भाषा

ENहिગુ
ग्रंथ पाठ

आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 7

7.1

इत्य् आयुर्वेदमहोदधौ सुखेन(षेण)कृते दधिवर्गः ॥
॥ अथ मस्तुगुणाः कथ्यन्ते ॥
[स्रो] श्रोतः शुद्दिं विधत्ते प्रकटयति रुचिं दीपयत्य् आशु वह्निं
कृत्वा शुद्धिं मलानां जरयति च हठाद् भुक्तम् अन्नं विचित्रम्
उष्णं चाम्लं कषायं लघु सुरभिरसं शूलविष्टम्भहारि
श्रेष्ठं मस्तु प्रशस्तं कफपवनरुजादुष्टमूत्रग्रहेषु

7.2

लघ्व् अन्ने रुचिपक्तिदं क्लमहरं बल्यं कषायं सरं
भक्तच्छन्दकरं तृषोदरहरं प्लीहार्शशोफापहम् ।
वान्तौ शुद्धिकरं कफानिलहरं विष्टम्भशूलापहं
पाण्डौ मूत्रविकारगुल्मशमनं मस्तु प्रशस्तं लघु

7.3

लघुत्वाद् दीपननत्वाच् च विष्टम्भाध्माननाशनात् ।
[स्रो] श्रोतःशुद्धिकरत्वाच् च ताक्राद् दधि (?) विकाश्यते

मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc