आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 8
॥ इत्य् आयुर्वेदमहोदधौ मस्तुवर्गः ॥
इदानीं तक्रगुणाः कथ्यन्ते ॥
घोलं मथितम् उदश्वित्तक्रं चैतच् चतुर्विधं कथितम् ॥
सरसं निर्जलं स्वादु की(य)द् अम्भोवर्जितं मथितम् ।
(सरसं निर्जलम् आद्यं निर्हृतरसम् अम्बुवर्जितं मथितम्)
[अर्ध] पादसलिलम् उदश्वित्तद् अर्ध[पाद]जलं तक्रम् आहुश् च ॥
प्रत्येकं च चतुर्णां कथा ज्ञेयाः प्रयत्नेन
सरसं निर्जलं ज्ञेयं [घोलं] मथितं रसवर्जितम् ।
पादोदकम् उदश्वित्तत् तक्रम् अर्धजलं भवेत्
अथ गव्यमाहिषाजतक्रगुणाः ।
गव्यं तु दीपनं तक्रं मेध्यमर्शस् त्रिदोषजित् ।
माहिषं श्लेष्मलं तक्रं [छागं] लघु दोषत्रयापहम्
गुल्मार्शोग्रहणीशोफपाण्ड्वामर्थ[य]विनाशनम्
अथ तक्रभेदानां गुणाः ।
घोलं मारुतपित्तहारि माथितं श्वासापहं श्लेष्महृत्
पित्तश्लेष्मविनाश्युदश्विदधिकं तक्रं त्रिदोषापहं ॥
मन्दाग्नाव् अरुचौ तथैव नितराम् अन्येषु रोगेष्व् अपि
श्रेष्ठं तक्रम् इदं वदन्ति मुनयस् तेनोत्तमं प्राणिनाम्
अथ तक्रप्रशंसा ।
यथा सुराणाम् अमृतं प्रधानं तथा नराणां भुवि तक्रम् आहुः ।
अम्लेन वातं मधुरेण पित्तं कफं कषायेण निहन्ति सद्यः
वातश्लेष्मविनाशनं [कृमिहरं] कृच्छ्राश्मरीछेदनं
मूत्राघातहरं प्रमेहशमनं प्लीहार्तिगुल्मापहम् ।
दुर्नामोदरपाण्डुरोगजठरक्रूरार्तिनिष्कृन्तनं
तक्रं दीपनपाचनं लघुतरं पथ्यं सदा प्राणिनाम्
आमातिसारे च विशा [षृ] चिकायां वातज्वरे पाण्डुषु कामलेषु ।
प्रमेहगुल्मोदरवातशूले नित्यं पिबेत् तक्रम् अरोचके च
तक्रं स्वादु कषायम् अम्लकरसं भक्षं (क्ष्यं) लघूष्णं हितं
गुल्मार्शःपरिणामशूलशमनं छर्दिप्रसेकापहम् ।
तृष्णारोचकमेहशोफगरजित् श्लेष्मालसघ्नं पयं (रं)
सेव्यं मूत्रगदापहं ज्वरहरं स्नेहोत्थपीडापहम्
शीतकालो ऽग्निमान्द्ये च कफोत्थे कामलासु च ।
मार्गावरोधे दुष्टौ च वाग्नौ (यौ) तक्रं प्रशस्यते
न (तत्*) पुनर् मधुरं श्लेष्मप्रकोपनपरं परम् ।
वातघ्नं पित्तशमनं अम्लं चेत् पित्तकृत् सदा
दोषविशेषे तक्रविशेषविधिः ।
वातघ्नं (ते ऽम्लं) सैन्धवोपेतं स्वादु पित्ते सशर्करम् ।
कफपित्ते ऽपि (पिबेत् कफे ऽपि) वा तक्रं व्योषक्षारसमन्वितम्
स्थौल्यं करोति हरते निलम् एतद् एव
यन् नोष्णताम् अपगतं न कदाचिद् एव ।
सर्पिः शि(सि)तामधुकमुद्गकषाययुक्तं
सेव्यं वसन्तशरदागमकालवर्जम्
नवनीतद्वारे मथितं कथयन्ति सुधियः ।
चिरमथितं पुनर् उत्पत्तिकरं नरस्य दोषाणाम्
रोगविशेषे तक्रनिषेधः ।
नैव तक्रं क्षते दद्यान् नोष्मकाले न दुर्बले ।
न मूर्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके
तक्रप्रशंसा ।
शशिकुन्दसमप्रभशङ्खनिभं युवतीकरनिर्मलनिर्मथितम् ।
परिपक्वसुगन्धिकपित्थरसं पिब भो नृप तक्रं रुजापहरम्
मथितं गोरसं घोलं द्रवमस्तुविलोडितम् ।
श्वेतं दण्डहतं सान्द्रं नामतः परिकीर्तितम्
द्विगुणाम्बुश्वेतम् इदम् अर्धोदकम् इति स्मृतम् ।
तक्रं त्रिभागभिन्नं तु केवलं मथितं स्मृतम्
तक्रस्योपरि यत् तोयम् उदश्वित् परिकीर्तितम् ।
दध्नस् तूपरि यत् तोयं तन् मस्तु परिकीर्तितम्
ग्राहिणी वातला रूक्षा दुर्जग तकूर्जका ।
तक्राल् लघुतरो मण्डः कूचिका दधितक्रवत्
अक्रुत्वं गयतस् तक्रं क्रतुत्वेन शातक्रतुः (?) ।
तस्मात् त्रिविष्टपे जातं तक्रं शक्रस्य दुर्लभम्
कैलासे यदि तक्रम् अस्ति गिरिशः किं नीलण्ठो भवेत्
वैकुण्ठे यदि कृष्णताम् अनुभवेद् अद्यापि किं केशवः ।
इन्द्रो दुर्भगताभयाद् विजयति (तां क्षयं द्विजपतिः) लम्बोदरत्वं गणः
कुष्ठित्वं च कुबेरको दहनताम् अग्निश् च दिव्यस्ति चेत्
यद् द्रव्यं शङ्खवर्णं हिमपटलनिभं चारुगन्धः सुशीतं
गङ्गापानीयशुभ्रं युवतिकरम् अयस्फालनाञ्जर्जरं च ।
मन्थानेनानुविद्धं करतलरभसाद् बुद्वुदाकारफेनं
तत् तक्रं सूपधूपं त्व् अमृतगुणनिभं भाग्यवन्तः पिबन्ति
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0