22. ^मरापादा^
23. यं तं यति^
24. युक्ता
25. प्रतिविन्धमिवादर्शे
प्. 7
यद् अक्षरं वेदविदो1 वदन्ति (विशन्ति) यद् यतरो वीतरागाः ।
इत्यादिना विशिष्टजातीयाश्रमिविषये धानेनात्मोपलम्भनम्
उपपन्नं2 भवतीति प्रदर्शितम् ।
नाहं प्रकाशः सर्वस्य योगम् आयासम् आवृतः3 ।
इति भगवान् एव शूद्रादेर् आत्मदर्शनाभावं4 प्रतिपादयिष्यति5 ।
द्वैपायनो ऽपि6
शान्तात्मानो द्विजश्रेष्ठाः7 प्राप्नुवन्ति तदक्षरम्8 इति ।
अतः शूद्रदेर् ध्यानादिना9 क्रियमाणेनापि न तत्प्राप्तिर् भवति10
नियमविधेर् भं गभयाद् अखिलविद्याया11 अधिकृतानुष्ठिताया12
(एव) फलदातृत्वावगमात् ।
अविहितेन तूत्कृष्टजातीयकर्मणा13 योगेन ज्ञानेन14 च
शूद्रादिर् उत्कर्ष15 नेतुं न शक्यते ।
न हि कार्ष्णायसं16 भूयो ऽप्य् अनलसन्तापनेन सुवर्णत्वम्
आपादयितुं शक्यम्17 ।
क्रिया हि द्रव्यं विलापयति18 नाद्रव्यम् ।
वेदस्मृतिलिं गेभ्यः19 किल ब्राह्मणस्यैव मुख्यया वृत्त्या
मोक्षाधिकारो ऽवगम्यते न क्षत्रियवैश्ययोः
योगाभ्यासाधिकारे सत्य् अपि20 ।
तद् उक्तम्
बन्धमोक्षव्यवस्थित्यां प्रमाणं चोदना स्वतः ।
वेदस्यानतिशङ्क्यत्वाद् अनपेक्षतया तथा ॥
नोतेस्:
1. ^धिदो
2. नात्मोयलम्भ द्रति
3. ^समावृन्त इति
4. शूद्रदेरात्मादर्शनाभावं
5. प्रतियादि^
6. द्वेपा
7. श्रेष्टाः
8. ^वन्तिहितसक्षमि^
9. ^देव्यानां दि^
10. तन्त्प्राप्तिर्भ^
11. ^मविधायाभगमांयाः किल विधाया
12. ^नुष्टितायाः
13. ^स्वत्कृष्ट^
14. योगज्ञानेन
15. उत्कर्ष
16. कार्त्मायसं
17. ^पादृषितुं शक्य
18. विनयति
19. ^लिगेभ्यः
20. सति
प्. 8
विधिर् नियुङ्क्ते ऽधिकृतम् उत्तमं1 श्रेयसे सदा ।
अशास्त्रीयात् फलासं गात् स्वयं कामी हि बध्यते1 ॥
अपुनर्जन्मसम्बन्धो यस्माच् छब्दैकगोचरः2 ॥ इति ।
यत् तु राजर्षीणां जनकश्वपतिप्रवाहणप्रभृतीनां
महाभा(र)तादौ मोक्षश्रवणं तत् कस्याञ्चिद् विशिष्टायाम्
अवस्थायां प्रवृत्तयागत्वेन यजमानानां तु
मन्त्राप्तसम्बोधाविर्भावे3 सति न सर्वदा ।
यागस्थानां हि तेषां ब्राह्मणत्वं श्रूयते । तथा च
शतपथश्रुतिः
सा यां4 काञ्चन यजते5 ब्रह्मैव भूत्वा यजत इति ।
तद्वधे च स्मृतौ ब्रह्महत्याप्रायश्चित्तम् आम्नातम्6
यागस्थक्षत्रियं हन्ता चरेद् ब्रह्महणिव्रतम्7 इति ।
एवं च क्षत्रियवैश्ययोर् अपि न तथा ब्राह्मणेन तुल्यतया
मोक्षे ऽधिकारः तस्माद् द्विजातीनाम् एव8 ।
योगाभ्यासेन तु प्रयतमानानाम् अप्य् अनधिकृतानां
शूद्रादीनां विद्यमाने हृदयपुण्डरीके ऽपि9
(नाधिकारः) तिरश्चाम् इवेति । किं च यथा सौर आलोको
दिवाचराणां
एव भूतानाम् आक्षं10 जनयति न तु रात्रिचरणां कौशिकादीनां
तुल्ये ऽपि प्रकाशदातृत्वे तद्वत् ।
यद् अयं समुदायार्थः11 गर्भाधानादिसंस्कारसंस्कृतो यो
यथाविध्युपनीतो12 यथाशक्तिचीर्णवेदव्रतादिको
ऽर्थावबोधपर्यन्तवेदाध्ययनसंस्कृतो गृहाद् वनं
वनान् मौनम् आश्रमाणां समुच्चयम्
अङ्गीकृत्य विकल्पे वा ब्रह्मचर्याद् यथारुचि शान्तो13
नोतेस्:
1. विधिन्नियुङ्क्त्ते .... मुत्तन्यश्रे .... वध्यने ।
2. यस्माछब्दैक^
3. सुमाताप्तसम्बोधा^
4. या
5. यजने
6. तदूधे च स्मतो व्राहाहसाप्रापाश्चित्तमास्ना^
7. क्षत्रविहुतां चरेद्वह्मनिस्मृतव्रतम्
8. ^धिकार्यः .... ^तस्मष्ट्विजा^
9. शूद्रादिनां विद्यमानहदयपुंडरीकेति^
10. दिवाचराणामेव भूतानामाकोज^
11. समुद्रापार्थः
12. पथाविधि उप^
13. विकल्पन्धा ब्रह्माधर्याद्यथा^
प्. 9
दान्तः1 श्रद्दधानः सो ऽपवर्गे ऽधिकारभाक् यतः सूत्रकारः

स्वधर्माणां विध्यर्थत्वं न मन्यते3
कर्मणां सहकारित्वं सहैवेति श्रुतेर् मतम् ।
न ह्य् अनाश्रमिणो4 वेदो योग्यत्वम् इह मन्यते ॥
देवोपकारः कर्तव्यो5 देवान् भावयतेति ह ।
अतः
यावज्जीवं प्रकुर्वीत6 स्वकर्माणि यथाविधि ।
संस्कुर्वीत स्वधर्मैश् च स्मृतितो ऽवगतं7 तथा ॥
महायज्ञैश् च यज्ञैश् च अष्टाव् आत्मगुणा8 इति
चत्वारिंशत् संस्कारा9 इति च ।
अपि (च) संयतानाम् एव10 यज्ञादयश् च श्रूयते11 ।
तत्त्वप्रकरणे12 किल
विद्ययाश्रमिणो योगो नान्यस्येति श्रुतेर् मतम् ॥
कर्मणा तस्य विज्ञानं13 तद्भावम् उपनीयते14 ।
पश्चाद् आपन्नतद्भावो14 देहम् एतं विमुञ्चति16 ॥ इति ।
तथा चात्र वाजसनेयिनां यज्ञसूत्रकारः
कात्यायनो ऽधिकारविवेकम् उक्तवान्17
अथातो ऽधिकारः (इति) ।
अथशब्द आनन्तर्यार्थः । अतःशब्दो18 हेत्वर्थः ।
यतो वेदाध्ययनं पूर्ववृत्तम् अतस् तदर्थज्ञानावसरे
प्रथमम् अधिकारो निरूप्यते
कस्यात्राधिकार19 इति ।
अधिकारशब्दस्यैव तावत्
नोतेस्:
1. दाशूः
2.श्रद्दधान^
3. विधार्थत्वं न मन्यत
4. नत्यनाश्रमिणो
5. कर्तर्व्यो
6. प्रक्रुर्वीत
7. संस्कर्वति स्वधर्माश्च ... ^तोगतं
8. अष्टौ चात्मगुणाः
9. ^शश्च संस्कारा इति
10. इति चाप्यतु सपताम्
11. श्रूयते
12. तत्व^
13. विज्ञामं
14. ^तद्भाव^
15. ^तद्भावो
16. ^मेत विमुञ्च इति
17. कात्यायतो
18. शब्दे
19. ^त्रधिका^
प्. 10
को ऽर्थः1 अयम् उच्यते
अभ्युपगतागमप्रामाण्यानां पुरुषाणां शास्त्रेण
यद्य् अस्य कर्तव्यतया विधीयते तत्र
तस्यागमपारतन्त्र्येणानुष्ठानाङ्गीकरणम्2 ।
तथा यच् छास्त्रेण3 निषिध्यते न कलञ्जं भक्षयेत्4
इत्यादि तत्र प्रतिषिध्यमानक्रियस्य मुख्यस्याधिकारिणो5
जिघत्साप्रयुक्तरागनिबन्धनः
कलञ्जभक्षणप्रवृत्तिनिषेधार्थः6
शास्त्रपारतन्त्र्येणैव7 ।
अकारणसङ्कल्प औदासीन्याश्रयणं8 चाधिकारः ।
तद् उक्तं भट्टेन9
विधिना युज्यते यत्र न हन्यान् न पिबेद् इति ।
तत्रौदासीन्यवस्त्व् एव प्रतिपत्तावलम्बने ॥
औदासीन्यं प्रवृत्त्युपरमो10 व्यापाराभावः स्वामित्वेन
यो व्यापारस्याधिकारस् तस्याभाव11 इत्य् उक्तः ।
तेनैतद् उक्तं भवति ---
इदम् अग्निहोत्रादि कर्म मत्सम्बन्धितया12 विहितम् अतो मम कर्तव्यम् ।
इदं च परहिंसादि तथैव निषिद्धम् अतो न कर्तव्यम् इति
ब्राह्मणादिर् अवगच्छति13 ।
एष अधिकारशब्दार्थ14 इति । तद् उक्तम् ---
यत्र यस्याधिकारो ऽस्ति15 नित्ये नैमित्तिके च सः ।
बध्यते न हि सर्वो हि16 शास्त्रातिक्रमबन्धनैः ॥ इति ।
शास्त्रदृष्ट्याधिकारो निरूप्यत इत्य् अत्र17 नियोज्यत्वं तावद्
आह18 ब्राह्मणराजन्यवैश्यानां19 श्रुतिः20 ।
तथा च ---
नोतेस्:
1. कार्थः
2. पारतं जेणानुष्टानाङ्गी^
3. यछास्त्रेण
4. भक्षयेत्यादि
5. ^क्रियोर्मुखस्याधिकारणो
6. ^भुक्षण ... ^धार्थं
7. ^पारतंशैण^
8. सङ्कल्पडौकादासीन्या^
9. भद्देन
10. प्रवृन्नि उप^
11. व्यापारस्योधिकार^
12. सत्सम्बन्धितया
13. ^रिवगच्छतीति
14. राषोधि^
15. ^अधिकरो^
16. त र्व नहि^
17. कात्रदिश्याधिकारो निरूप्यत इत्यत्र
18. नियोज्यास्तावदा^
19. ^चैश्यानां
20. श्रुतेः
प्. 11
वसन्ते1 ब्राह्मणेनाध्येयो2 ग्रीष्मो राजन्येन3 शरदि
वैश्येन इति श्रुतिः ।
किं च अङ्गहीनाश्रोत्रियषण्डपतितशूद्रवर्जम्4 इत्य्
अङ्गहीनानाम् अन्धमूकपङ्ग्वादीनाम्
आज्यावेक्षणोपस्थानवचनविष्णुक्रमणादिष्व्
असामर्थ्यात् कर्मणि नाधिकारः5 ।
अश्रोत्रियस्य साङ्गवेदाध्ययनविज्ञानरहितस्य6
यथावच् छास्त्रानवबोधे मन्त्राणां देवतादिसतत्त्वानगमाद्
अनधिकारः7 ।
उक्तं च ---
वैधे कृतार्थकं शास्त्रम् अवैधं नानुशास्ति9 हि । इति ।
षण्डस्य10 क्लीबस्य पूर्वजन्मार्जितदुष्टकर्मसूचकत्वेन11
दुष्कृतित्वाद् अनधिकारो दायादिविभागप्रतिषेधात् तस्य12
कर्मणां13 च द्रव्यादिसाध्यत्वाद् विभवयुक्तस्य14 पुत्रिण
आधानादिसंयोगात्15 क्लीबस्यापुत्रिणो नाधिकारः16 ।
तथा चोक्तम्
पतितव्याधिशूद्राणां17 यावद् वचनम् इष्यते18 ।
अधिकारो न सर्वस्मिन् नमुचेः षण्डकस्य19 च ॥ इति ।
पतितो ब्रह्महादिः20 । तस्यानधिकारो महापातकित्वात् ।
शूद्रस्य चानधिकारः21 । कुतो ऽथातःशब्दाभ्यां
वेदाध्ययनानन्तर्यद्योतकाभ्यां22 यस्य वेदाध्ययनं
तस्य कर्मण्य् अधिकार इति ज्ञापितत्वात् ।
कर्माधिकृतस्य च ज्ञाने ऽधिकारो ज्ञानेन कर्मणः
समुच्चयनात् ।
तथा चोक्तम्23 ---
नोतेस्:
1. वसन्ने
2. ^धेयो
3. राज्ञेन्येन
4. अङ्गहिनाः ..... शंवपतित^
5. अङ्गहिना^ ... मूकसन्त्वादी^ ... वाच्यनिविस्मुकमणादिषु
सामर्थ्यात्
कर्मण्यन्नाधिकारः
6. ^त्त्र्य्षस्यासङ्गवेवृध्यप^
7. मन्त्राणान्दे^
8. वैये कृतार्थेकं
9. ^वैधनानुशास्त्रि
10. शंवस्य
11. ^दुत कर्म^
12. दयादि^
13. कर्मणा
14. ^दूभण्यस्य
15. आदाना^
16. गालीवस्यापुत्रिणो नधिकारः
17. ^व्यान्यशू^
18. ^वचनामि^
19. पंडत्कस्य
20. ब्रह्महादि
21. चानाधिकारः
22. ^ध्ययनानन्तर्यधोतकाभ्यां
23. समुश्चयनात् । तथा चाक्तम्
प्. 12
निःश्रेयसायाधिकृतान्1 विद्या कर्म व्यबोधयत्2 ।
... ... कर्मश्रुतिर् एवानुशास्ति3 तान् ॥ इति
तस्माच् छूद्रो यज्ञे ऽनवकॢप्त इति4 तस्य कर्मपर्युदासाद्5
मूर्खत्वाच् च । मूर्खत्वं च
तस्योपनयनवेदाध्ययनतदर्थाधिगमप्रतिषेधात्6 ।
तथा च गौतमः
शूद्रश् चतुर्थो वर्ण एकजातिर् न च संस्कारम् अर्हति । (इति)
तथा
अथास्य7 वेदम् उपशृण्वतस् त्रपुजतुभ्यां8 श्रोत्रप्रतिपूरणम्
उदाहरणे जिह्वोच्छेदो9 धारणे हि शरीरभेद10 इति ।
वशिष्टो ऽप्य् आह11
पद्युर् वा एष श्मशानं यच् छूद्रस् तस्माच् छूद्रसमीपे
नाध्येतव्यम्12 इति ।
न चानधिकृतेन13 कृतं कर्म शास्त्रप्रत्ययं फलं
सम्पादयितुम् अर्हति शास्त्रलक्षणत्वात्
फलसम्बन्धस्योत्कर्षापकर्षयोश्
च ।
उक्तं च
अवैधत्वाद् अनग्नित्वान् नाधिकारो ऽस्ति14 कर्मसु ।
श्रौतेष्व् अवैधताप्य् अस्य15 वेदाध्ययनवर्जनात् ॥
यः स्वाध्यायम् अधीयीत कुर्यात् कर्म16 स ए(व) तत् ।
अवैदुष्याद् अतः शूद्रः17 कर्मणः18 पर्युदस्यते ॥
नोतेस्:
1. निःश्रीयंसा^
2. विधा ... व्यंवोधयत्
3. कर्मश्रूति^
4. तस्माछूद्रो यज्ञेनवक्लिप्त इति
5. ^पर्यदासात्
6. ^स्योयनयन^ ..... ^तद्दर्थादिगम^
7. अथास्य
8. ^मुपशूण्वतरत्र पुजतु^
9. जिद्वाल्लेदः
10. शरोर^
11. सिष्टोप्याह
12. यद्वद्वा ए^ ..... शानं य छूद्रा तस्माछूद्रसमीये नाछेतव्यम्
13. चानधिकृतेन
14. अवैघत्वा
15. त्रोतेघवैघता^
16. यस्त्वाध्यायमधीत कूर्यात्
17. अवैदुषादतः शूद्रो
18. कर्मण्यः
प्. 13
किं सर्वेभ्यः न ।
स्मार्तं1 च पितृयज्ञादिं शूद्रः कुर्याद् यथाश्रुतम्2 ।
तद् विद्वत्ताम् अवाप्त्यैव3 कथञ्चिद् द्विजसंश्रयात् ॥
श्रौताद् अधिकृतानां तु4 यावद्विहितसेवनात् ।
निषिद्धवर्जनाच् चापि पारम्पर्येण सद्गतिः5 ॥
हीनाद् धीनाच् छुभं6 जन्म पारम्पर्येण यद् अभवेत्7 ।
अनुग्रहः स एषो ऽस्य8 पुंसः श्रुतिकृतो9 मतः ॥
तस्माच् छूद्रादीनां10 कर्मण्य् अनधिकाराद् अस्मिन् शास्त्रे

एतत्प्रतिपादिते च योगाभ्यासे नास्त्य् अधिकार11 इति ।
किं च
आत्माभ्यासो ऽपि नास्यास्ति12 विप्रसेवेति हि स्मृतेः ।
तेषाम् एवानुकम्पेति द्विजातेर् अधिकारिता ॥
तेषाम् एवेतिशब्देन13 ब्राह्मणस्य स्तुतिः कृता14 ।
शूद्रयोनाव् अहंआत इत्यादि बहु दृश्यते ॥
एवमादि बहुवाक्यजातं15 भारते तत्र तत्र दृश्यते
ग्रन्थगौरवभयात् तु न लिख्यत16 इति ।
उक्तं च
अधिकार्य् एव शास्त्रार्थं17 शक्तः साधयितुं यतः ।
तत्सिद्धाव् अप्रभुत्वं हि ज्ञातात्रानधिकारिता ॥ इति18 ।
नोतेस्:
1. स्मार्थं
2. कूर्याप्रथा^
3. तद्वद्वत्ता^
4. श्रौतानाधि^
5. ^चापि पारस्पर्येण सदूतिः
6. हीनाद्वीनाछुभं
7. ^पार्येण पदवेत्
8. अनुग्रहस्सस्स एषोस्य
9. श्रूति
10. ^स्माछूद्रादीनाकर्मण्यनाधि^
11. नास्सधिकारः
12. नास्सस्ति
13. ^कारितातोमीतिचापिशब्देन^
14. स्तुतिकृता
15. ^वाकजातं
16. भयालुर्न लिख्यत
17. शक्रः
18. ^कारेतेति
प्. 14
इत्थं शूद्रादेर् मोक्षाभावाद् धर्मार्थकामलक्षणे1 त्रिवर्गे
च पुरुषार्थे सति हीनाधिकाराद् गीताशास्त्रादेस् तेनाध्ययनादि2
न कर्तव्यम् । यस्माद् यो यत्रानधिकृतः स तदिष्टबुद्ध्यापि3
(अनुतिष्ठन्) न केवलं तत्फलं न प्राप्नोति यावद् अपरेण
प्रत्यवायेनापि युज्यते ।
यथा राजादिना यः कुत्रचिद् अप्य् अनियुक्तः पुरुषः स
तदीयग्रामादौ स्वातन्त्र्येण4 ग्रामव्यापारादि कुर्वंस् तस्माद्
राजादेः5 शरीरधनदण्डादिलक्षणं6 प्रत्यवायं7 प्राप्नोति
तथा शास्त्रे ऽपि यो यत्रानधिकृतस् तदिष्टार्थम् अपि8 कुर्वन्
प्रत्यवैति । यथा च श्लैष्मिकहितम् औषधं भक्षयन्न्
आरोग्यार्थं
पैत्तिको नैरुज्यं न लभते प्रत्युत9 रोगप्रकोपेण पीड्यते
एवम् इहापि बोद्धव्यम्10 ।
उक्तं च
पर्युदस्तो हि यो यस्माच् छास्त्रीयाद् अपि कर्मणः ।
स तत्रानधिकारी11 स्याद् दानादौ दीक्षितो यथा12 ॥
एवं चाधिकृतेनानुष्ठितं13 कर्म फलसाधकं न
स्वबुद्ध्यैवानधिकृतेनेति14 शास्त्रनियमः ।
एतच् च भगवान् एव वक्ष्यति
यः शास्त्रविधिम् उत्सृज्य15 वर्तते कामकारतः ।
न स सिद्धिम् अवाप्नोति न सुखं न परां16 गतिम् ॥
1. ^क्षावद्धर्मार्थकामा^
2. ^हानधिकाराद्रोतासास्त्रादे^
3. ^स्सतदष्टवुड्र्यापि
4. पुरुषस्स तदीपग्रामोदखातन्त्र्येण
5. राज्ञादेः
6. घनदञ्जादि^
7. प्रत्यवायुं
8. कृतस्तदृष्टार्थमपि
9. श्लौं जिकहितमौषधं यैतिकं औषधवुपि भक्षयन् प्रत्युत
10. प्रकोपेन पीड्र्यत यवमिहापि वोभ्दव्यम्
11. तत्रानधिकारी
12. ^द्वानादौक्षितो
13. ^नुष्टितं
14. ^साधकलस्ववुड्रौवा^
15. मत्सृज्य
16. परा^
प्. 15
यतः
प्रतिषेधम् अतिक्रम्य प्रत्यवेयात् कृतान् नरः1
तस्मात् तस्यानतिक्रान्तौ नित्यं2 युक्ततरो भवेत् ॥ इति ।
यतः किल सर्वेण
पुरुषेणाविहितानुष्ठानप्रतिषिद्धसेवननिमित्तजनितपापहेतुकविविधनरकरौरवासिपत्रवनक्रकचच्छेदनश्वशृगालादिकृमिकीटभक्षणवेदनापूयशोणितकर्दममज्जनादियाम्ययातनाशताद्यनर्थसङ्कटादिसन्त्रासाच्
छरणैषिणा3
स्थावरकीटपतङ्गादियोनिसहस्रावर्तभ्रमणसद्योमरणजराव्याधिक्षुत्पिपासाबन्धनाङ्गच्छेदादिदुःखभयोच्छेदकारि4
शास्त्रीयं कर्मानुष्ठीयते5 ।
तत् पुनर् उत्कृष्टं कर्म निषिद्धत्वाद् विरुद्धं6
सद्गतानुगतिकत्वेनादृष्टबुद्ध्यानुष्ठीयमानम्
अप्य् अविहितत्वेनाशास्त्रीयत्वान् न7 केवलं
निष्फलं भवति यावत् प्रत्युतानधिकृतत्वेन8 प्रत्यवायकरत्वात्
परलोके9 बहुविधनरकपाताद्युपद्रववृन्दोत्पादकम् इति10
ज्ञात्वा शूद्रादिना नैवात्र नित्यम् आत्मा11 क्षपणीयः ।
तथा चेहैव12 वक्ष्यति
वरं स्वधर्मो विगुणः13 परधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भ्यावहः14 ॥
वरं श्रेयन् । दर्शयति च मनुर् अपि
परधर्मेण जीवन् हि सद्यः पतति जातितः ।
नोतेस्:
1. प्रत्यवेयालुरान्नरः
2. वित्यं
3. विहितनुष्टानप्रतिषेध .... हेलुक .... रौरवासियत्र ....
चछेरनश्वसृगालादिक्रिमि .... शोणितकर्मममजनादि ....
शताधनर्थसङ्कटामीवसन्त्रास^
4. ^स्थावरस्कीट .... भ्रमणाघद्वो ....
क्ष्त्वात्पिपासावन्धनां गछेददिडुःखभय^
5. कर्मानुष्टोषते
6. ^पुनरुत्कष्टकर्म निसिद्धत्वाद्^
7. सैतानुगतिकत्वेनादृष्टवुद्भ्यानुष्टीयमानमप्यविहितत्वं
नाशास्त्रीयत्वान्न^
8. प्रत्युतानुधिकृत्वेन
9. ^करत्वान्पर^
10. ^पातद्वुपद्रव^
11. नेवात्रनित्तमात्मा
12. तथार्चेहैव
13. वरं श्रेषान् स्वधर्मो
14. भयावद्बादर्याति
प्. 16
शूद्रजातितो ऽपि भ्रष्टस् तिर्यगादिजातिं प्राप्नोतीति वाक्यार्थः1 ।
वेदे मन्त्रेषु गृह्येषु2 श्रुतिस्मृतिनिषेधतः ।
नाधिकारो ऽस्ति शूद्रस्य पुराणादिषु3 भारत ॥
ब्राह्मणं तु पुरस्कृत्य4 शृण्वतः फलम् ईरितम् ।
स्त्रियो वैश्यास् तथा शूद्राः शुद्धाः सुखम् अवप्नुयुः5 ॥ इति ।
यतः
तिर्यग्भ्यः6 पुरुषाः श्रेष्ठाः7 कार्याकार्यविवेकतः8 ।
तन्त्राधिकारात् तेभ्यो ऽपि9 द्विजा वेदाधिकारतः ॥
अधिका(रा)त् प्रवचने तेभ्यः श्रेष्ठा द्विजोत्तमाः ।
श्रुत्या स्मृत्याधिकारार्थं श्रैष्ट्यम् एषां प्रकाशते10 ॥ इति ।
तथा च मनुः
ब्राह्मणो जायमानो हि पृथिव्याम् अधिजायते ।
ईश्वरः11 सर्वभूतानां धर्मको(श)स्य गुप्तये ॥
तद् एवम् उक्तसम्बन्धाभिधेयप्रयोजनं12
प्रतिपादिताधिकारविशेषम्
एतच्छास्त्रं व्याख्यातुं13 श्रोतुं च14 योग्यम् इति ।
अतो ऽस्य व्याख्यानम् आरभ्यते15 ।
अनेकैश् च व्याख्यातृभिः स्वपक्षनिक्षिप्तदृष्टिभिर्
इतस् ततः16 कृष्यमाणम् अनवस्थाम् आपद्यमानं गीताशास्त्रम्
अपवर्गप्राप्त्युपदेशमहाप्रयोजनम्17 ।
(अतः) भगवतो ऽभिप्रेते सन्मार्गे स्थापयितुम् अयं यत्नः क्रियते18 ।
नोतेस्:
1. शूद्रता तितो .... जानिं प्राप्नोतीति तद्दर्थं वाक्यार्थः
2. गृहे च
3. पुरणादिषु
4. पुरस्कत्य
5. शूद्रस्सुखमवाप्नुयात्
6. षतस्ति^
7. श्रेष्टाः
8. कार्याकर्य^
9. तत्राधि^
10. श्रेष्ठ्यमेष्य पृत्काशते
11. ईश्वरः
12 तदेवमुक्त^
13. विशेषयं शास्त्रं व्याख्यातं
14. श्रोतु च
15. योग्यमित्येतोस्य व्याख्याख्यान^
16. ^रितस्तनः
17. ^मान्नं ... प्राप्नुपदेशान्^
18. यत्वात्क्रियते
प्. 17
नन्व् इतिहासपुराणानां पौरुषेयत्वाद् अपवर्गप्राप्तिलक्षणे
ऽतीन्द्रियार्थे1 न स्वतः प्रामाण्यं सम्भवति ।
सत्यम् एतत् ।
किं तु मन्त्रार्थवादास् तेषां2 मूलम् इति न्यायविद्भिः स्थापितम्3 ।
अतस् तेत्र4 मूलं स्युः
धर्माणां5 विप्रकीर्णानां वेदज्ञातृप्रयत्नतः ।
कृतं संहरणं6 साक्षाद् धर्मावगतिहेतुकम् ॥
वैदिकानां (हि) शब्दानां प्रस्थानात् तु विलक्षणम् ।
स्मृतीनां रचनेयं7 हि पुंप्रणीता विलक्षणा8 ॥
भगवद्व्यासादिस्मरणं9 च स्वतः प्रामणम् एव ।
ते हि साक्षात्कृतधर्मत्वात् करतलगतामलकवत् सकलं वेदार्थं
प्रत्यक्षेणैव पश्यन्ति10 ।
तद् उक्तम् साक्षात्कृतधर्माण ऋषयो बभूवुर् इति ।
न ह्य् अस्मदादिवद् व्यासादयो ऽतीन्द्रियम् अर्थं न पश्यन्तीति वक्तुं
श(क्यम्11) ।
विधूत(क)ल्मषत्वाद् ईश्वरानुग्रहाद् वेदार्थस्य12 वोपनिबन्धनाच् च
सम्भवत्य् एवतीन्द्रियार्थदर्शनं13 तेषाम् इत्य् अदोषः ।

इत्थं स्थिते ऽर्जुनस्य ज्ञानकर्मोपदेशप्रसङ्गम् अवतारयितुं
प्रस्तुतकथासमाप्तौ कार्यान्तरं जिज्ञासुर् धृतराष्ट्रः14
पुनः सञ्जयं पृच्छंस् तावद् आह15
धर्मक्षेत्रे कुरुक्षेत्रे सर्वक्ष्त्रसमागमे ।
मामकाः पाण्डवाश् चैव किम् अकुर्वत सञ्जय

1.2

हे सञ्जय कुरुक्षेत्राख्ये देशे धर्मप्रसवहेतुत्वाद् धर्मस्य
नोतेस्:
1. पौरुषेयद्वाद् ... लक्षणेतीन्द्रियार्थे
2. ^वादस्ते^
3. न्यायविम्दिसथापितम्
4. तत्र
5. धमाणां
6. वेदादातृत्यपत्नतः .... हण
7. विलक्षणार्थं स्मृतीनां रचनीयं
8. विकल्षणात्
9. वासदिस्मणं
10. पश्यति
11. ^वद्यासादयोतीन्द्रियमर्थं .... नश
12. ^दिश्वरानुग्रहाद्
13. वोपनीवन्धनाश्च सभवेत्येवातिद्रियाथ^
14. समाप्तो .... जितासुर्धृत^
15. सययंपृस्तावदादावहे
प्. 18
क्षेत्रे स्थाने सर्वक्षत्रसमागमे सन्निधाने सति
मत्सन्बन्धिनस् तनयाः पाण्डुपुत्राश् च किम् अकुर्वत किम्
अनुष्ठितवन्त
इति ।
पूर्वं1 राजऋषिणा तपस्यता तत्र धर्मः किलोप्त इति
कुरुक्षेत्रस्य धर्मक्षेत्रत्वम्2 । अत्र कुरुतातो धर्मं3 क्षिप्रं
त्राणो भविष्यतीति कुरुक्षेत्रस्य कुरुक्षेत्रत्वम् इत्य् आहुः
पौराणिकाः ॥ 1 ॥
एवं पृष्टः सञ्जय4 उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं5 दुर्योधनस् तदा ।
आचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत्

1.3

पाण्डवसैन्यं व्यूढं शास्त्रदृष्ट्या कृतविन्यासविशेषं6
दृष्ट्वैव7 तस्मिं काले दुर्योधनो द्रोणम् उपसङ्गम्य गौरवात्
तत्समीपं8 प्राप्य वक्ष्यमाणं9
विशिष्टपदक्रियापरिकल्पितरूपं10
वाक्यम् उक्तवान् ॥ 2 ॥
तदाह
पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं11 चमूम् ।
व्यूढां12 द्रपदपुत्रेण तव शिष्येण धीमता

1.4

हे आचार्य पाण्डुपुत्रसम्बन्धिनीं13 चमूं महतीं14
सेनाम् अङ्गबाहुल्याद् विस्तीर्णां15 धृष्टद्युम्नेन
व्यूहविधानकुशलेन16 च व्यूढां कृतचरनाविशेषां
(पश्य) ।
यो हि भवच्छिष्यो बुद्धिमांश् च सो ऽवश्यम्17
नोतेस्:
1. पूर्व
2. कुरुक्षत्रस्य धर्मक्षत्रत्वम्
3. अतश् च कुरुतात्र धर्म
4. पृष्टं स्सञ्जय^
5. व्युडं
6. ^सैन्ये व्युवं शास्त्रदृक्ष्माकृत^
7. दृष्टैव
8. गौरवात्नत्समीप
9. वक्ष्यमाण
10. ^रुपं
11. पांडत्राणां ........ महती
12. व्यूढान्
13. ^सम्बन्धिनी
14. महन्ती
15. ब्यहुल्या हि स्तीर्णां
16. ब्यूह^
17. पदपयो हि भवष्यो वुद्धिमांश्च सोवस्यमाम्रतिमां
व्यूहरवनां करोत्यतः
प्. 19
अप्रतिमां व्यूहरचनां करोति ।
अतः प्रतिविधानपरो1 भवेत्याशयः ॥ 3 ॥
किं च
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश् च द्रुपदश् च महारथः2

1.5

अत्र अस्यां सेनायाम् अमी3 शूरा भयविषादान् अभिजाः4 ।
तथा महेष्वासाः5 ।
इषवः शरा अस्यन्ते क्षिप्यन्ते6 यैस् त इष्वासाः कोडण्डाः7
महान्तो बृहन्तः सुदृढाः परैर् अभेद्या
इष्वासा धनूंषि येषां ते महेष्वासाः ।
अथ वा युद्ध इषून् अस्यन्तीतीष्वासा धानुष्काः
(युद्ध)कर्मपराः8 ।
त एव च दिव्याः प्रभावत्त्वाद् धनुर् वेदकृताभियोगत्वाद्
अनेकसङ्ग्रामलब्धविजयत्वाच् च9 ।
महान्त उत्तमाः प्रशस्ताः ।
तथा युधि युद्धे भीमार्जुनाभ्यां योद्धृत्वेन10 समास् तुल्याः ।
के त इत्य् आह युयुधानः सात्यकिः विराटो11 द्रुपदश् च महारथः ।
महान् प्रेरणावरणयुद्धापसारणावकाशादिधर्मयोगात्12
प्रशस्तो रथो यस्यासौ महारथः ॥ 4 ॥
किं च
धृष्टकेतुश् चेकितानः13 काशिराजश् च वीर्यवान् ।
पुरुजित् कुन्तिभोजश् च14 शैब्यश् च नरपुङ्गवः

1.6

1. ^विचान^
2. महारर्थः
3. सेनायासमी^
4. मयविषाद^
5. महेषासाः
6. अरयन्ते क्षिप्यते
7. षैस्ते द्रघासाः कोदंडाः
8. महान्तो वृहन्तः सुदवाः परैसमेधा^ धनुषि .... ते तथा
युद्धाद्रष्टूनस्यन्तीतीष्वासा धानुकाः कर्मरपरा
9. प्रभावत्वा .... देकसं^
10. योद्धत्वेन
11. युयुधानस्तात्यकिर्विराटो^
12. महान्प्ररणावरणा युद्धापसारावकाशादिधर्मयोगात्
13. चेकितान्
14. कुन्तिभोजैश्च
प्. 20
इह सञ्ज्ञामात्रप्रधाना अमी शब्दा निगदव्याख्या(ताः)1 ।
(ताः) अतो न व्याख्यायोग्याः ।
येषां त्व् अर्थानुगमे विशेष उपलभ्यते ते लेशतो व्याख्यायन्ते2 ।
काशीनां राजा (वीर्यवान्) उत्साहशक्त्युपेतः6 ।
पुरु बहु जयतीति पुरुजित् । कुन्तयो जनपदाः तेषां वासी4
(कुन्तिभोजः) । शिवयो जनपदास् तेषां राजा5 (शैब्यः) ।
स च शौर्याद्युत्तमगुणयोगान् नरपुङ्गवः पुरुषश्रेष्ठः6 ॥ 5 ॥
तथा
युधामन्युश् च7 विक्रान्त उत्तमौजाश् च वीर्यवान् ।
सौभद्रो द्रौपदेयाश् च सर्व एव महारथाः

1.7

विक्रान्तो वीर्यवान् सुभद्रासूनुर् अभिमन्युः8 ॥ 6 ॥9
एवं पाण्डवानीके प्रधाननायकनिर्द्देशं10 कृत्वा स्वानीके
प्रधाननायकान् दर्शयन्न् आह11
अस्माकं तु12 विशिष्टा ये तान् निबोध13 द्विजोत्तम ।
नायकान् मम सैन्यस्य14 सञ्ज्ञाअर्थं तान् ब्रवीमि ते15

1.8

अस्माकं ये विशिष्टाः कुलशौर्यादिभिः16 प्रधानास् तान्
सञ्ज्ञार्थं ब्रवीमि17 ।
सञ्ज्ञानं सञ्ज्ञा । तुशब्दः18 पूर्वेभ्यो
विशेषावद्योतनः19 ।
युयुधानादयो वराका युष्माकं पुरतो ऽकिञ्चित्करा20 इत्य् अर्थः ॥ 7
॥21
नोतेस्:
1. शब्दा .... व्यख्य
2. एषां त्वार्हानुनमः कश्चिदुलभ्यते .... व्याख्यायते
3. उत्साहशत्सुपेतः
4. जनपदस्तमाजस् वामी
5. जनपदैस्तस्य राजा
6. सौर्यदु ... योगान्नपुगव पुरुषश्रेष्ठः
7. वुधान्युश्च
8. ^सूनुभिमन्युः
9. अङ्कोयम् दर्शयन्नाह अस्मात्परः विद्यते
10. ^निदेशं
11. स्वाखानेके प्रधानान्दर्शयन्नाह
12. लु
13. निवोध
14. मं दौन्यस्य
15. सञ्ज्ञार्थं तान्
16. चौर्यादिभिः
17. ब्रविमि
18. सञ्ज्ञा न सञ्ज्ञा तु शब्दः
19. विशेषावष्वोत्ना
20. किं तित्करा इत्य् अर्थः
21. अङ्कोयं परिगणयन्नाह अस्मात्परोस्ति
प्. 21
ताश् च परिगणयन्न् आह
भवान्1 भीष्मश् च कर्णश् च कृपः शल्यो जयद्रथः3 ।
अश्वत्थामा4 विकर्णश् च सौमदत्तिश् च5 वीर्यवान्

1.9

न केवलम् एते यावत्
अन्ये ऽपि बहवः शूरा मदर्थे त्यक्तजीविताः6 ।
नानाशस्त्रप्रहरणा नानायुद्धविशारदाः7

1.10

नानाप्रकाराणि चक्रासिमुशलगदाप्रभृतीनि (शस्त्राणि)
प्रह(र)णानि येषां ते तथा ।
नानाविधगजरथाश्वादियुद्धक्रियासु पण्डिता मत्कार्ये च
त्यक्तजीविता. सन्त्य् एवान्ये ॥ 9 ॥8
एवम् उभयसैन्यनायकनिर्देशं कृत्वा सारासारतां
निरूपयन्न् आह
अपर्याप्तं तद् अस्माकं बलं भीमाभिरक्षितम् ।
पर्याप्तं त्व् इदम् एतेषां बलं भीष्माभिरक्षितम्

1.11

अस्माकं यथानिर्दिष्टसंहतानां10 तत्पाण्डवबलम्
अपर्याप्तम् असमर्थम् अभिभवितुम् यतो भीमाभिरक्षितम्
भीमसेनेन प्रधानभूतेन गुप्तम् ।
स च (भीमो) भीष्मापेक्षया किञ्चिन् न्यूनतर इत्य् अभिप्रायः11 ।
इदं त्व् अस्माकं बलम् एतेषां पाण्डवानां पर्याप्तम्
अभिभवाय विनाशने समर्थम् इत्य् अर्थः12 यतो भीष्माभिरक्षितम्13
।
भीष्मस् त्व् अनेकशस्त्रास्त्रपारगो निर्जितानेकमहासमर इत्याशयः14
॥
10 ॥15
1. मवान्
2. कणश्च
3. जयद्रथः
4. अश्वस्यामा
5. सौमर्दन्निश्च
6. शूरादर्थे त्यक्ता जीविताः
7. विशारदाः
8. अङ्कोयम् निरूपयन्नाह अस्मात् परोस्ति
9. वलं
10. ^सहितानां
11. किञ्चिन्त्यूनतर इति आभिप्रायः
12. पाण्डवामां पर्यासमाभिभवाय विनाशने सर्मर्थमित्य् अर्थः
13. ^रक्षितं
14. भीष्मोस्वनेकशास्त्राश्स्रपारगोनेकनिर्जितमहासमर इत्याशयः
15. अङ्कोयम् आह अस्मात् परोस्ति
प्. 22
प्रधाननिर्देशपर्योजनम् आह
अन्येषु तु सर्वेषु यथाभागम् अवस्थिता(ः) ।
भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि

1.12

हि यस्माद् एवम्भूतेन भीष्मेणाभिरक्षितम् अस्माकं बलं
पाण्डवानां पराभवे पर्याप्तम् ।
ततो ऽयनेषु सर्वेषु रथमार्गरथ्यासु सर्वासु
यथाभागम् ।
यो यो भागो यथाभागम् ।
यो यस्यात्मीयो भगो ऽंशः (स तेन) रक्ष्यः1 ।
तत्र अवस्थिताः सन्तो भवन्तो भीष्मम् एवाभिरक्षन्त्व्2 इति
तस्मिन् नायके3 सर्वतो गुप्ते बलं परबलप्रणाशने4 क्षमं
भवतीत्याशयः । यद्य् अस्मिन्न् इति5 (?) अयनं कक्ष्यादि ॥ 11 ॥
इदानीं6 कार्यान्तरम् उपक्षिपति सञ्जयः7
तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं8 दध्मौ प्रतापवान्

1.13

तस्य प्रक्रान्तस्य बलस्य दुर्योधनस्य वा9 हर्षम् उत्पादयन्
भीष्मः कुरूणां तत्कालजानां पूर्ववयाः
सिंहनादम् उच्छैर् विनद्य10 ततः शङ्खं दध्मौ ।
सिंहस्य इव नादः सिंहनादः तं विनद्य ।
सामान्यनदेर् विशेषनदिः11 कर्म । सिंहनादं कृत्वेत्य् अर्थः ॥ 12
॥
ततः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः12 ।
सहसैवाभ्यहन्यन्त स शब्दस् तुमुलो ऽभवत्

1.14

अनन्तरं शङ्खादयः सहसैवाविचारितनियन्त्रणम् एव
अभ्यहन्यन्त13 ताडिताः ।
स च वादित्रसङ्घातजः शब्दस् तुमुलो महान्
नोतेस्:
1. यस्यात्मीयोंसो भागो रक्ष्यः
2. भोष्ममे^
3. त्तस्मिन्नायके
4. ^प्रद्दर्शने
5. यत्यस्मिम्निति
6. इदान्नी
7. कार्यातरमुपाङ्क्षिपति संययः
8. विनद्योश्चैः सङ्खान्
9. चलस्य दुर्योधनस्या वा
10. कुरुणां .... सिंहनादसुश्चौर्वितघं
11. समान्य^
12. पणवानक^
13. शङ्खायाः सहसैवाधिचारितं निर्यत्रणमेवाभ्यहन्यत
प्. 23
अविभाव्यमानावयवविवेकः
श्रोतृहृदयदारणो ऽभवत्1 । भेर्यः कात्वाः (?)
आनकस्तमिस्वा (?) गोमुखो ऽनलम्बकः2 (?) ॥ 13 ॥
ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः

1.15

माधवपाण्दवौ दिव्यैकरथारूढावचिन्त्यप्रभावौ
शङ्खावत्यर्थं5 ध्मातवन्तौ ॥ 14 ॥
अथ प्रधानशङ्खनामनिर्द्देशम् आह6
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः7

1.16

अनन्तविजयं राजा कुन्तीपुत्रो8 युधिष्ठिरः ।
नकुलः सहदेवश् च सुघोषमणिपुष्पकौ

1.17

पौण्ड्रं (पुण्ड्र)देशजं विपुलं वृकोदरो दीप्ताग्न्युदरो9
भीमकर्मा बकहिडिम्बादिराक्षसविदारणादीनि भीषणानि
कर्माणि यस्य (सः) । कुन्तीपुत्रग्रहणं प्रशंसार्थम् ।
पितुर् असंविज्ञाने मात्रा व्यवदेशो यद्य् अपि कुत्सा10 राधासुतस्येव
तस्य पुनः संविज्ञाने प्रशंसैव11 धर्मपुत्रत्वाद्
युधिष्ठिरस्य12 ॥13 ॥
किं च तथा
काश्यश् च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः

1.18

1. महानविभाव्यमामावयवविवेकः श्रोत्त्र्तृदयारुणोभवत्
2. गोमुखोनलवङ्कः
3. श्वेतेह^
4. पांडवाश्चैव
5. दिय्यैकरथरुटावचिन्त्यप्रभावौ शंव्यौ^
6. ^नामुनिर्देश^
7. कर्मार्वृकोदरः
8. कुतीपुत्र
9. दीप्ताग्यदरः
10. यत्युकुत्सा
11. सविज्ञाने प्रशंसेव
12. धर्मपुत्रात्वाघ्रधिष्टिरस्य
प्. 24
पाञ्चालश् च1 महेष्वासो द्रौपदेयाश् च पञ्च ये ।
सौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् (पृथक्)

1.19

सात्यकिश् चापराजितो युद्धेष्व् इति विज्ञेयम् ॥ 18 ॥
किं च
स घोषो धार्तराष्ट्राणां3 हृदयानि व्यदारयत्4 ।
नभश् च पृथिवीं5 चैव तुमुलो व्यनुनादयत्

1.20

यथोक्तशङ्खघोषस् तुमुलो6 दुर्योधनादीनां हृदयान्य् अभिनद्7
भिन्नवान् । यतो नभश् च पृथिवीं चैव8 सकलम् इव
व्यनुनादयत् प्रतिशब्द्दयुक्तम् अकारयत् व्यनुनदनं प्रयुक्तवान् ।
व्यनुनादयद् इत्य् अत्र व्यत्यये ऽनाडभावः9 ।
इहस्थानम् अपदानां10 निर्वचनं ग्रन्थगौरवभयान् न11 कृतम् ।
येषां च शब्दानाम् इह लक्षणानुगमो न दृश्यते तेषां विरोधो
नोद्भावनीयः ।
यतः परमर्षिणा द्वैपायनेनैवोक्तम् अलङ्कृतं शुभैः शब्दैर्
इति । अतस् तद् आगमाद् एवावगम्यते शुभशब्दत्वे12 व्याकरणानां
बहुत्वे च कथं पाणिनीयेन केवलेन विरोध उद्भावयितुं युक्तः13 ।
इतिहासादीनां वैदिकार्थप्रतिपादनाच् छन्दस्तुल्यत्वम्14 ।
तथा चानेनैवोक्तम्15 इदं हि देवसम्मितम्16 पवित्रम् इदम् उत्तमम् इति
कार्ष्णवेदम् इदं पुण्यम् इति17 । तथा अन्यत्रापि चोक्तम्
नोतेस्:
1. याचाल्यश्च
2. पृथक्
3. धातराष्ट्राणां
4. व्यदारयन्
5. पृथिवी
6. क्षयथोक्त^
7. हृदयान्यभिनद्भिन्न
8. पृथिवी चैव
9. व्यनुनदनः प्रयुक्तवानिवेति व्यत्ययेनानुभावः
10. इहधनाम^
11. ग्रथ^
12. ब्रुभैः शब्दैरितिस्तदागमादेवावगते
13. विरोधरुद्भावयितु युक्त
14. इतिहासादानां वेदिकार्थ^
15. चानेनेवोक्तम्
16. वेदेसामितं
17. कार्क्ष्मवेदमि^
प्. 25
वेदाभेदं भारतस्यावलोक्य
व्यासो वाक्यैर् अश्विनोः स्तोत्रम् आदौ ।
सम्यक्कृत्वा वैदिकैर् लक्षणोक्तीर्1
भूयो भूयस् ताः करिष्यत्य् अत्र शेषाः2 ॥ 19 ॥
अन्यद् अपि कार्यान्तरम् उपक्षिपन्न् आह
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते3 शस्त्रसम्पाते धनुर् उद्यम्य पाण्डवः

1.21

हृषीकेशं तदा वाक्यम् इदम् आह महीपते4 ।
अथ शङ्खघोषाद् अनन्तरम् अर्जुनो दुर्योधनादीन्5
(व्यवस्थितान्) विविधेनाकारेण6 यथाविभवम् अवस्थितान्
दृष्ट्वा शस्त्राणां सम्पाते प्रवृत्ते धनुर् उत्क्षिप्य
सावधानो हृषीकेशम् इदं वक्ष्यमाणं वाक्यम् आह ।
हृषीक(म्) इतीन्द्रियग्रामाख्या तदीशं7 हृषीकेशम् इति ।
हे महीपत इति धृतराष्ट्रोद्बोधनं सञ्जयेन8 ॥ 20 ॥9
किं तद् वाक्यम् इत्य् आह
उभयोः सेनयोर् मध्ये रथं स्थापय मे ऽच्युत

1.22

यावद् एतान् निरीक्षे ऽहं10 योद्धुकामान् अवस्थितान्11 ।
कैर् मया12 सह योद्धव्यम् अस्मिन् रणसमुद्यमे13

1.23

मध्ये रथस्थापनाद् युयुत्सासंशयो ऽनुमीयते14 पार्थस्य ।
तं च प्रकटयिष्यति । किमर्थं (सेनयोर् मध्ये) रथस्थापनम् इति
चेद् अत आह यावद् इ(ति) । यावद् इत्य् अनेन कार्यशेषं सूचयति15
नोतेस्:
1. ^कलक्षणोक्तीर्^
2. ^ष्यत्रशेषः
3. वृ.वृत्ते
4. हपीकेशं ... पहीपते
5. शङ्खघोषादं नरमर्जुनो । दुर्योधनादिन्
6. विविधनेकाकारं
7. तदीसं
8. धृतराष्ट्रद्धनं सजयेन
9. ॥20॥ इति नास्ति
10. निरोष्के
11. योद्धकप्नान^
12. कैप्नया
13. अस्मिन्नणसप्नुद्यमे
14. युथुत्सात्सं^
15. सुचयति
प्. 26
रणसमुद्यमे युद्धोद्योगे1 कैः सह मया योद्धव्यम् इति2
योद्धुकामान् अवस्थितान् दृष्ट्वा ततो यथाभिप्रेतम्
आचरिष्यामीत्याशयः4 ॥ 22 ॥
सञ्जय उवाच
एवम् उक्तो हृषीकेशो5 गुडाकेशेन भारत ।
उभयोः सेनयोर् मध्ये स्थापयित्वा रथोत्तरम्

1.24

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्6 ।
उवाच पार्थ पश्यैतान्7 समवेतान् कुरून् इति8

1.25

गुडाका निद्रा तदीशेन जितनिद्रेणार्जुनेनैवम् उक्तो9
भगवान् उभयोः सेनयोर् मध्ये रथं स्थापयित्वोवाच ।
कथं स्थापयित्वेत्य् आह भीष्मद्रोणप्रमुखतः10
तयोः सम्मुखम् । आद्यादित्वात् (सार्वविभक्तिकः) तसिः11 ।
सर्वेषां च12 राज्ञां सम्मुखम् ।
किम् उवाचेत्य् आह हे पार्थ ।
पश्यैतान् एकत्र समवायं गतान् कुरून् इति13 ।
भीष्मद्रोणाभिमुखे14 रथस्थापनाभिप्रायं भगवान् आह
यत15 पितामहगुरून्16 प्रति कदाचिद् अस्यायुयुत्सा स्यात् तद् एनं
ज्ञानोपदेशेन17 प्रवर्तयिष्यामीति18 ॥ 24 ॥
तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ19 पितामहान् ।
आचार्यान् मातुलान् भ्रातॄन्20 पुत्रान् पौत्रान् सखींस् तथा21

1.26

श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि22 ।
नोतेस्:
1. पुध्वोद्योगे
2. योद्धर्व्यामिति
3. योद्धकामान्
4. यथाहिप्रेतम्^
5. नृषीकेशो
6. ^मदिक्षिताम्
7. पश्यैवान्
8. ^नुकुरुनिति
9. जितनिद्रेना^
10. प्रप्नुखतस्^
11. इत्याधोदित्वा तुसिः
12. चा
13. कुरुनि^
14. -भिमुखरथ^
15. भगवत् आहुर्यत्
16. ^गुरुन्
17. कदाचिदस्थायुत्सा स्यात्तरानं ज्ञानोपदेशेन
18. प्रवर्तयिष्यामिति
19. त्तत्रापश्यान्स्थितान् पार्थः पितूनथ
20. भ्रात्तून्
21. सखंस्तथा
22. ^सुहृदश्चैव सेनयौरु^
प्. 27
तत्र उभयोः सेनयोर् मध्ये पार्थः पित्रादीन् अपश्यत् ।
पितॄन् पाण्डुधृतराष्ट्रभ्रातॄन्1 केनापि वान्येन2
(सम्बन्धेन) तत्स्थानीयान् पितामहान्
भीष्मबाहुलीकसोमदत्तप्रभृतींस्
तत्स्थानीयान्3 वा मातुलान् शल्यशकुन्यादींश् च4
तथैवोभयोः सेनयोर् अन्यान् स्वजनान् भ्रातॄं तत्तुल्यान् सुतान्
पौत्रान् (अपश्यत्)5 ॥ 26 ॥
तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान्

1.27

कृपया परयाविष्टः6 सीदमानाब्रवीद् इदम् ।
तान् सर्वान् बन्धून् इति7 समीक्ष्य न कश्चिद् अत्र परः सर्व एव
स्वजना इत्य् एवं विचार्य कथम् एते मारयितुं युवता इति
प्रकृष्टया करुणया वशीकृतः ।
तत एव सीदमानो ऽवसादं गच्छन् युद्धोद्यमं8
जहद् इदम् अब्रवीद् इति । व्यत्ययेनात्रात्मनेपदम्9 ॥ 27 ॥
किं तद् इत्य् आह
दृष्ट्वेमान् स्वजननान् कृष्ण युयुत्सून्10 समवस्थितान्

1.28

सीदन्ति मम गात्राणि11 मुखं च परिशुष्यति ।
वेपथुश् च शरीरं मे रोमहर्षश् च जायते

1.29

संसते गाण्डिवं12 हस्तात् त्वक् चैव13 परिदह्यते ।
न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः

1.30

हे कृष्ण इमान्14 स्वान् जनान्15 युयुत्सून्16 समवायेनावस्थितान्
दृष्ट्वा मे अङ्गानि योद्धुं नेच्छन्ति17 ।
वेपथुः कम्पो
नोतेस्:
1. पित्रून् पान्दुधृतराष्ट्रभ्रात्रून्
2. वातन्येन
3. वाहिक .... तत्स्थानीमान्वा
4. शकुत्यान्दीश्च
5. सेनयोरभ्यतुल्यस्वाजन्यातुतः ॥ 26 ॥
6. परयाष्टिष्टः
7. तात्सर्वान् वन्धूनीति
8. गछत्युद्भाद्यमं
9. च्यत्ययेन
10. कृक्ष्मयुयुत्सुन्
11. गात्रारणि
12. गांडिव
13. त्वत्कैव
14. कृनेमान्
15. स्वाजनान्
16. युयुतृन्
17. याद्धं नोद्यच्छन्ति
प्. 28
रोमहर्षश् च ऊर्द्ध्वरोमता1 (गाण्डीवं)
संसते ऽधःपतति ।
त्वक् शरीरं चर्म2 शोकाग्निना दह्यते3 ।
मुमूर्षूं दृष्ट्वा4 कृपया तथाभूतः
सन् इति5 । अत्र च भिन्नकर्तृकता6 पूर्वोक्तन्यायान् न7
चोदनीया । यद् वा दर्शनक्रियाया अर्जुनः कर्ता गात्रादिसादनादौ
च वास्तवेन धर्मेणार्जुन एव । न ह्य् अर्जुनव्यतिरेकेणान्यद्
गात्राद्य् अस्ति8 ।
इवशब्दस् तूपमार्थो9 भेदबुद्धिं जनयतीति ।
अपि च कृपावशात् प्रयत्नशैथिल्ये सत्य् अवष्टम्भं10 धारयितुं
न शक्नोमि । दुःखप्रकर्षाच् च चक्रारूढम् इव11 मे मनो भ्रमत्य्
अनवस्थितत्वाद् भ्रमतीवेत्य् उक्तम्12 ॥ 29 ॥
किं च
निमित्तानि13 च पश्यामि विपरीतानि केशव ।
न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे

1.31

निमित्तानि यानि जयसूचकानि उत्साहादीनीष्यन्ते14 ।
तानि विपरीतानि15 अनुकूलानि पश्यामि ।
यद् वा गात्रावसादादीनि निमित्तानि पश्यामि । न चाहवे
बन्धुवर्गं16 हत्वोपकारम् अनुपश्यामि ॥ 30 ॥
तत्रैतत् स्यात् यद्य् उद्ध्यतां पाण्डवानां विजये सति
राज्यादिलाभलक्षणस्य श्रेयसः सम्भावनास्तीति तद् आह17 ---
नोतेस्:
1. रोमहर्ष कुर्ध्वंरोमता
2. ^त्त्वच्छारीरं चर्मा
3. दत्येते
4. ^दृष्टा
5. भूतस्मयन्न इति
6. भिन्त^
7. पूर्वोन्ङ्क्यापन्न चोदनीया
8. ^व्यतिरेणान्यद्भात्राद्यस्ति
9. इति शब्दस्त्वपमार्था
10. अवष्ठम्भ
11. शङ्कोमि दुखप्रकर्षाश्च चक्रारुठभिव
12. ^स्थितत्वाद्भुमतीवेत्युङ्कम
13. निमिन्तानि
14. ^सूचकान्युत्साहाशीनीष्यन्ते
15. विपरोतानि
16. व चाहवे वन्धुवंर्ग
17. तत्रतेतत्स्याच्छक्रवापष्टतः पांडवानामित्यादि
श्रयलक्षणं
श्रेयोस्तीत्यत आह 30।
शक्तत्वाद्युद्ध्यतां पाण्डवानाममित्रविजयलक्षणं श्रेयोस्तीत्यत
आह इति वा पाठः
प्. 29
न काङ्क्षे विजयं कृष्ण1 न च राज्यं सुखानि च ।
किन् नो राज्येन गोविन्द किं भोगैर् जीवितेन वा

1.32

साम्प्रतम् एव म्रियते2 बन्धुवर्गस् ततो जयम् अपि न काङ्क्षे
नाभिलषामि3 । अथोच्यते --- जये सति राज्यं लभ्यत इति चेत् तन् न4
।
न च राज्यं काङ्क्षे । राज्ये हि सति सुखानि भवन्तीति चेत् तन् न5 ।
न च सुखानि काङ्क्षे ।
कस्माद् इत्य् आह --- हे गोविन्द (रा)ज्येन भोगैः सुखादिभिर् वा
किं नः6 कृत्यम् । सर्वं वा राज्यभोगादिकं यज् जीवितोपकरणं7
तेनापि किं प्रयोजनम् इति ॥ 31 ॥
न त्व् एष पुरुषार्थां यद् आत्मम्भरित्वम् ।
किं तर्हि । सर्वं8 (हि) जीवितं राज्यादि (वा) गुरुपित्राद्यर्थम्
इष्यत
इत्य् आह9 ---
येषां अर्थे काङ्क्षितं10 नो राज्यं भोगाः सुखानि च ।
त एवेमे स्थिता योद्धुं प्राणांस् त्यक्त्वा सुदुस्त्यजान्

1.33

येषां गुर्वादीनां कृते राज्याद्य् अस्माभिः काङ्क्षितं त एव
मे गुर्वादयः सुदुस्त्यजान्12 प्राणांस् त्यक्त्वा13 नो ऽस्माकं
पुरतो योद्धुं14 स्थिताः । तत् को नाम बुद्धिपूर्वकारी
निष्प्रयोजनं
राज्यादि प्रियं कुर्यान् न गुर्वादीन्15 ॥ 32 ॥
तान् एव दर्शयति
आचार्याः पितरः पुत्रास् तथैव च पितामहाः ।
भातुलाः (श्व)शुराः पौत्राः श्यालाः16 सम्बन्धिनस् तथा

1.34

नोतेस्:
1. कृष्म
2. साम्न्पतमेव भ्निपते
3. नाभिलष्याभि
4. लभ्यत इति तन्न
5. चेन्नन्नन
6. नं
7. पज्जावितं पेकरं
8. सर्व
9. इत्यार्ह
10. पषामर्थे काक्षितं
11. योद्धु प्राणांस्सत्त्वकासुदुस्सजान्31
12. गुर्वादयस्सुदुस्सतात्
13. त्यत्का
14. योद्धुं
15. प्रिये कुयान्न तु पुर्वादीवोति
16. स्यालाः
प्. 30
श्यालाः1 श्वाशुर्याः । सम्बन्धिनो2 जामात्रादयः ॥ 33 ॥
इदानीं करुणाविष्ट आह ---
एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य4 हेतोः किन् नु5 महीकृते

1.35

एतान् आचार्यादीन् घ्नतो ऽपि जिघांसतो ऽपि हिंसितुं
नेच्छामि । घ्नतो ह्य् अवश्यं हन्यते6 लाभार्थं यदि (ते) हन्येरन् ।
तत्र त्रैलोक्यराज्यस्यापि हेतोर् न हन्तुम् इच्छामि7 किं पुनः
पृथिव्या अर्थे ॥ 34 ॥
पापशङ्कायाम् आह8 ---
निहत्य9 धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन10 ।
पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः

1.36

हे जनार्दन एतान्11 हत्वा अस्माकं को ऽभ्युदयो भवेत्12 ।
कस्य हि बन्धुमरणात् प्रीतिर् उत्पद्यते13 ।
प्रीतिर् इति यद्य् अपि कृदभिहितो भावो द्रव्यवद् भवति14 तथापि
भावरूपतां न जहाति15 नास्ति भिन्नकर्तृकता ।
हननप्रीत्योर् ह्य् एककर्तृकता16 ।
यत आततायिनः किलैते कथन् नः प्रीतिः स्याद् इत्य् आह17 ---
पापम् एवेति । एतान् हत्वा प्रत्युत पापम् एव अस्मान् आश्रयेत् ।
यत आततायित्वे ऽपि भ्रात्रादयः सम्भजनीया वर्धनीया
लाडनोया न तु
नोतेस्:
1. स्यालाः
2. संवेधिनो
3. ^मिच्छामिष्वतोपि
4. त्रैलोक्य^
5. कितु
6. हिसितुर्नेच्छामि ध्न र्त्धवश्यं हन्यन्ते
7. ^रंस्तत्रेलोक्यराज्यस्यापिहेतुर्न हन्तुमिच्छामि
8. पापसंवं शङ्कायामाह 34
9. निहस धार्तराष्ट्रन्निः
10. प्रेतिस्स्याज्जनार्हन
11. एना
12. योभ्युदयोभवेत्
13. प्रतिर्^
14. कृदमिहितो भावो द्रब्यबद्भवति
15. ^तं मृजहतिति
16. ^प्रीत्येत्द्यैक एकर्ता
17. कथन्न प्रीतस्स्मादित्याह
प्. 31
हन्तव्या इति । कथं हि भ्रात्रादिवधाद् एवाधर्मो ऽस्मान् न1
भजत इति हत्वा पापम् आश्रयेद् इति । अत्रापिशब्देन न्याये
भिन्नकर्तृकता वास्तवेन तु नास्ति ।
पापं हि हिंसादिकं2 क्रियात्मकम् एव ।
ततश् च एव हन्ति तेनैव कृतं पापं स्याद् इत्य् एकः कर्ता ॥ 35 ॥
एवं3 भ्रात्रादिवधाशङ्काविक्लवम् अभिधाय
तदभिप्रायाविष्करणायाह4 ---
तस्मान् नार्हा वयं हन्तुं5 धार्तराष्ट्रान् स्वबन्धवान्6 ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव

1.37

यस्माद् धार्तराष्ट्रहननात् प्रीतिर् नास्ति प्रत्युताधर्मः7
तस्मात् तान् स्वजनवर्गान् हन्तुं वयं नार्हाः8 ।
स्वजनं हि हत्वा कथं सुखिनो भवेम ।
धर्मबहिष्कृतानाम् एतदाचारणम् इत्यभ्यिप्रायः9 ॥ 36 ॥
किं च ---
यद्य् अप्य् एते न पश्यन्ति लोभोपहतचेतसः10 ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्

1.38

कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम्11 ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर् जनार्दन12

1.39

कुलक्षयस् तावद् ध्रुवः प्रत्युपस्थितः13 ।
तत्कृतश् च दोषो वक्ष्यमाणः सर्व14 एव ।
अमी च15 द्रोणादयो ऽस्मासु मैत्र्यां वर्तमानत्वान् मित्राणि ।
तेषां द्रोहे जिघांसायां यत्16 पातकं यद् वा मित्राणि
द्रुह्यतीति
मित्रध्रुक् तस्मिन् मित्रद्रुहि पुरुषे यत् पातकम्
नोतेस्:
1.भ्रात्रादिषधादेव^
2. यार्प हि हिसादिकं
3. कर्त्तान्न एवं
4. वित्क्लवेभिधायाम्भिप्रायाविष्करणयाह 35
5. हन्नु
6. ^वान्धवान्
7. प्रत्यता^
8. हन्तु वयं नाहाः
9. धर्मवहिष्कतानामेनद्दाचरितमित्याभिप्रायः
10. लौभोयहनः
11. पापद^
12. पपश्यद्भिख
13. तावद्धवः प्रत्युपस्थिः
14. वक्ष्यमाण^
15. चामी
16. जिघांयोयत्
प्. 32
इति सम्बन्धः ।
तद् एतद् उभयम् एते1 धार्तराष्ट्राः पृथिवीलाभोपहतचेतसः
सन्तो2 यद्य् अपि न3 पश्यन्ति न चेतयन्ते ।
तत् कथम् अस्माद् उक्तरूपात् पापान् निवर्तितुम् अस्माभिर् न4 ज्ञेयम्
अवश्यं ज्ञेयम् इत्य् अर्थः5 ।
किम्भूतैर् अस्माभिः6 । कुलक्षयकृतदोषम् अन्वगच्छद्भिः7 ॥ 38 ॥
तम् एव दोषं दर्शयति8
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्य् उत9

1.40

कुलक्षये सति ये धर्मा नित्यनैमित्तिका यागादयो
गोत्रसमाचाराः स्र्तीरक्षणादयश् चानादिकालीनास् ते
पुरुषाणाम् अनुष्ठातॄणाम् अभावात् प्रणश्यन्ति10 ।
यत्र च धर्मस्य हानिस् तत्रावश्यम् अधर्मः प्रभवति परस्परं
प्रत्यनीकत्वात् तयोः । तदभिभूतश् च11 प्राणिनो ऽकार्येषु
प्रवर्तन्त इत्य् आह12 --- धर्मे नष्टे कुलं कृत्स्नम् इति ।
उभयलोकहितवन् निस्त्र्यादिकम् अधर्म आक्रम्य तिष्ठतीत्य् अर्थः14 ।
उतावश्यम् इति ॥ 39 ॥
किं च
अधर्माभिभवात् कृष्णा प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः

1.41

अधर्माभिभवाद् हेतोः कुलस्त्रियः चरित्रहीना15 भवन्ति ।
तासु दुष्टासु वर्णेय जायते वर्णसङ्करः ।
वर्णश् चासौ सङ्करश् चेति । अशुद्धो वर्ण इत्य् अर्थः ॥ 40 ॥
नोतेस्:
1. ^मेने
2. लाभोपहेतचतेस्सन्तो
3. ना
4. ^उभरूपान्निवर्तिमस्माभिर्न
5. ^मितिथ्यः
6. किमूतैरस्माभिः
7. अन्वगच्छद्भिः
8. दृशयति 31
9. भवत्युत
10. पुरुषाणाननुष्टा रूणामभावान्प्रणश्यन्ति
11. पभवति ... प्रत्यनीकत्वान्नयोः तदभिभूजाश्च
12. प्रवर्ततः
13. धर्मो नष्टेकुल^
14. आक्रमतृधितिष्टतीत्य् अर्थः
15. चरित्रहीना
प्. 33
सङ्करो नरकायैव कुलध्नानां कुलस्य च1 ।
पतन्ति पितरो ह्य् एषां लुप्तपिण्डोदकक्रियाः

1.42

स वर्णसङ्करः कुलस्य नरकपतनाय कल्पते ।
यतः --- सन्ततिः शुद्धवंश्या तु पतरेह च शर्मणे ।
विपरीता तु नरकाय इत्य् आगमः2 ।
कुलध्नानां च नरकाय । यतो वर्णसङ्करोत्पत्तौ3
कुलध्नाः कारणभावं प्रतिपद्यन्ते4 । कस्मात् सङ्करो नरकाय5 ।
यस्माद् एषाम् उभयसैन्याश्रितकुलानां पितरः धर्म्यसन्तानाभावल्
लुप्तपिण्डोदकक्रिया6 भवन्ति । पिण्डश् च उदकं च पिण्डोदके
तयोः क्रियाः ता लुप्ता येषां ते श्राद्धादिविच्छेदे7 सति पतन्ति ॥
41 ॥
पुनर् अपि शोकसंविग्नत्वात्8 सङ्क्षेपेण तद् एवालोचयन्न् आह9 ---
दोषैर् एतैः कुलध्नानां10 वर्णसङ्करकारकैः ।
उत्साद्यते11 जातिर् धर्मः कुलधर्मश् च शाश्वतः

1.43

कुलध्नानां सम्बन्धिभिः एतैः यथोक्तैः
कुलधर्मनाशाधर्माभिभवकुलस्त्रीदूषणैर् वर्णसङ्करकारकैर्
हेतुभिः12 दोषैः कुलाभावाद् जातिधर्मो ऽनादिकालीनः13
क्षात्रः14
कुलधर्मश् चाध्ययनश्रद्धोदकदानादिः उत्साद्यते मूलत15 एव
विलोप्यत इत्य् अर्थः ॥ 42 ॥
ततश् च ---
उतसन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्य् अनुशुश्रुम

1.44

उत्सन्ने कुलधर्मे त्व् अयम् अन्यो दोषो16 यत् कुलधर्मैः
नोतेस्:
1. कुस्य च
2. इत्यागम
3. नरकापतो वर्णसङ्करोत्पत्तौ
4. कारणाभावं प्रतिपद्यन्त
5. कस्मा सङ्करो नरकार्य
6. ^भावलुप्तपिंडोदकक्रिया
7. ^विच्छेदे
8. ^सविग्नत्वात्^
9. आह 41
10. कुलघानां
11. उत्साघत
12. ^दुषणैर्^ वर्ण^
13. ^दोषै कुलाभाज्जारते धर्मो^
14. क्षत्रः
15. दानारुकत्साद्यते मुल्प्.अत
16. उत्सन्नकुलधर्मत्वेयमन्योदोषः
प्. 34
परस्वर्गाद्यभ्युदयेन योगात् प्रेतानां सन्ततिविच्छेदान् न भवति
(स्वर्गप्राप्तिः) । प्रत्युत1 श्राद्धातिथ्यादिकुलधर्माभावान्
नरकपतनं (तेषां) भवत्य् एवेति वेदवादिभ्यः2 अनुशुश्रुम
श्रुतवन्तो वयम् इति ॥ 43 ॥
एवं संशयाविष्टचेता3 नरकप्रत्यवायदर्शनात् सञ्जातसंवेग
आह4 ---
अहो बत महत्पापं कर्तुं5 व्यवसिता वयम् ।
यद् राज्यसुखलोभेन हन्तुं6 स्वजनम् उद्यताः

1.45

अहो विस्मये । बत विषादे । यद् राज्यसुखलोभेन विस्मयकारिणा7
सारभूतं दुर्लभं स्वजनं हन्तुं वयम् उद्यताः तत् महत्पापं
कर्तुं व्यवसिता इत्य् अतो ऽस्य विषादः8 ।
तथा राज्यसुखं नाम पश्य कीदृशं येन वयम् अद्य पापाः
सम्भाव्यमानस्वजनवधाय प्रवर्तामह9 इति10 विस्मयः ।
यद् वा11 अहो दैन्ये । बत खेदानुकम्पयोः ।
राज्येन यत् सुखं तल्लोभात् स्वजनवधपापव्यवसाये प्रवर्तामहे12
।
त्रयो ऽप्य् एते क्लेशा राज्यार्थम् अस्य प्रादुर् अभवन्न् इति13 कृत्वा
निवर्तितुम् इच्छतीति14 ॥ 44 ॥
संवेगाकुलः पुनर् अपि प्रलपन्न् आह15 ---
यदि माम् अप्रतीकारम् अशस्त्रं16 शस्त्रप्राणयः ।
धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत्

1.46

यदि धार्तराष्ट्राः शस्त्रपाणयः सन्तः माम् अशस्त्रम्
अनुद्यतायुधम् अप्रतीकारम्17 अकृतप्रतिविधानम् उदासीनावस्थं
हन्युस् तन् मे
नोतेस्:
1. धर्मैः प्रेतानां परस्वर्गादभ्यु^ योगः सतद्विच्छेदान्न भवति प्रत्यत
2. ^कुले^ ... पतनमित्येर्ववेद^
3. एव शयाविष्टचेता
4. आह 43
5. कर्तु
6. हन्तु
7. विस्मारेण
8. चिषादः
9. वयमध्यसम्भाव्यमानपापास्त्वजनवधयाये प्र^
10. हति
11. युद्धा
12. प्रवतीमदे
13. क्लेशांयार्थस्य प्रा^
14. ^मिच्छतीति
15. ^आह 44
16. ^ब्रतीकार^
17. तायधमं^
प्. 35
क्षेमतरं युक्ततरं स्यात् ।
परो मनोरथः (सिद्धः) स्यात् पाप्(आ)करणाद् इत्य् अर्थः ।
सशस्त्रं1 सप्रतीकारं मां हन्तुं न केचन क्षमाः स्युर्
इत्य् उभयोर् उपादानम् ॥ 45 ॥
इदानीं सञ्जयो धृतराष्ट्रं2 प्रत्य् अर्जुनकथाप्रस्तावं
समापयन्न् इ(द)म् आह ---
एवम् उक्त्वार्जुनः सङ्ख्ये3 रथोपस्थ उपाविशत् ।
उत्सृज्य सशरं चापं शोकसंविग्नमानसः

मूल पाठ: Bhagavadāśayānusaraṇabhāsya · Edition: D. Subhadropadhyaya, Varanasi, 1965 (Sarasvati Bhavana Granthamala, 94) · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc